________________
५
२९६
सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः ननु यथा चरमक्षणः अनर्थक्रियाकार्यपि परार्थक्रियाकारिसाम्यात् [सन् ] तथा आत्मापि स्यात् ; तन्न युक्तं 'तद्विहाय' इत्यादि इति सांख्य-योगाः; तत्राह-अन्त्य इत्यादि ।
[अन्त्यचित्तक्षणेवात्मा भावश्चेत् कारको यतः ।
स्यादभावस्ततस्तद्वदभावेनाविशेषतः॥१६॥ नित्यस्यात्मनः अन्त्यबुद्धिक्षणस्य च स्वयमकिश्चित्करस्यानर्थक्रियाकारिणः कुतश्चित्कारकादिसाधा वस्तुत्वे पुनः अकारकत्वादेव व्यक्तमवस्तुत्वम् अवस्तुसाधात् ।]
अन्त (अन्त्य) श्चासौ चित्तक्षगश्च स इव आत्मा पुरुषोऽकारकः कार्यमकुर्वन् भावो वस्तु स्याद् भवेत् । कुतः ? कारको यतः, अन्येन कारकेण समानधर्मा यतः।
चेत् शब्दः पराभिप्रायद्योतकः । अत्र दूषणमाह-अभावस्वच्छः (अभावस्तुच्छः) स्यात् १० 'आत्मा' इति सम्बन्धः । ततः [तद्वत् ] अन्त्यचित्तक्षणाद् (गवद् ) अभावेन नीरूपत्वेन अविशेषतो विशेषाऽभावात् , जैनान् प्रति साध्यसमो दृष्टान्त इति मन्यते । ____ दृष्टान्त-दान्तिको एकेन तलप्रहारेण अपहस्तयन्नाह-नित्य इत्यादि । नित्यस्य अविकारिण आत्मनः अन्त्यबुद्धिक्षणस्य सौगतकल्पितस्य च इति समुच्चये । स्वयं न किञ्चित्करस्य अनर्थक्रियाकारिणः कुतश्चिद् वस्तुत्वे अङ्गीक्रियमाणे । कुतः कुतश्चिद् ? इत्याह१५ कारकसाधाद् [२४२क] इति । कारकेण साधर्म्यात् ज्ञेयत्वादिलक्षणाद् आदिशब्देन वस्तुत्वादिपरिग्रहः।
ननु ज्ञेयत्वं स्वविषयज्ञानजनकत्वम् , अतः तच्चेत् तस्यास्ति; 'स्वयम् अकिञ्चित्करस्य' इति विरुध्यते । वस्तुत्वादिसाधाच्च वस्तुत्वसाधने तदेव साधनं साध्यं च प्रसक्तम् । तत्र ज्ञेयत्वादिभावे व (च) यद्वक्ष्यति-'अवस्तुसाधर्म्यात्' इति; तदपि न सङ्गतम्, खरशृङ्गा२० दिना साधाभावादिति चेत् ; न; अन्यथाऽभिप्रायात् । तद्यथा, यथाहि-परेणे अन्त्यचित्तक्ष
णस्य आत्मनो वा स्वयमकिञ्चित्करस्यापि वस्तुत्वं साध्यते कारि(र)काभिमतवत् केनचिद् उभयत्र विद्यमानेन धर्मेण, तदा हेतोरस्य असिद्धतोद्भावनार्थमाह-पुनः इत्यादि । पुनः अस्य प्रयोगस्य अनन्तरम् अकारण (क) त्वादेव कारकसाधाऽभावादेव न हेत्वन्तरात् इति एव
कारार्थः । न हि स्वयमकिञ्चित्करस्य केनापि धर्मेण कारकसा श्यं सदपि ज्ञातुं शक्यम् , तद्धर्म२५ ज्ञानोपायाऽसंभवात् । ततः किम् ? इत्याह-व्यक्तं यथा भवति तथा अवस्तुत्वम् वस्तुत्व
साधनाभावः प्रकृतस्य इति । इदं तु निश्चितं स्याद् इत्याह-अवस्तु इत्यादि । अवस्तुना खरविषाणेन साधाद् अकिञ्चित्करत्वसादृश्यात् व्यक्तमवस्तुत्वं निःस्वभावत्वम् । यदा परोऽकिञ्चित्करस्यास्य वस्तुत्वसाधने कल्पितं कारकसाधर्म्यमिच्छति तदा अकारकत्वादेव इत्यादि
प्रतिप्रमाणमुच्यते। ३० अन्त्यचित्तक्षणस्य अकिञ्चित्करस्य अवस्तुसाधर्म्यादि (द) वस्तुत्वे साध्ये अकारकत्वादेव इत्यस्य हेतोः परोपगतेन न्यायेन साध्याव्यभिचारं दर्शयन्नाह-सत्ताम् इत्यादि ।
(१) ज्ञयत्वं । (२) नैयायिक-सौगतादिना । (३) आत्मनः । (१) अन्त्यचित्तक्षणस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org