________________
४।१४] भूतचैतन्यनिरासः
२८७ प्राणा दश 'आगमपठिता विद्यन्ते येषां ते प्राणिनः तेषाम् । एतेन सर्वसम्बन्धिनाम् आद्यन्तचित्तानां धर्मित्वेन उपादीयमानानां प्रमाणादिसत्त्वेन (प्राणादिमत्त्वेन) अनुमानसिद्धत्वं दर्शयति,इतरथा प्रत्यक्षेण तेषामग्रहणाद् अनुमानस्य वा[s]वचने हेतोः आश्रयासिद्धिः आशयेत। न च आत्मन एव तच्चित्ते तथा साधयितुमत्राभिप्रेत (तम्) 'चित्तानि' इति बहुनिर्देशात् । नापि एकत्र आत्मनि आद्यन्तयोः बहुचित्तसंभवः । ततः सूक्तम्-'प्राणिनाम्' इति वचनं ५ सर्वसत्त्वाद्यन्तचित्तान् (त्तानामनु)मानपरिच्छेद्यत्वज्ञापनार्थमिति । एवमपि तेषामनाद्यनन्तभूतानाम् आद्यन्तचित्तासंभव इति आश्रयासिद्धो हेतुः; यस्माद्धि न पूर्वचित्तमस्ति तद् आदिः, यस्माच्च नोर्थ (नोऽन्तः) तद् अन्त्यम् , न चैतत् जीवानाद्यनिबंधन (निधन) त्वे युक्तमिति चेत् ; अत्राहइहजन्मनि अस्मिन् जन्मनि । तावत् शब्दः क्रमवाच्येव पूर्वपूर्वजन्मस्वपि तत्साधनक्रमप्रदर्शनार्थः । आद्यन्तचित्तानि । कथम्भूतानि तानि ? इत्याह-चित्त इत्यादि । चित्तान्तरम् उपा-१० दानोपादेयभूतं येषां तानि तथोक्तानि । भूतशब्दः प्रत्येकमभिसम्बध्यते । ततोऽयमर्थः-आदिचित्तानि चित्तान्तरोपादानभूतानि अन्त्यचित्तानि चित्तान्तरोपादेयभूतानि इति । यदि वा, चित्तान्तरस्य उपादानोपादेयभूतानि इति ग्राह्यम् । तथा हि आदिचित्तानि पूर्वभवमरणान्त्यचित्तान्तरस्योपादेयभूतानि, अन्त्यचित्तानि भाविर्भवाद्यचित्तान्तरस्य उपादानभूतानि। एवमपि "एवं वक्तव्यम् [२३५ख] चित्तोपादानोपादेयभूतानि इति वक्तव्यं किमन्तरशब्देन भेदस्य १५ उपादानोपादेयभूतवचनादेव सिद्धेः अन्यथा तदयोगात् , एकात्मवदिति चेत् ; न ; साख्यं प्रति सिद्धसाध्यतापरिहारार्थम् एवंवचनात् । सांख्यो हि सर्वत्र कार्यकारणयोरभेदैकान्तवादी 'चित्तोपादानोपादेयभूतानि' इति वचने सिद्धसाध्यता मन्येत । तत्कुतः तानि तथाभूतानि ? इत्याहचित्तत्वात् , विशेषस्य साध्यत्वात् सामान्यस्य साधनत्वात् न प्रतिज्ञार्थैकदेशाऽसिद्धो हेतुः इत्येके । विशेषयोः सामान्ययोर्वा एवं साध्यसाधनभावेऽपि नायं दोषः इत्यपरे । अन्यथा नित्यः २० शब्दः शब्दत्वात् इत्यादावपि स्यात् । अत्र दृष्टान्तमाह दर्शयितुम्-यथा इत्यादि । यथा मध्यचित्तम् इत्यर्थः। ___ननु जैनस्य 'लोहलेख्यं वनं पार्थिवत्वात् काष्ठवत्' इत्यादाविव न दृष्टान्तमात्राद् हेतु गमकः, अपि तु अन्यथानुपपत्तेः, स च अत्र, [अतः] आह-अत्र इत्यादि । अत्र हेतोः पुनः इति सौष्टवे, अन्यथा साध्याभावप्रकारेण अनुपपत्तिः अघटना अस्ति । 'एव' निपातेन मनागपि २५ तदुपपत्तिः नास्ति इति वदति । कुतः ? इत्याह-जन्म तस्य (जातस्य") इत्यादि । जातैवादौवा
(1) "पंच वि इंदियपाणा मणवचिकायेसु तिण्णि बलपाणा । आणापाणप्पाणा आउगपाणेण होति दस पाणा।"-गो. जीव० गा० १२९ । (२) आद्यन्तचित्तानाम् । (३) आदिः अन्तश्च । (४) जन्म । (५) 'एवं वक्तव्यम्' इति निरर्थक भाति । (६) भेदाभावे उपादानोपादेयभावासंभवात् । (७) सामान्यस्य च विशेषनिष्ठत्वात् न निरन्वयदोषोऽपि । (८) "ननु प्रत्ययविशेषो धर्मी सामान्यं साध्यमिति न प्रतिज्ञाबैंकदेशता।"-प्र. वार्तिकाल. पृ० ३८७ । हेतु. टीकालो. पृ० ३९६ । प्रमेयर० १.१ । स्या. रत्ना. पृ०४१-४२ । (९) अन्यथानुपपत्तिविशिष्टो हेतुः। (१०) तदहःसमुत्पन्नस्य बालकस्य । तुलना-"पूर्वाभ्यस्तस्मृत्यनुबन्धाजातस्य हर्षभयशोकसंप्रतिपत्तेः।"-न्यायसूत्र० ३।१।१९ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org