________________
४।१४] भूतचैतन्यनिरासः
२८३ दचेतनवत् । द्वितीये तदवश्यम्भावात् । यदि पुनः अन्त्यक्षणस्य नोत्तरीभवनशक्तिः ; अवस्तुत्वं स्वोपादानप्रबन्धाभावं साधयेत् अर्थक्रियालक्षणत्वाद्वस्तुनः। समर्थं न करोति चेति विरुद्धम् । सामग्रीजन्मनां विसदृशकार्याणां कादाचित्कत्वं न तु उत्तरीभवनस्य । तदेतत् अन्ते क्षयदर्शनमसिद्धम् , मध्ये स्थितिदर्शनमपि स्थितिं प्रसाधयेदव्यभिचारात् । यदि चेतनः अचेतनाकारेण विवर्तेत स्वापप्रबोधवत् प्रेत्यभावसिद्धः कथनानवद्यम्-अपर। ५ चेतनेतरयोः स्वभावसिद्धयोः सङ्करव्यतिकरप्रतिपत्तिरयुक्तैव दृष्टहानेरदृष्टपरिकल्पनाच । 'जलबुबुदवज्जीवाः मदशक्तिवद् विज्ञानमिति परः अर्के कटुकिमानं दृष्ट्वा गुडे योजयति। विज्ञप्तेर्यदि स्वालक्षण्यादिविशेषेऽपि मदशक्त्यादिदृष्टान्तेन सत्त्वोत्पत्तिकृतकत्वादेः भूतस्वभावत्वम् ; तत एव परोऽपि भूतानामपि बुद्धिचैतन्यविवर्तानतिक्रमं सुखादिस्वसंवेदनवत् साधयेदिति विरुद्धाव्यभिचारीति मिथ्याभिनिवेशात् प्रमाणप्रमेयव्यवस्थामतिलचन्येत् ] १०
___ इदमत्र तात्पर्यम्-संवित्तेः भूतपरिणामत्वेन तत्रान्तर्भाव अनिष्टं किञ्चित् सिध्यति इष्टं च न सिध्यति । अनिष्टसिद्धिं तावदर्शयति-स्याद् भवेत् पर्यायः परिणामः । कस्य कः ? इत्याह-पृथिव्यादेः सलिलादिः । अस्यार्थ स्वयमेव वृत्तौं वक्ष्यति तन्नेह उच्यते । ततः पृथिव्यादौ सलिलादेः अन्तर्भाव इति भावः । इष्टासिद्धिं दर्शयन्नाह-तथा इत्यादि । येन अन्वयव्यतिरेकानुविधान [२३२ क] प्रकारेण पृथिव्यादेः पर्यायः सलिलादिः तथा नवै नैव १५ चेतनोऽवग्रहादिः अचेतनस्य चेतनस्वभावरहितस्य पृथिव्यादेः अचेतनः पृथिव्यादिः चेतनस्य वा पर्याय इति सम्बन्धः । तदनेन *"आत्मैवेदं सर्वम्" [छान्दो० ७।२५।२] इत्याद्यपि निरस्तम् । अवग्रहाद् ईहायाः ततोऽवायस्य अतो धारणायाः स्मृतेः प्रत्यभिज्ञाया अस्याः तर्कस्य अनुमानस्योत्पत्तिदर्शनात् । न चान्यस्य परिणामोऽन्यस्य ; अव्यवस्थापत्तेरिति मन्यते ।
___ स्यान्मतम्-यदि चेतनस्य नाचेतनः तस्य वा चेतनः ; कथं जाग्रद्दशातः स्वापदशा, २० तस्याश्च प्रबोधदशा यतस्तदा अवग्रहादिसंभव इति ? तत्र केषाञ्चित्परिहारः-तद्दशायामविकल्पकं दर्शनमस्ति ततः प्रबोधः। अन्येषां जाप्रद्विज्ञानात् सः इति । "अपरेषां ज्ञानरहितादात्मनः२ इति । नान्त्यः तावत् परिहारः संभवति ; ज्ञानाद् व्यतिरिक्तस्य आत्मनोऽन्यस्य वा भूताsविशेषात् । यद्यपि कार्यभूतानां क्षणिकत्वमिति न स्मरणप्रत्यभिज्ञानादिसंभवतः (वः) तदापि (तथापि) तत्कारणभूतेभ्यः तत्संभवो नित्यत्वात्तेषाम् । यद्यपि तद्र पादयः नास्मत्सदृशानां २५
(१) तुलना-"जलबुद्बुदवजीवाः" यथैव हि समुद्रादौ नियामकादृष्टरहिताः पदार्थसामर्थ्यवशात् वैचित्र्यव्यपदेशभाजो बुबुदाः प्रादुर्भवन्ति तथा सुखदुःखवैचित्र्यभाजो जीवाः..."-न्यायकुमु०पृ० ३४२। (२) "मदशक्तिवद् विज्ञानम्"-न्यायकुमु० पृ३४२ । ब्र. शा. भा० ३।३।५३ । न्यायक. पृ० ४३७ । न्यायवि.वि.प्र. पृ. ९३ । “मदशक्तिवच्चैतन्यमिति -प्रक०प० पृ० १४६। तुलना-"मद्याङ्गवद् भूतसमागमे ज्ञः..."-युक्त्यनु० श्लो. ३५ । (३)भूतेषु। (४) ग्रन्थकारोऽकलङ्कदेवः । (५)स्वोपज्ञटीकायाम् । (६) अचेतनस्य । (७)न परिणामः तर्हि । (८) अविकल्पदर्शनात् । (९) प्रज्ञाकरादीनाम् । (१०) प्रबोधः । (११) नैयायिकादीनाम् । (१२) प्रबोधः । (१३) भूतवदचेतनत्वादित्यर्थः । (१४) कार्यरूपाणां भूतानाम् । (१५) कारणात्मकभूतानां परमाणूनामित्यर्थः । (१६) कारणात्मकभूतपरमाणुगता रूपादयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org