________________
२९५
.
४।१५ ]
सांख्याभिमतचैतन्यसमीक्षा (आत्मा) स्वभावो येन तस्य । कस्य ? इत्याह-प्रधानस्य' । किं भूतस्य ? इत्याह अचेतनस्य इति । तस्य सुखदुःखादि (देः) वृत्तिः तत्परिणतिः इति । 'प्रतिपन्न' इत्यादिना प्रधानवद् यदि पुरुषस्यापि प्रतिपन्नकार्यकारणात्मता को दोषः स्याद् येन तस्य अविकारित्वं कल्प्यते ? न च दोषमन्तरेण तत्त्यागः अप्रेक्षाकारितापत्तेः । स्यात् प्रत्यक्षादि वा वा (बाधा) दोषो यदि अविकार्यस्या (र्यत्वमस्य) प्रतीयेते (येत) [२४२क] दर्शयति 'सुख' इत्यादिना कृतोत्तरत्वम् । ५ कृतोत्तरं ह्येतत्-*"स्यात्पर्यायः पृथिव्यादेः" [सिद्धिवि० ४।१४] इत्यादिना ।
ननु स्यादेवं यदि चेतनाः सुखादयः सिद्धाः स्युः, न चैवमिति चेत् ; कथं पुरुषः चेतनः ? अभ्युपगमात् , सोऽयम् अन्यस्य सुखादावपि । न चास्य स्वपरसम्बन्धित्वकृतो विशेषः; तदकिञ्चित्करत्वात् । एतेन 'आगमात्' इति चिन्तितम् । यदि पुनः स्वयम् आत्मनो ग्रहणात्स चेतनः; सुखादिरपि स्यात् । नहि तस्यापि पर एव साक्षात्कारी कश्चित् । पुरुष इति चेत् ; १० तस्यापि तथा अन्यकल्पने अनवस्थितिः । अपरस्याऽदर्शनम् उभयत्र । अचेतनप्रधानपरिणामत्वात् पृथिव्यादिवद् अस्वग्रहणात्मकाः सुखादयः ; प्रत्यक्षेण पक्षबाधनं शब्दाऽश्रावणत्ववत् । कथं वा तत्परिणामाः ते इत्यपि चिन्त्यम् । अनात्मग्रहणात्" ; अन्योऽन्यसंश्रयः" । उत्पत्त्यन्यत्वादेः (उत्पत्तिमत्त्वादेः) घटादिवदचेतनाः सुखादय इत्येके ; तत्र (तन्न ;) सत्त्वात् तद्वत् पुरुषोऽप्यचेतनः स्यात् । तत्र यथा सत्त्वाऽविशेषेऽपि किञ्चित् चेतनम् , अपरम् अन्यथा, तथा १५ उत्पत्त्याद्य (उत्पत्तिमत्त्वाद्य) विशेषेऽपि स्यात् । अत्र अन्ये हेतोः असिद्धतामुद्भावयन्ति ; तन्न ; अन्यथाभावस्य उत्पत्त्यादिव्यपदेशात् , तस्य सांख्यैरपि अङ्गीकरणात् अन्यस्य तव्यपदेशाहस्य प्रमाणतः सौगतस्यापि असिद्धेः । ततः सुखादेः चेतनत्ववत् चेतनपरिणामत्वमुक्तमिति मन्यते । चेतनः पुरुषः स्वयम् आत्मना अकर्ता केवलं प्रधानकर्तृत्वारोपाद् उपचारेण कर्ता इत्युच्यते इति 'स्वयम्' इत्यनेन दर्शयति, स्वभावतः स्वरूपतः न उपचारतः । दर्शनाद्दर्शितविषयस्य २० साक्षात्करणाद् भोक्ता इत्येवं जीवस्य तत्त्वं विभजते । एवं मन्यते भोक्तृत्ववत् [२४२ ख कर्तृत्वमपि बुद्धिपूर्व चेतनस्यैव युक्त नेतरस्य ; अन्यथा तत एव सकलपुरुषार्थसिद्धः पुरुषकल्पना कमर्थं पुष्णाति ।
स्वत इत्यादिनैव 'व्यापको देश (कादेश)कल्पना मिथ्या' इति च व्याख्यातम् । तथाहि-स्वत आत्मना प्रवर्त्तमानस्यैव युगपत् सर्वशरीरावयवान् स्वावयवैः व्याप्नुवतः २५ परस्य शरीरो (शरीरस्य उपकारो धारणादिः तस्य संभवान्न निश्रा (वात् मिथ्या अ) देशस्य सौगतकल्पिताविभागचित्तवद् इति । एतच्च चू # लघ्वादे ('लटादेः) जीवसिद्धौ "शास्त्रकृता चिन्तितम् अवधार्यम् । एतदपि कुतः इत्याह-अवस्तु (वस्तु) लक्षणम् इत्यादि। [परिणामः] सह क्रमेण वा अन्यथाभावो भावलक्षणम् । शेषं पूर्ववत् ।
(१) प्रकृतितत्वस्य । (२) स्वीक्रियेत । (३) पुरुषस्य । (४) जैनस्य । (५) अभ्युपगमस्य । (६) जैनागमे सुखादेश्चेतनत्ववर्णनात् । (५) पुरुषः। (८) इति चेत् । (९) सुखादयः। (१०) आत्मरवेनाग्रहणात् । (११) सति सुखादेः आत्मत्वेनाग्रहणे अचेतनप्रधानपरिणामसिद्धिः, तत्सिद्धौ च अनात्मग्रहणसिद्धिरिति । (१२) पृथिव्यादिवत् । (१३) पृथिव्यादि । (१४) अचेतनम् । (१५) बुद्धिमतः प्रधानादेव । (१६) निरंशस्य । (१७) लटपिपीलिकादेः त्रसजीवस्य । (१८) अकलङ्कदेवेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org