________________
४।१४] भूतचैतन्यनिरासः
२८९ न च अकारणं कार्यं युक्तम् । सत्ताम्' इति चेत् ; ननु च अनुत्पन्नमसत् खरविषाणसमं कथं कस्यचित् तामुपजनयति ? स्वकाले सत्त्वाददोषः ; कार्योत्पत्तेः प्रागपि तदा तत्सत्त्वे पूर्वभावित्वमेव कारणस्य अर्थादापतितं नानागतत्वम् । पश्चात् सत्त्वे प्रागेव उत्पन्ने कार्ये तदकिञ्चिकरत्वं कृतस्य करणाऽयोगात् । तत्र (तन्न) कार्यम् । नापि कारणम; अर्वाग्दर्शिना कार्यादर्शने तद्विशिष्टताऽविनिश्चयात् । तदर्शने अनुमानवैफल्यम् । [२३७क] न च तन्मानं लिङ्गम् ; प्रति- ५ बन्धवैकल्यसंभवात् । अनुभयस्य प्रतिबन्धाभावात् अलिङ्गत्वमिति । तत्राह-सतः चेतनस्य इत्यादि । सतो विद्यमानस्य चेतनस्य 'अन्त्यदशायाम्' इति प्र[क्रमाद् एतल्लभ्यते । अनेन एतत् कथयति-मध्ये चेतनस्य अन्यस्य वा सत्त्वं भिन्न कार्यकारित्वेनेव उत्तरस्वपरिणामकारित्वेन व्याप्तं प्रतिपन्नम् , तदिदानी यदि तदभावेऽपि स्यात् निःस्वभावत्वमिति कुतः कस्यचित् तत्त्वमन्यद्वा ? अन्यथा सर्वस्य व्याप्यस्य स्वव्यापकाभावेऽपि भावाशङ्कया अँननुमानं जगत् स्यादिति । १० चित्स्वभावेन चिद्रूपेण परिणमतो विवर्तमानस्य कारणान्तराज्नपेक्षत्वात् । यस्मात् कारणात् उत्पद्यते असौ चेतनः तस्माद् अन्यत् कारणं तदन्तरम् , तत्र न विद्यते अपेक्षा यस्य तद्वा न अपेक्ष्यते इति तस्य भावाऽभावात् (तस्य भावात्) 'अत्र पुनः अन्यथानुपपत्तिः अस्त्येव' इत्यनेन सम्बन्धः ।
___ ननु तदनपेक्षत्वेऽपि तद्र पेण परिणामो न भविष्यति ? इत्याह-स्वयम् इत्यादि । स्वयम् १५ आत्मना अक्षेपेण झटिति विवर्तस्य उपपत्तेः। एतदपि कुतः ? इत्याह-अनैमित्तिक [त्वात्] इत्यादि । निर्हेतुकस्य अचेतनेचत् (तनवत् ) पृथिव्यादिव [२] । परमाशङ्कते द्वेष (दूष) यितुं द्वितीय इत्यादि । तत्र उत्तरमाह- तदवश्यम् इत्यादि । तस्य द्वितीयक्षणस्य नियमेन भावात् ।
तु स तनस्य (सतश्चेतनस्य) इत्यादि अनभ्युपगच्छतो दूषणमाह-यदि इत्यादि । पुनः इति पक्षान्तरद्योतने, अन्त्यक्षणस्य मरणचित्तस्य नोत्तरीभवनशक्तिः नोत्तरपरिणामसामर्थ्यम् , २० अवस्तुत्वम् अन्त्यक्षणस्य । तत् किं कुर्यात् ? इत्याह-स्वोपादान इत्यादि । स्व इत्यनेन अन्ते (अन्त्यः) क्षणः परामृश्यते तस्य उपादानप्रबन्धस्य अभावं साधयेत् । कुतः ? इत्याहअर्थ इत्यादि । [२३७] अर्थस्य कार्यस्य [क्रिया करणं तल्लक्षणत्वाद् वस्तुनः । तत्सामर्थ्य तल्लक्षणम् , तच्चे सहकारिवैकल्यात् कार्याकारिणोऽपि तत्क्षणस्य अस्ति इति चेत् ; अत्राहसमर्थम् इत्यादि । समर्थम् अन्त्यक्षणजातम् इति न करोति च इत्येवं विरुद्धम् । तथाहि- २५ यदि समर्थम् ; कथं न करोति ? न करोति चेत् ; कथं समर्थम् ? अन्यथा नित्यं समर्थमपि सहकारिवैकल्यात् सर्वदा न कुर्यादिति मन्यते । नार्थक्रिया नापि तत्सामर्थ्य 'तल्लक्षणम् , अपि तु सत्तासम्बन्ध इति" कस्मान्नाशङ्कितमिति चेत् ; अव्यापकत्वात् , सामान्यादौ अभावात् ,
(१) कुर्वाणम् । (२) अविद्यमानम् । (३) सत्ताम् । (४) कारणमात्रम् । (५) कार्यकारण-उभयव्यतिरिक्तस्य । (६) उत्तरचित्तम् । (७) अनुमानशून्यम् । (८) अर्थक्रियासामर्थ्यम् । (९) वस्तुलक्षणम् । (१०) वस्तुलक्षणम् । (11) वस्तुलक्षणम् । (१२) वैशेषिकाभिमतम् । “द्रव्यादीनां त्रयाणामपि सत्तासम्बन्धः..."-प्रश० भा०, व्यो० पृ० १२१ । (१३) तेषां स्वतः सत्त्वात् सामान्यविशेषसमवायेषु सत्तासम्बन्धाभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org