________________
२५
सिद्धिविनिश्चयटीकायाम्
[ ४ जीवसिद्धिः
प्रत्यक्षाः तथापि बुद्धा (बुद्ध्या) दय: 'तदाश्रितत्वेऽपि प्रत्यक्षाः, यथा आकाशपरममहत्त्वाद्यप्रत्यक्षत्वेऽपि तदाश्रितः शब्दः प्रत्यक्षः ।
यस्तु मन्यते बुद्धेः शरीराश्रितत्वे तस्य क्षणिकत्वाद् देशान्तरादौ प्रत्यभिज्ञानं न स्यादिति; स्यादेतदेवं यदि कार्यसंयोगिना कारणं न संयुज्येत, न चैवम्, पटसंयोगिना तन्तु संयोगदर्शनात् । ५ नापि मध्यमध्यमशरीरस्य प्रबोध (धा) कारणत्वात् (त्वम्); तद्भावे भावाद् [२३२ख] अभावे अभावात् । न जाग्रच्चित्तस्य तद्भाव एव भावात् । तथापि तत् तस्य चेत् कारणम् ; तर्हि विधवाया गर्भः चिरमृताद् भर्त्तुः न सन्निहितात् परपुरुषात्, इति न साँ निग्राह्या स्यात् ।
9
यदि मतम्-प्रबोधस्य शरीरकारणत्वे जाग्रच्चित्तानुकरणविरोध इति ; तदपि सुपरिहारम् ; यतः कारणकारणस्यापि अनुका (क) रणसंभवात् तदविरोधः । तथाहि - तच्चेतसः शरीरं प्राणादिवत्, १० ततः पुनरपरं शरीरं प्राणादेखि प्राणादिः तावद् अन्ता दशा, ततः पुनः तदनुरूपप्रबोधः पित्रनुरूपपुत्रवत् इति । तद्यथा पितुः शुक्रादिपातः पुनः तत्परिणामविशेषात् पित्रनुरूपमपत्यशरीरम् ।
"
यदि वा, शरीरं बोधोपादानकारणम्, तच्चित्तं सहकारिकारणम् परस्य च सहकारिकारणानुरूपं कार्यम्, अन्यथा कथमर्थानुरूपं ज्ञानम् ? 'भिन्नकालं कथं सहकारि' इत्यपि नोत्तरम् ; सर्पादिदष्टमूर्च्छितस्य पूर्वामूच्छितः (त) चित्तं प्रति भिन्नकालतास्यापि ( लस्यापि ) मन्त्रादे: सह१५ कारित्वस्य परैरभ्युपगमात् । प्रथमः पुनः अपर्यालोचित एव; स्वापादौ हि क्षणिक संवेदनोपगमे जागरणात् तस्य विशेषो वाच्यः यतस्तत्र प्रत्यक्षसिद्धं क्षणक्षयादिकं तत्प्रवृत्त्यादिकारणं मरणवद् इति न स्यात् । समारोपः इति चेत् ; न ; तत्र तदभावात् । इतरथा तदुपलक्षणे न गाढ निद्रा दशा नाम । तदनुपलक्षणं तु " नहि इमाः कल्पना:" [प्र० वा० स्व० टी० पृ० १२७] इत्यादि" प्रतिहन्ति । यदि पुनः निश्चयाऽभावो विशेषः; सोऽपि न युक्तः ; तदभाव एव अस्तु । २० कथमनुभूतं क्षणक्षयादिकमननुभूतं यतस्तत्र [२३३ क] तद्व्यवहारो न स्यात् ? निर्विकल्पानुभूतमननुभूतकल्पमिति चेत्; न तर्हि स्वापादेः संहृताशेषविकल्पदशा भिद्यत इति " तत्रेव अन्यत्रापि*" संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥"
"
[प्र० वा० २।१२४] इति प्लवते | तत्र नीलादिविकल्पसद्भावेऽपि ततस्तत्र संवेदनाऽप्रवेदनात् चेतनस्य चेतनः तस्य वा अचेतनः पर्यायः इति न युक्तमेतत् - 'नवै चेतनोऽचेतनस्य' इत्यादि इति चेत्; अत्र प्रतिविधीयते -
३०
२८४
निर्णयेतरसंवित्तेः सदाऽभ्युपगमादयम् ।
न दोषो जायतेऽस्माकं सौगतैकान्तपक्षवत् ॥ प्रबोधस्यान्यथायोगादन्तरालेऽनुमीयते ।
(1) भूताश्रितत्वेऽपि । (२) आकाशाश्रितः । (३) शरीरस्य । ( ४ ) प्रबोधकारणत्वम् । (५) जाग्रञ्चितम् । (६) प्रबोधचित्तस्य । (७) विधवा । (८) जाग्रचित्तम् । ( ९ ) भवत्येव । (१०) " अप्रतिसंवदिता एवोदयन्ते व्ययन्ते वा यतः सत्योऽप्यनुपलक्षिताः स्युः" इति शेषः । (११) स्वापादिवत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org