________________
२९० सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः प्रतिषिद्धत्वाच्च । तर्हि तदुत्तरीभवनशक्त्यभावेऽपि विजातीयकरणशक्तेन तदवस्तुत्वम् इत्याशकनीयमिति चेत् ; न; चार्था (वर्वा) कस्य तथा मताभावाद् भूतसमुच्छेदानभ्युपगमात्। अत एवोक्तम् 'अचेतनवत्' इति ।
ननु यथा चेतनस्य संसारे अवग्रहादयो न तत ऊवं तथा मरणात् पूर्व सोऽपि न पश्चा५ दिति चेत् ; अत्राह-सामग्र्या जन्म येषाम् विसदृशकार्याणां केषां (तेषां) कादाचित्कत्वं सुवर्णे कटकादीनामिव स्यात् न पुन (तु न) च उत्तरीभवनस्य कादाचित्कत्वम् । 'अचेतनवत्' इत्येतदत्रापेक्ष्यम् । न च 'अन्त्यचित्तानि चित्तान्तरोपादेयभूतानि' इति साधयतः प्रत्यक्षबाधा पक्षस्य यथा 'अश्रावणः शब्दः' इति साधयतः । अन्त्ये (अन्ते) क्षयदर्शनादिति चेत् ; अत्राह-तत्
तस्माद् उक्तन्यायात् एतत् परेण उच्यमानम् अन्ते मरणाद् ऊर्ध्वं यच्चेतनस्य परेण क्षयदर्शनम् १० उपगतम् तद् असिद्धम् अनिश्चितम् , तत्र तत्क्षयाऽसिद्धेः। अदर्शनं पुनः प्राणभिन्मात्रस्य
(भृन्मात्रस्य) तद्हणसामर्थ्यवैधुर्यात् । न च तददर्शनं पक्षबाधनाय अलम् , [२३८क] अन्यथा शब्दे नित्यत्वाऽदर्शनमपि तद्वाधकं स्यादिति मन्यते । अतश्च तदसिद्धम् इत्याह-मध्ये जन्मन ऊर्ध्वं मरणात् प्राक् यत् स्थितिदर्शनं तदपि न केवलम् उक्तो न्यायः स्थिति प्रसाध्ये (धये)त्
"अन्त्ये' (अन्ते) इति सम्बन्धः । कुतः ? इत्याह-अव्यभिचाराद् अविनाभावात् । तथाहि१५ यदि अन्ते स्थांतुन (स्थास्नुन) भवेत् भावो मध्येऽपि न भवेद् अविशेषादिति सौगतं मतम् । यदुक्तम्
*"जोतिरेव हि भावानां विनाशे हेतुरिष्यते ।
यो जातो न च विध्वस्तो नश्येत् पश्चात् सहेतव (स केन वा) ॥" इति ।
अथ मध्ये स्थितिः, तर्हि तत्र यत्तस्य रूपं तदेवापि (तदेव अन्तेऽपि) इति पश्चात् स्थितिः २० केन वार्यते । एतदप्युक्तम्
*"योकस्मिन् क्षणे जातः तिष्ठेत् क्षणमिहापरम् ।
क्षणकोटी(टि)सहस्राणि ननु तिष्ठेत् तथैव सः॥" अथ मध्ये स्थास्नुरपि पुनः क्षरादि (क्षुरादि) विपायिप्रत्ययोपनिपाते नश्यति इति मतिः; सापि न युक्ता; यतः तथाविधयं गगनादिवत् तदयोगात्' *"सतोऽत्यन्तविनाशाऽसंभवात्" २५ इत्युक्तत्वाच्च ।
सौगतमतानुसारी भूत्वा कदाचित् चार्वाको मध्ये स्थितेरनुपलब्धि मध्ये स्थितेरदर्शनस्य असिद्धश्च कारणात् , न केवलम् अव्यभिचारात् “मध्ये स्थितिदर्शनम्' इत्यादिना सम्बन्धः । अनेन मध्ये स्थितिदर्शनस्य असिद्धता परिहृता ।
ननु प्रसाधयतु मध्ये स्थितिदर्शनम् अन्ते स्थितिं चेतनस्य, तां तु अचेतनरूपेण, ततो ३० विरुद्धो हेतुः इति चेत् ; अत्राह-यदि इत्यादि। चेतनः सन् अचेतनाकारेण विवर्तेत पुनः
(१) अन्ते । (२) अल्पज्ञत्वादिति । (३) उत्पत्तिरेव । (४) उद्धृतोऽयम्..."जातिरेव.."नश्येत् पश्चात् स केन वा"-षड्द० वृह० पृ० १२ । (५) मध्ये । (६) सदा स्थास्नोः । (७) विनाशासंभवात् । (८) स्थितिम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org