________________
२८८ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः (जातस्य) अन्त्यतस्य (उत्पन्नस्य) पूर्वम् अतीतजन्मन्यश्च (न्यभ्यस्त) स्तनादिपानादिकत्रस्य (कं तस्य) स्मृतेरनुबन्धात् अविच्छेदात् । एतदुक्तं भवति-मरणान्त्यचित्तस्य तत्त्वं यदि उत्तरजन्मादिप्रबोधाविनाभावि न भवेत् , तर्हि तत्र तदाहितसंकारवैधुर्ये जातस्य स्मृत्यनुबन्धः [न स्यात् ] । मान्नपि (भवन्नपि) पुरुषमात्रेण अन्येन कथमवगम्यते परचेतोवृत्तीनां [२३६क] ५ दुरन्वयत्वादिति चेत् ; अत्राह-भयादि इत्यादि । भयम् आदिर्यस्य अभिलाषादेः तस्य प्रतिपत्तेः मुखविकारादिना निश्चितः, अन्यथा कुतश्चित् परचेतोवृत्तिविशेषे प्रतिपत्त्यभावमुत्प्रेक्षामहे । न चैवम् , अतो वत्कु (क्त्र)विकारादेः भयादिप्रतिपत्तिः ततः तदनुबन्धप्रतिपत्तिरिति ।
एतेन 'जातस्य पूर्वाभ्यस्तस्मृत्यनुबन्धात्' इत्यस्य हेतोः स्वरूपासिद्धिरपि प्रत्युक्ता ।
ननु मध्यचेतसि चित्तत्वं यद्यपि चित्तान्तरोपादेयत्वसहितं दृष्टं तथापि आद्यन्तचेतसि १० तत्तथा न युक्तम् , अन्यथा प्रत्यग्नेर्खालापूर्वकत्वदर्शनात् पथिकाग्नेरपि पूर्वं (तत्पूर्व) कत्वं तत्त्वाद
नुमीयेत । व्यभिचाराशङ्का अन्यत्रापि इति चेत् ; अत्राह-पथिकाग्नेः इत्यादि । 'अनेन' इत्ययं शब्दः अन्ते करणात् 'प्रत्यग्निवत्' इत्यस्य अनन्तरं यथास्थानं च द्रष्टव्यः । ततोऽयमर्थःपथिकाग्नेः पथिकसम्बन्धिनः पावकस्य, पथिकस्य अनवस्थायित्वेन तत्संबन्धित्वस्य परोक्षता
ज्ञापनार्थम् , अथवा ज्वालान्तरपूर्वकत्वेतरत्वंसंभवज्ञापनार्थं पथिकग्रहणम् तस्य हि अग्निः उत १५ यद्यपि संभवति । ज्वालान्तरपूर्वकत्वं साध्यम्, अत्र हेतुः 'पथिकाग्नित्वात्' इति द्रष्टव्यः ।
निदर्शनमाह-प्रत्यग्निवद् इति । कश्चित् पथिकः शीतार्ता अरणिनिर्मथनाद् अन्यतो वा प्रज्वालिताग्निः निःशीतो भूतात् (भूत्वा) कापि गतः, पुनस्तत्रैव अपरः पण्डितमाना (मानी) समागत्य ततोऽग्नेः प्रत्यग्निं प्रज्वाल्य अनुमानं करोति पथिकाग्नि [:] ज्वालान्तरपूर्वकः तत्त्वात् प्रत्यग्नि
वत् । न चैवम्, अतः अनेन भवदीयानुमानस्य [२३६ख] व्यभिचार इति यद् व्यभिचार२० चोदनं तदनेन अनन्तरग्रन्थेन प्रत्युक्तम् प्रकृते हेतुलक्षणभावाद् अन्यत्र विपर्ययात् । तमेव
दर्शयन्नाह-तेजाकारण इत्यादि । तेजसः कारणं पुद्गलद्रव्यम् अनन्तरवर्णितम् तत्पूर्वकत्वस्य तत्र पथिकाग्नौ [अ]विरोधात् । विरोधाभावान्न ज्वालान्तरपूर्वकत्वमस्य', ननु (नतु) चेतने अभिहितनीत्या तत्पूर्वकत्वस्य अविरोध इति मन्यते ।
अथ सर्वत्र सर्वदा सन्तु तदादिचित्तानि इष्टसाध्यानि ननु (नतु) मरणान्त्यचित्तानि प्रमा२५ णाभावात् । तर्हि (नहि) "अर्वाग्भागदर्शिप्रत्यक्षम् इयतो व्यापारान् कत्तुं [समर्थम् ] सन्निहित
विषयबलोत्पत्तेः । लिङ्गाभावेन अभावात् नाप्यनुमानम् । चित्तत्वस्य भावालिंगाता वो (भावाल्लिङ्गाभावो) असिद्ध इति चेत् ; न ;"तत् कार्यम् , कारणम् , अनुभयं वा स्यात् ? तत्र उपदेयाभिमतात् प्रागेव भावात् न कार्यम् । 'स्नानादेः प्रागपि भवन जलादिस्तत्कार्यम्' इत्येके; तेषां "प्राप्यमर्थक्रियाजातं किं कुर्वाणं जलादेः कारणम् ? अकिश्चित्करस्य तदयोगाद् अतिप्रसङ्गात् ।
(1) भवन्नपि स्मृत्यनुबन्धः । (२) स्मृत्यनुबन्ध । (३) अग्निसमुद्भूतद्वितीयाग्नेः । (४) ज्वालापूर्वकत्वम् (५) अग्नित्वात् । (६) अन्यपथिकाग्निपूर्वकत्वज्ञापनार्थम् । (७) पथिकस्य । (4) अग्नित्वात् । (९) पथिकाग्नेः । (१०) अस्मदादिप्रत्यक्षम् । (११) चित्तम् (१२) भावि । (१३) कारणत्वायोगात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org