________________
२९७
४।१८]
सांख्याभिमततत्त्वसमीक्षा [सत्तां व्यामोति चेत्कार्यसत्तैवार्थक्रिया स्वयम् ।
क्रमाक्रमाभ्यां कूटस्थात् स्वनिवृत्तौ निवर्तयेत् ॥१८॥ तत्सत्ताव्यतिरेकेण नार्थक्रियां प्रेक्षामहे । सा पुनः क्रमयोगपद्याभ्यां वस्तुसत्तां व्याप्नुयात् अन्त्यचित्तक्षणात् नित्याद्वा स्वयंव्यावर्तमाना तत्सत्तां निवर्तयेत् । अव्यापकव्यावृत्तौ व्यावृत्त्यनियमात् । सा च 'कथमव्यभिचारी सत्त्वादिहेतुः यतः क्षणिकमेव ५ परमार्थसत् सिध्येत् ।]
सत्तां विद्यमानतां [२४३ख] व्यामोति चेत् यदि। किम् ? इत्याह-अर्थक्रिया स्वयम् आत्मना । काऽसौ अर्थक्रिया ? इत्याह-कार्यसत्तैव तत्का (तत्क) रणसामर्थ्यम् , अस्य निरूपयिष्यमाणत्वात्। साऽपि अर्थक्रिया क्रमाक्रमाभ्यां व्याप्ता, 'चेद्' इत्यनुवर्तते, 'व्यानोति' इत्यस्य कृतप्र (प्र) त्ययपरिणामस्य अत्र सम्बन्धः । कूटस्थाद् अचलात् नित्यात् स्वनिवृत्ती १० सत्तां निवर्तयेद अर्थक्रिया चेत् । अथवा 'क्रमाऽक्रमौ स्वनिवृत्तौ निवर्तयतः' इति वचनपरिणामेन सम्बन्धः 'अर्थक्रियाम्' इति ता (इप )विभक्तिपरिणामेन । नहि अन्त्यचित्तक्षणस्य अकारकत्वादेव 'अवस्तुसाधाद् व्यक्तमवस्तुत्वम्' इति घटना ।
___ ननु अन्त्यचित्तक्षणो यद्यपि सजातीयं कार्यं न करोति, न चापि (तथापि) विजातीयस्य विषयविज्ञानादेः करणात् नाऽसिद्धो मदीयो हेतुः, भवदीय एव अकारकत्वादेव इत्यसिद्ध इति १५ चेत् ; एतच्चोद्यपरिहारपुरस्सरं न परमातरी (?) इति गम्यते । तस्य सत्ता स्वोत्तरपरिणामसद्भावः तस्या व्यतिरेकः अभावः तेन ताम (स्वसत्ताम)न्तरेण इत्यर्थः । नार्थक्रियां विजातीयकरणं प्रेक्षामहे अपि तु तयाँ सहैव प्रेक्षामहे । एवं मन्यते यथा शिशपायाः क्वचिद् वृक्षस्वभावतामुपलभ्य देशान्तरादावपि तत्स्वभावता. अन्यथा निःस्वभावतापत्तः, ववस्थाप्यते. तथा तत एव भावस्य बहुलं सजातीयेतरकार्यजननसामर्थ्यस्वभाववा (ता) दर्शनात् सर्वदा सा २० किन्न व्यवस्थाप्यते विशेषाभावात् ? इतरथा सर्वानुमानोच्छेदः ।।
ननु भवतु तत्स्वभावता, तथापि सजातीयं न करिष्यति इति चेत् ; विरुद्धमेतत् [२४४क] 'समर्थं न करोति च' इति नित्यवत् । उपादानवच्च उपादेयस्याऽपि अदृश्यताविरोधात् । अथ कार्यत्तया (अथ न कार्यसत्तया) भावसत्ता व्याप्ता ततो विजातीयकार्यासद्भावेऽपि सी न विरुध्यते। . कुत एतत् ? तथादर्शनात् , तदितरत्र समानम् । यदि वन्धः (यदि पुनरयं निर्बन्धः) सजातीया- २५ करणेऽपि विजातीयकरणम् इति; तथा विजातीयाऽकरणेऽपि सजातीयकरणशङ्कया भाव्यमिति न निरारेका सुगतस्य इतरस्य वा सर्वज्ञता" नाम ? कथञ्चैवंवादिनां सामग्री जनिका ? यतः *"एकसामग्र्यधीनस्य" [प्र०वा० ३।१८] इत्यादि सुघटं स्यात्” । तस्माद् विजातीयवत् सजातीयस्यापि करणमस्तु इति ।
(१) व्याप्नोति इति क्रिया कृदन्तप्रत्ययान्ता 'व्याप्ता' इति रूपं प्राप्ता अत्र सम्बध्यते । (२) द्विवचन । (३) 'ता' इति षष्ठीविभक्तः संज्ञा । (४) अत्र तु 'अर्थक्रियाम्' इति द्वितीयान्तं सम्बध्यते । (५) अत्र पाठः त्रुटितः । (६) सत्तया । (७) पुरःस्थिते । (८) सजातीयेतरकरणस्वभावता । (९) भावसत्ता। (१०) सर्वेऽर्थाः सजातीयमेव उत्तरक्षणं कुर्वन्तु न सर्वज्ञचित्तं विजातीयमिति भावः। (११) तत्र हि सजातीयमुत्तरक्षणं जनयित्वैव विजातीयं क्षणं प्रति सहकारिभावकल्पनेनैव निर्वाहः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org