________________
४।१४]
भूतचैतन्यनिरासः संवित्तिरविकल्पाऽपि जैनैः किन्न सदा स्वयम् ॥ कार्यकारणभावोऽयमन्यथा नियतः कुतः ।
अहेतुरन्यहेतुर्वाऽदृष्टहेतुः प्रसज्यते ॥ यदि स्वापे संवित्तिरनुपलक्षितेति प्रबोधोऽहेतुकः, तर्हि मेघादिः अनुपब्धोपादानः तथैव अहेतुः इति सर्वे (4) कादाचित्कमपि तथैव शङ्क्येत । अथ अन्यहेतुकः; तन्मेघादिरपि अन्यजाति- ५ कारण इति न चतुर्भूतव्यवस्था । अथ पृथिव्यादेरेव तदुत्पत्तिदर्शनात; अदृष्टमपि जलपटलादेः सजातीयं कारणमनुमीयताम् ।।
एतेनेदमपि प्रत्युक्तम्-*"यथा अविकल्पात् स्वापात् सविकल्पप्रबोधसंभवः तथा अचेतनात् चेतनसंभवः" इति; कथम् ? अन्यत्रापि प्रसङ्गात् । शक्यं हि वक्तुं यथा सूक्ष्मपृथिव्यादिभूतेभ्यः स्थूलतद्भूतभावः तथा जलादेः भूम्यादिभावस्या इति स्यात् (वः स्यात्' इति ।) १०
ननु यथा आत्मवत् [२३३ख] पृथिव्यादयो भिन्नजातीयाः परस्परं कथं तद्वदेवपृथिव्यादेः सलिलादिपर्याय इति चेत् ; अत्राह-पुद्गलद्रव्यम् इत्यादि । रूपरसगन्धस्पर्श वद्र्व्यं पुद्गलद्रव्यं सूक्ष्मम् । किं स्यात् ? इत्याह-पृथिव्यादिव्यपदेशभाक् 'स्यात्' इति शेषः । अत्र आदिशब्देन जलादिपरिग्रहः । किं कृत्त्वा ? इत्याह-आसाद्य प्राप्य । किम् ? इत्यादि स्वर (त्याह-खर इत्यादि । खर )विवर्तमासाद्य पृथिवीव्यपदेशभाक् । एवमन्यत्र योज्यम् । एत- १५ दुक्तं भवति-न पृथिव्यादयो भिन्नजातीया एकद्रव्यपर्यायत्वात् मृत्पिण्डादिवत् इति ।
ननु प्रतीयमानपृथिव्यादिभ्यः किमन्यत् तव्यपदेशभागिति चेत् ; न; स्थूलस्य सूक्ष्मपूर्वकत्वस्यापि अव्यभिचारात् पटवत् इति तन्तुसिद्धः। एवमपि भवतु पृथिव्याः स्वयं रूपरसगन्धस्पर्शवत्याः तथाविधकारणानुमानम्, न जलाऽनलाऽनिलेभ्यः गन्धरसरूपविरहितेभ्यो यथासंभवं किन्तु तदनुरूपं कारणान्तरमनुमीयते चेत् ; न; तत्रापि स्पर्शवत्त्वे सति गन्धाधनु- २० 'मानाऽनिराकरणात् । किं पुनः तत् ? इत्याह-पुनरन्यथा इत्यादि । पुनः पश्चाद् अन्यथा अन्येन पृथिव्यादिविलक्षणप्रकारेण बहुलं परिणामि लक्ष्यते पुद्गलद्रव्यमिति । तदेव दर्शयति यथा इत्यादिना । 'यथा' इत्ययमुदाहरणप्रदर्शने, चन्द्रकान्तमणिः खरत्वेन पृथिवीस्वभावो द्वयविति (द्रवति) जलीभवति । कुतः ? इत्याह-चन्द्ररश्मः । न तन्मणिः द्रवति उपलम्भाद् अपि तु तत्संसक्ता जलात्मकाः चन्द्ररश्मयः इत्येके । तेषां तद्रुतौ को दोषः ? अद- २५ र्शनमिति चेत् ; न; [२३४क] गन्धद्रव्यस्य सर्वदा सर्वदिक्षु भागानां गमनेऽपि तावत एव उपलम्भात् , तंद्रश्मेश्चाप्यदर्शनं किन्न स्यात् ? "तदपरापरोत्पत्तिः न तन्मणेः इति किं कृतो विभागः ? शुक्रशोणितं द्रवरूपं कललार्बुदादिक्रमेण स्त्र्यादिपरिणामं याति । किं भूतम् ? इत्याह
(१) प्रबोधवत् कारणरहितः। (२) अहेतुकमिति । (३) पृथिव्यादिरेव तत्कारणं तर्हि । (४) इति न पृथिव्यादीनां तत्वान्तरम् । (५) आत्मवदेव । (६) "स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ।''-त० सू० ५।२३ । (७) जलानलानिलादीनि गन्धरसरूपसहितानि स्पर्शवत्त्वात् पृथिवीवत् । (6) "वायुस्तावद् रूपादिमान् स्पर्शवत्त्वात् घटादिवत् ।''आपो गन्धवत्यः स्पर्शवत्त्वात् पृथिवीवत् । तेजोऽपि रसगन्धवत् रूपवत्वात् ।" -स० सि० ५।३ । (९) चन्द्ररश्मेः । (१०) प्रतिक्षणं अपरापरचन्द्रश्मय उत्पद्यन्ते चेत् ; मणिरपि अपरापर एवोत्पन्नोऽस्तु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org