________________
१०
४।१४] भूतचैतन्यनिरासः
२९१ चेतनाकारेण विवर्तेत यदि स्वापप्रबोधवत् स्वापप्रबोधयोरिव प्रेत्यभावसिद्धेः मृत्त्वा पुनर्भवनसिद्धेः कथं न कथञ्चिद् अनवद्यं स्यात् । किं तत् ? इत्याह-अपर इत्यादि । [२३८ख] एतदभ्युपगम्य दूषणमुक्तम् , यावता परमार्थतो नैतदस्ति इति । 'न पुनः चेतनः चैतन्यं विहाय' इत्यादिना उक्तं स्मारयन्नाह-चेतनेतरयोः इत्यादि । चेतनो जीवः इतरोऽचेतनः पृथिव्यादिः तयोः सङ्करश्च एकत्र प्रसक्तिः व्यतिकरश्च परस्परविषयगमनं तयोः प्रतिपत्तिः-अयुक्तैव । कथं. ५ भूतयोः ? इत्याह-स्वभावसिद्धयोः एकैकपरिहारेण स्वस्वरूपेण सिद्धयोः । यदि वा, स्वस्मात् समानजातीयाद् भावात् निष्पन्नयोः । कुतः ? इत्याह-दृष्टस्य तयोर्भेदस्य हानेः सर्वस्य प्रक्षयस्य (प्रत्यक्षस्य) सा नासतां दर्शयति-नीलादिसुखादिप्रत्यक्षस्यापि तदनुषङ्गात् । अदृष्टस्य प्रत्यक्षेण अविषयीकृतस्य तयोः सङ्करादेः कल्पनाच इति। अनेनापि परस्य प्रमाणान्त[र] प्रसङ्गं दर्शयति तदभावे तदयोगात् ।।
ननु' भवतु अदृष्टकल्पनम् अप्रमाणकं तु न स्यात् , व्यवहारेण तदभेदसाधकस्य अनुमानस्योपगमात् । तच्च अनुमानम्-चेतनो भूतपरिणामः तत्स्वभावो वा सत्त्वादिभ्यो जलबु
बुदवत् मदशक्तिवच्च इति । एतदेवाह-जल इत्यादिना । जलस्य बुबुदैः समानं वर्त्तते इति तद्वत् । के ? इत्याह-जीवाः । एतदुक्तं भवति-यथा सत्त्वादिसन्तो (मन्तो) बुबुदा जलात्मकाः तत्रैव भवन्ति विनश्यन्ति [च] तथा जीवाः पृथिव्यादिषु इति मदस्य जातिकया १५ मन्त्र्या (शक्त्या ) तुल्यं वर्तते इति तद्वत् । किं तत् ? विज्ञानम् । इदमत्र तात्पर्यम्-यथा भतीकिवोदिनिः (सती किण्वादिभिः) मदशक्तिः आत्मभूता अभिव्यज्यते, तत्रैव पुनः सा तिरोभवति तथा भूतैः विज्ञानम् । अत्रोत्तरमाह-इत्येव (व) परः केवलम् अर्कसा (अ) कटुकिमानं [२३९ क] दृष्ट्वा गुडादावपि योजयति-कटुको गुडादिः सत्त्वादिभ्यो गुडादिति (अर्कवत्) । तदनेन यथा अत्र पक्षस्य प्रत्यक्षबाधनं तथा प्रकृतेऽपि इति दर्शयति । हेतुं दूषयन्नाह-विज्ञप्तेः २० इत्यादि । विज्ञप्तेः परिणामिचेतनायाः, यदि 'साधयेत्' इति सम्बन्धः । किम् ? इत्याहभूत इत्यादि । कुतः १ इत्याह-सत्त्वोत्पत्ति इत्यादि । केन दृष्टान्तेन ? इत्याह-मदशक्त्यादि इत्यादि । कस्मिन् सत्यपि ? इत्याह-स्वालक्षण्यस्य इत्यादि । अत्र आदिशब्देन पर्यायादिविशेषो गृह्यते, तत्प्रतिबन्धाभावं दर्शयति तस्य । दूषणमाह-तत एव सत्त्वोत्पत्तिकृतकत्वादेः 'साधयति' इति सम्बन्धः। किम् ? इत्याह-बुद्धि इत्यादि । बुद्धिश्च प्रधानस्य आद्यः परिणामो २५ महदाख्यः चैतन्यं तु पुरुषः तयोः विवर्तः परिणामः तस्य अनतिक्रमम् । केषाम् ? इत्याह-भूतानामपि न केवलम् अन्यस्य । कस्य च (कस्येव) ? इत्याह-सुखादि इत्यादि । सुखादि स्वसंवेदनं च तयोरिव तद्वत् इति । कः ? इत्याह-परोऽपि सांख्यः-*"तस्मादपि षोडशका पञ्चभ्यः पञ्च भूतानि" [सांख्यका० २१] इति वचनात् । पुरुषाद्वैतवादीब (दीवा)*"पुरुष एव इदम्" [ऋक्० १०।९०।२] इत्याद्यभिधानात्, न केवलं चार्वाक एव इति अपिशब्दः ३०
(१) हानिः । (२) चार्वाकः । (३) चेतनाचेतनयोरभेद । (४) जले एव । (५) आदिपदेन उत्पत्तिमरवकृतकत्वादयो ग्राह्याः। (६) एकादशेन्द्रियपञ्चतन्मात्रासमूहरूपात् षोडशकगणात् । (७) रूपरसगन्धस्पर्शशब्द लक्षण पञ्चतन्मात्राभ्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org