________________
२९२ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः इति हेतोः विरुद्धाऽव्यभिचारी 'सत्त्वोत्पत्तिकृतकत्वादिः' इति विभक्तिपरिणामेन सम्बन्धः, विरुद्ध साध्यं न व्यभिचरति एवंशीलः चैतन्यभूतपरिणामवत् तेषामपि अन्यपरिणामप्रसाधनात् । यदि वा, विरुद्धन साध्येन [अव्यभिचारी तदविनाभावी विरुद्ध इति यावत् । तथाहि-विज्ञप्तः
सत्त्वादि मध्यावस्थायाम् अनन्तरोक्तन्यायाद् विपक्षसद्भावबाधनात् चेतनोपादेयत्वाव्यभिचारि ५ प्रतिष्ठापितं [२३९ ख] यथा च 'अन्तर्व्याप्तौ असिद्धायां बहिर्याप्तेरकिञ्चित्करत्वं तथा न सिद्धायामपि इति । यद्वक्ष्यति-प्र मा ण सं प्र हे-*"भविष्यति आत्मा सत्त्वात्" [प्रमाणसं० पृ० १०४] तत्र च न अचिद्र पेण ; अनिष्टापत्तेः साधनवैफल्याच्च । नापि चिद्र पेण ; तत्साधने पृथिव्यादावपि सद्भावे न तव्यभिचारी विशिष्टस्य हेतुत्वात् । इदमपरं व्याख्यानम्
तत एव इत्यादि । भूतानामपि इति, अयमपिशब्दो भिन्नक्रमः 'विरुद्धाऽव्यभिचारी' इत्यस्य १० अनन्तरं द्रष्टव्यः । ततोऽयमर्थो न केवलं विरुद्धाऽव्यभिचारी किन्तु व्यभिचार्यपि । विज्ञप्तमध्यदशायां चैतन्यविवर्ताऽनतिक्रमेऽपि सत्त्वोत्पत्तिकृतकत्वादेर्दर्शनात् ।।
इति इत्यादिना उपसंहारमाह-इत्येवम् अनन्तरप्रकारेण मिथ्याभिनिवेशाद् असत्याऽऽमहात् प्रमाणप्रमेयव्यवस्थाम् अतिलवयेत् प्रमाणस्य प्रमाणत्वस्य, भावप्रधानत्वात् निर्देशस्य,
व्यवस्था विशद एव अभ्रान्त एव ज्ञाने स्थितिः ताम् अतिलवयेत् अतीव प्रलयं नयेत् । तथाहि१५ भूतेभ्योऽत्यन्तमभिन्नं चैतन्यं भिन्नं (अत्यन्तभिन्नं चैतन्यमभिन्न) पश्यत् प्रत्यक्षं यदि प्रमाणम् ; द्विचन्द्रादिज्ञानं कथं न भवेत् यतो लौकिकी (की) प्रत्यक्षतदाभासव्यवस्थामनुसरन् लौकायतिकः स्यात् ? अथ अप्रमाणम् ; द्विचन्द्रादिज्ञानवत् सर्वमविशेषेण भवेद् भूतेभ्योऽभिन्नस्य स्वरूपस्य ततो भिन्नस्य सर्वेण ग्रहणात् । नहि किञ्चिद्विज्ञानम् आत्मानं रूपाद्यात्मकं प्रत्येति सारूप्यनिषे
धात् । तथापि तस्य तथा प्रतीतिकल्पने सर्वस्य सर्वदर्शित्वकल्पने [s]लौकायतिकं जगत् स्यात् । २० किं च, तदात्मकत्वेन [२४० क] सर्वस्य ज्ञानस्य अवभासने चार्वाकचर्विता सर्वविप्रतिपत्तिः इति किं शास्त्रप्रणयनेन ? नहि नीलादिकं पश्यन्तं प्रति तदुपदेशः अर्थवान् । भ्रान्तिव्यवच्छेदार्थं तदिति चेत् ; न; भ्रान्तिबुद्धरपि तदात्मकत्वेन अवभासने तदवस्थो दोषः, ततः ततोऽभिन्नस्य स्वरूपस्य भिन्नस्य ग्रहणात् किन्नामाभ्रान्तं यत् प्रत्यक्षं प्रमाणं स्यात् ? भूतात्ममात्रे
अभ्रान्तमिति चेत् ; स्यादेतदेवं यदि "तन्मात्रस्य कुतश्चित्सत्त्वं प्रतीयेत, दर्शनस्य तददर्शनेन व्यभि२५ चाराद् , अत्रापि बाधकस्य दुर्लभत्वात् ।
यदि तर्हि तद् भूतेभ्यो भिन्नमवभासते तथैव सत् इत्येके । तथापि तस्य ततोऽभेदे [न] कस्यचित् कुतश्चिद् भेद इति न प्रत्यक्षप्रमाणव्यवस्था तत्प्रमेयव्यवस्था वा इत्यपरे ।
अपरस्य तु दर्शनम्-सत्यम् ; तद्भूतेभ्यः कारणत्वेन अभिमतेभ्यो भिन्नं तथाऽवभासनात्, कार्यस्य कारणात् भेदाच्च, तथापि यथा पार्थिवतन्तुभ्यः पटो जायमानो भिन्नोऽपि पार्थिव एव तथा ३० चैतन्यं भूतात्मकशरीराद् भूतात्मकम् इति; तदसत्यम् ; यतो नहि यथा रूपादित्वेन तन्तुपटयोः
(१) पक्ष एव साध्यसाधनयोाप्तिरन्ताप्तिः । तुलना-"अन्तर्व्याप्तावसिद्धायां बहिरङ्गमनर्थकम्" प्रमाणसं० पृ० १११। (२) 'न' इति निरर्थकम् । (३) प्रमाणम्' इति सम्बन्धः । (१) तदाकारतानिराकरणात् । (५) भूतात्ममात्रस्य । (६) जायमान भिन्नमपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org