________________
२९४
सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः व्यापकस्य आत्मनोऽदेशकल्पना निरंशत्वकल्पना मिथ्या तयोः विरोधात् इति निरूपयिष्यते । [२४१क] 'व्यापकादेर्विकल्पन्त(ल्पना)'इति क्वचित् पाठः । अत्र आदिशब्देन निरंशत्वादिपरिग्रहः, सोऽपि मिथ्या एकत्र प्रमाणाभावाद् अन्यत्र देहाऽव्यापकत्वप्रसङ्गात् ।
स्वतः इत्यादिना कारिकार्थमाह-स्वत आत्मना प्रवर्तमानस्यैव पूर्वाकारपरिहाराऽजह५ वृत्तमुत्तरं परिणामम् अनुभवत एवानेकरूपस्य परोपकारसंभवात् परेषाम् आत्मनो भिन्नानां बुद्ध्यादीनाम् उपकारो जनम् (जननम् ) अथवा परैः सहकारिभिः उपकारः अतिशयो वा तक्तस्य (तस्य) संभवात् कारणात् तद्विहाय तत् स्वतःप्रवर्त्तमानं वऽतुस्रुत्यका (वस्तु मुक्त्वा) पुनरविकारिण एव कूटस्थनित्यस्यैव आत्मनो जीवस्य प्रयत्नाऽदृष्टसमवायात् सकाशात् कर्तृ त्वं
पुनः पश्चात् प्रयत्नाऽदृष्टाकृष्टेष्टपदार्थप्राप्तयनन्तरं सुखदुःखादिसमवाया भोक्तृत्वम् इत्येवं १० व्यासूनो (बन्ध्यासूनो)र्विक्रमादिगुणसम्पदं वक्तुम् उपक्रमते नैयायिकः । एतदुक्तं भवति
यथा बन्ध्यासुतस्य परोपकाराऽसंभवात् न विक्रमादिगुणसंपत्कीर्तनं न्याय्यं तथा अविकारिणः परोपकाराऽसंभवात् प्रयत्नाऽदृष्टयोरभावात् न तत्समवायात् कर्तृत्वं न्याय्यम् , तदभावात् तत्कुतः ? सुखदुःखादिविज्ञानाऽभावात् तत्समवायाद् भोक्तृत्वमपि ताहगेव इति । प्रयत्नाऽदृष्टयोः सह
वचनं तयोः कार्यकारणभावाऽभावप्रदर्शनार्थम् । परेण हि प्रयत्नविशेषाद् अदृष्टः, तस्माच्च १५ प्रयत्नविशेष इति इष्यते । तत्र अविकारिणं एकस्याप्यनुत्पत्तौ द्वितीयाभावस्य सुलभत्वात् ।
दृष्टान्तदाान्तिकभावाऽभावप्रदर्शनार्थं वा- तेन हि प्रयत्नस्य दृष्टान्तत्वम् अदृष्टस्य दार्टान्ति• कत्वम् इष्यते [२४१ख] । तद्यथा-'प्रयत्नसमानधर्मेण हि देवदत्तगुणेन तदुपकारकाः पश्वादयः
समाकृष्टाः कार्यत्वे सति तदुपकारकत्वात् प्रासादिवत्' इति ; तत्र प्रयत्नस्य अविकारिगुणत्वनिषेधे कुत एव अदृष्टस्य "तद्गुणत्वम् इति ? २० ननु मा भूद् बन्ध्यासूनोः अत्यन्तमसतो विक्रमादिगुणसम्यग (सम्पद्)व्यावर्णनम् ___ आत्मनस्तु अविकारिणोऽपि सत्त्वात् कर्तृत्वादिव्यावर्णनमुपपन्नमिति चेत् ; अत्राह-वस्तु इत्यादि।
वस्तुनो भावस्य लक्षणं स्वभावः । किम् ? इत्याह-परिणामः । "तदभावे वस्तुत्वाऽयोगात् । तलक्षणं वस्तुनो विहाय पुनः अविकारिण एव वस्तुलक्षणपरिणामरहितस्यैव अवस्तुन एव इत्यर्थः, लक्षणनिवृत्त्या लक्ष्यनिवृत्तेरवश्यंभावात् । शेषं पूर्ववत् ।
एवं नैयायिकमतं निराकृत्य कापिलमतं निराकुर्वन्नाह-तथा इत्यादि । तथा तेन प्रकारेण परः सांख्यः जीवस्य आत्मनः तत्त्वं स्वरूपं चैतन्यसुखदुःखादिपरिणाम कर्तृत्वभोक्तृत्वलक्षणं विभजते विलभते । किं गजे व (किं वत्) कथम् ? इत्याह-प्रतिपन्न इत्यादि । प्रतिपन्नः कथञ्चिदभेदेन आत्मसात्कृतः कार्यस्य उत्तरोत्तरस्य महदादेः कारणस्य पूर्वपूर्वस्य आत्म
- (1) व्यापकत्व-निरंशत्वयोः । (२) सर्वगतत्वपक्षे। (३) निरंशत्वे । (४) परकृतस्य उपकारस्य आधानायोगात् । (५) तल्लक्षणकर्तृत्वाभावात् परोपकारः कुतः । (६) आत्मनः । (७) नैयायिकेन । (6) अदृष्टेन । (९) “देवदत्तविशेषगुणप्रेरितभूतकार्याः तदुपगृहीताश्च शरीरादयः कार्यत्वे सति तदुपभोगसाधनत्वात् गृहवदिति ।"-प्रश० किरणा० पृ. १४९। (१०) अविकार्यात्मगुणत्वम् । (११) परिणामाभावे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org