________________
२८६ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः भस्म इत्यादि । भस्ममृत्तिकयोः कृतद्वन्द्वयोः आदिशब्देन बहुव्रीहिः, अत्र आदिशब्देन पिण्डादिपरिग्रहः, पुनः अस्य पर्यन्तशब्देन स एव विधेयः । तथैव तेनैव विशिष्टौषधादिप्रयोगप्रकारेण मुक्ताफलादि, आदिशब्देन हिमादि परिगृह्यते 'द्रवति' इति अनुवर्तते । यदि वा, पुद्गलद्रव्यं स्नेहविवर्त्तमासाद्य 'मुक्ताफलादिकं परिणामं याति' इति सम्बन्धः । अत्र ५ आदिशब्देन स्ततकादेः (सूतकादेः) गुटिकादिपरिणामो गृह्यते । काष्ठादिकम् आदिशब्देन तृणादिकम् अग्निसाद् भवति । कुतः ? इत्याह-अरणि इत्यादि । आदिशब्दाद् विशिष्टद्रव्यादिसंयोगात् । ततः स्थितम्-पुद्गलद्रव्यम् इत्यादि ।
___ तर्हि तद्वत् पुरुषचेतनः तथा परिणमते न पुद्गलद्रव्यमिति ; अत्राह-न [पुनः] नैव
चेतनो ब्रह्मात्मा चैतन्यं स्वपरावभासित्वं विहाय विपरिवर्त्तते पृथिव्यादिरूपेण परिणमते । १० एतदुक्तं भवति-पुद्गलद्रव्यं यथा पृथिव्यादिरूपेण विपरिवर्तते तत्र तद्रूपाद्यन्वयदर्शनात् , तथा
यदि पुरुषः तद्र पेण विपरिवर्तिता (विपरिवर्तेत); चैतन्यान्वयः तत्र प्रतीयेत । न चैवमिति । अचेतनस्तर्हि चेतनरूपेण परिणमत इति चेत् ; अत्राह-अचेतनः पृथिव्यादिः पुनः चेतनो भवन् सँल्लक्ष्यते । 'न पुनः' इत्यनुवर्तते, स (सँ)ल्लक्ष्यत इति । अनेनैतद् दर्शयति
[२३४ ख] यदि अचेतनः परिणामी चेतनः तत्परिणामः तत्र तद्पान्वयः स लक्ष्यते १५ (सल्लक्ष्येत) । न च तदस्ति रूपादिरहितस्य अन्तःचेतनस्य परिस्फुरणात् । न च तत्र रूपादी
नामनाविर्भावकल्पना श्रेयसी ; भूतानामन्योऽन्यात्मनि लक्षणानाविर्भावकल्पने न लक्षणभेदेन 'तव्यवस्थाकथनम (न) युक्तं स्यात् ।
उपसंहरन्नाह-तद् इत्यादि । यत एवं तत् तस्माद् अयं वावाकस्वत्वं (चार्वाकः स्वयं) पुद्गलद्रव्यलक्षणम् एकसंख्योपपन्नम् चतुर्धा चतुर्भिः प्रकारैः व्यवस्थापयन् । केन ? इत्याह२० पृथिव्यादिभेदेन कथं स्वस्थः भूतगृहीत इत्यर्थः । कुतः ? इत्याह-विपर्यस्तबुद्धिः । यथा चन्द्रमसमेकं द्वित्वेन व्यवस्थापयन् तथाविधबुद्धिः तथा अयमपि यतः ।
ननु परचेतोवृत्तीनां दुरन्वयत्वात् तथाविधबुद्धिरयमिति कुतो ज्ञायते इति चेत् ; अत्राहदेवानांप्रिय इत्यादि । देवानां मूर्खाणां प्रियो यतः । नहि असौं सत्तामात्रेण तन्मयः (तत्प्रियः)
अतिप्रसङ्गात् , अपि तु प्रमाणत्राणरहितत्वोपदेशात् सुखसंवर्धितमतीनां तेषां प्रमाणविषये अप्रवे२५ शात् , ततोऽसौ तथाबुद्धिः अवगम्यते । तथाविधतत्त्वो (ततत्त्वो) पदेशोऽपि "तस्य कुतोऽवगम्यते इति
चेत् ? अत्राह-प्रत्यक्षस्य इत्यादि । प्रत्यक्षस्य प्रमाणस्य प्रमेयस्य वा अतीव लङ्घनाद् अन्यथैव प्रतिपादनात् । किं पुनरयमेतदेव कुर्वन् अस्वस्थः ? न ; इत्याह-चेतनेतरतत्त्वम् एकीकुर्वन् । कथंभूतम् ? उभयम् ? अनेकशेषं पूर्ववत्रापि ।
तदेवं मध्यावस्थायां चेतन एव चेतनीभवति इति साकल्येन [२३५क] विपक्षेऽनन्तर३० बाधकोपदर्शनेन सिद्धायां व्याप्तौ यत्सिद्धं तदर्शयन्नाह-प्राणिनाम् इहजन्मनि इत्यादि ।
(१) बहुव्रीहिः । (२) पृथिव्यादिरूपेण । (३) पृथिव्यादिषु । (४) चेतने । (५)चेतने । (६) पृथिव्यादिभूतचतुष्टयव्यवस्था । (७) विपर्यस्तबुद्धिः । (6) चार्वाकः । (९) विपर्यस्तबुद्धिः । (१०) चार्वाकस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org