________________
२९८
सिद्धिधिनिश्चयटीकायाम् [४ जीवसिद्धिः भवतु एवं ततः किम् ? इत्यत्राह-सा अनन्तरोक्ता पुनः अर्थक्रिया वस्तुसत्तां चेद् व्याप्नुयात् । केन प्रकारेण सा ? इत्यत्राह-क्रमयोगपद्याभ्याम् इति । ततः किम् ? इत्याहव्यावर्त्तमाना अर्थक्रिया अन्त्यचित्तक्षणात् नित्याद्वा तयोः सत्तां निवर्तयेत् । कुत एतत् ? इत्यत्राह-स्वयम् आत्मना, अव्यापकस्य व्यावृत्तौ सत्यां व्यावृत्तः अनियमाद् अवश्यंभावाऽ५ भावाद् 'अव्याप्यस्य' इति शेषः ।
__ स्यान्मतम्-व्यावर्त्तताम् अन्त्यचित्तक्षणाद् अर्थक्रिया तथापि सत्ता न निवर्त्तते अप्रतिबन्धात्' इति चेत् ; अत्राह-सा च इत्यादि । कथम् अव्यभिचारी न कथञ्चित् हेतुः सत्त्वादिः अनर्थक्रियाकारिणि नित्येऽपि तद्भावाऽनिवारणादिति मन्यते । यतः व्यभिचारित्वात् क्षणिक
मेव परयार्थसत् सिध्येत् । १० ननु न कार्यसत्तया वस्तुसत्ता व्याप्ता यतः तन्निवृत्तौ' साऽपि निवर्तेत अपि तु तजनन
सामर्थेन, तँच्च सहकारि [२४४]वैकल्यात् चरमक्षणस्य अस्ति इति नाऽसत्त्वमिति चेत् ; अत्राह-सामग्री इत्यादि ।
[सामग्री कारणं नैकं शक्तानां शक्तिमान् यदि ।
सामग्री प्राप्य नित्योऽर्थः करोत्येवं न किं पुनः ॥१९॥ १५ नार्थक्रिया निवर्तमाना वस्तुसत्तां निवर्तयति, तत्सामर्थ्य पुनरन्त्यक्षणस्यास्ति, न
करोति सामग्रीवैकल्यात् । समर्थसादृश्यादित्ययुक्तम् ; नित्यस्यापि सर्वदा सामर्थ्येऽपि सामग्रीसाकल्यवैकल्याभ्यां कार्यकरणाकरणप्रसङ्गात् । विशेषतः पुनः नित्योऽर्थः संभवसामग्रीसन्निधिः करोत्यपि न पुनरन्त्यक्षणः सर्वथाऽभावात् । सहकारिसन्निधौ च स्वतः
कथञ्चित्प्रवृत्तिरेव भावलक्षणम् । तन्नागमो युक्तिबाधने समर्थम् व्याप्तेरसिद्धेः ।] २०
शक्तानां गुणकार्योत्पत्तिं प्रति समर्थानां सहकारि-उपादानहेतूनां या सामग्री समग्रता मेव (सैव) कारणं कार्यजनिका इत्यर्थः, न तेषां मध्ये एकां(एक) कारणम् इति। चरमश्च क्षण एक इति परो मन्यते । तदभिप्रायद्योतनो यदिशब्दः । अस्य उत्तरं पठति-शक्तिमान् इत्यादि । शक्तिमान् सदा समर्थः सामग्री प्राप्य नित्योऽर्थः आत्मा अन्यो वा
करोति एवं न [किं] पुनः । एतदुक्तं भवति-यथा क्षणिकं वस्तु चरमदशायां समर्थमपि २५ सामग्रीविकल्पात् (वैकल्यात् ) कार्याणि न सम्पादयति अन्यदा तु विपर्ययात् संपादयति तथा अक्षणमपि (अक्षणिकमपि) सर्वदा समर्थमपि सामग्रीवेलायां करोति नान्यदा इति ।
___ कारिकां व्याख्यातुमाह-नार्थक्रिया इत्यादि । न अर्थक्रिया कार्यसत्ता निवर्तमाना वस्तुसत्तां निवर्त्तयति तस्याः तेनव्याप्तेः (तयाऽव्याप्तेः) इति भावः । तत्सामर्थ्यम् पुनः इति सौष्ठवे अन्त्यक्षणस्य अस्ति । कार्य कस्मान्न करोति इति चेत् ? आह-सामग्रीवैकल्यात्
(6) अर्थक्रियासत्तयोरविनाभावाभावात् । (२) कार्यनिवृत्तौ । (३) वस्तुसत्तापि। (४) तजननसामर्थ्यम् । (५) कार्याकरणेऽपि । (६) कार्यजनकम् । (७) उपान्त्यक्षणादौ । (८) अर्थक्रियायाः । (९)
वस्तुसत्तया।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org