________________
४।१५ ] नैयायिकाभिमतचैतन्यसमीक्षा
२९३ साधर्म्य तथा भूतचेतनयोः,' अरूपादित्वात् चेतनस्य । तत्रापि तत्कल्पने न प्रत्यक्षम्', साधनान्तरनिषेधात् । नानुमानम् , अन्यथा 'प्रत्यक्षमेव प्रमाणं नापरम्' इति प्रमाणव्यवस्थामतिलचयति सत्त्वादेः पृथिवीदृष्टान्तेन चेतते (चेतने) रूपादिमत्त्वसाधने तँत एव भूतानां प्रत्येकंतत्साधनात् प्रमेयव्यवस्थाम् अतिलङ्घयति ।
'जीवे तावत् नास्तिक्यं मिथ्यादर्शनम्' इति व्याख्यातम्, संप्रति 'अन्यत्र जीवाभिमा- ५ नश्च' इत्येतद् व्याख्यातुकाम आह-[२४०ख] तथा च इत्यादि ।
[ तथा चात्मा गुणैः कर्ताऽविकार्यप्यर्थान्तरैः।
भोक्तति मतं मिथ्या व्यापकादेशकल्पना ॥१५॥ स्वतः प्रवर्तमानस्यैवानेकरूपस्य परोपकारसंभवात् । तद्विहाय पुनरविकारिण एव प्रयत्नादृष्टसमवायात् कर्तृत्वं पुनः सुखदुःखादिसमवायात् भोक्तृत्वमिति बन्ध्यासूनो- १० विक्रमादिगुणसम्पद्वक्तुमुपक्रमते । परिणामो वस्तुलक्षणम् । तथा परो जीवस्य तत्त्वं चैतन्यसुखदुःखादिपरिणामकर्तृत्वभोक्तृत्वलक्षणं चेतनः पुरुषः स्वयं स्वभावतः अकर्ता दर्शनात् भोक्तेति विभजते । प्रतिपन्नकार्यकारणात्मनोऽचेतनस्य प्रधानस्य तवृत्तिरिति सुख । स्वतः प्रवर्तमानस्यैव शरीरोपकारसंभवात् ।]
तथा तेनैव प्रकारेण गुणः प्रयत्नाऽदृष्टादिलक्षणैः करणैः कृत्वा आत्मा कर्ता । १५ किंभूतैः ? अर्थान्तरैः ततोऽत्यन्तं विभिन्नैः । किंभूतोऽपि ? इत्याह-अविकार्यपि अनाधेयाऽप्रहेयातिशयोऽपि इत्येवं मतम् मिथ्या तप्रा (तथा) गुणैर्बुद्ध्यादिभिः अर्थान्तरैः आत्मा अविकार्यपि सुखाद्यनुभवरूपतया गगनवदपरिणतोऽपि भोक्ता इति मिथ्या युक्तिविरोधात् । एवं वैशेषिकादेः अन्यत्र जीवाभिमानं प्रदर्य सांख्यस्य दर्शयन्नाहभोक्ता इत्यादि । तत्रायमर्थः-गुणैः सत्त्वरजस्तमोभिः कारणभूतैः अर्थान्तरैः प्रधानाश्रितैः २० आत्मा पुरुषः भोक्ता तदुपदर्शितानामर्थानाम् अनुभविता अविकार्यपि तत्साक्षात्करणपरिणामरहितोऽपि इति मिथ्या। नहि तथाऽपरिणतं तथा भवति, विप्रतिषेधात् । सदा तत्स्वभावत्वे जाग्रत्सुप्ताद्यविशेषः । सति दर्शने सतो दृश्यस्य अदर्शनायोगात् । तदाविर्भावतिरोभावकल्पनापि अविकारिणो न युक्ता। एतेन पुरुषान्तरबुद्ध्यर्पिताकारस्य सर्वस्य सर्वैदर्शनम् उक्तम् । अदृष्टं न दर्शनस्य नियामकम् एकरूपत्वात्तस्य । नापि दृश्यस्य २५ निःस्वभावतापत्तेः । न च समानदर्शनानां कस्यचिद् दृश्यंद्य यद्य दृष्यं (दृश्यमन्यस्याह श्य) दृष्टमिति । तथा 'भोक्तापि सन्नकर्ता' इति मिथ्या, भोक्तुः अकर्तृत्वविरोधात् , सकलशक्तिविरहलक्षणत्वाद् अकर्तृत्वस्य । अधुना तयोः" साधारणं मिथ्यात्वं दर्शयन्नाह-व्यापक इत्यादि।
(१) साधर्म्यमस्ति । (२) प्रमाणं साधकमस्ति । (३) सस्वादिभ्यः । (४) आत्मनः । (५) । नैयायिकस्य । (६) दर्शनस्वभावत्वे । (७) कदाचिदाधिर्भावः कदाविञ्च तिरोभावः । (८) कूटस्थनित्यस्य पुरुषस्य सदैकरूपत्वात् । (९) अदृष्टस्य । (१०) भुजिक्रियायाः कर्तुरेव च भोक्तृत्वात् । (११) नैयायिक सांख्ययोः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org