________________
२८२
सिद्धिविनिश्चयटीकायाम् [ ४ जीवसिद्धिः एतदपि आस्ताम् । अभूतं स्यात् भूतरहितं सर्व स्यात् भूतानामन्योऽन्य कार्यकारणभावेन अन्तर्भावाद् भूतव्यवस्था न स्यात् । यदि पुनः काष्ठादेरन्तभूतपावकादेः पावकादिसमुद्भव' इति न दोषः ; तत्राह-अस्तु पञ्चमं तत्त्वं पृथिव्यादेः अन्तर्भूतचेतसो भावात् इति भावः ।।
___कारिका विवृण्वन्नाह-पृथिव्यादि इत्यादि । पृथिव्यादेः स्वभावभेदं स्वरूपनानात्वं ५ प्रतिपत्त्या (पद्य) अभ्युपगम्य विज्ञप्तिस्वभावभेदं बुद्धीनो सन्तानभिन्नानां रूपनानात्वं विज्ञप्तिग्रहणं सांख्यवैशेषिक-आत्मनिषेधार्थम् स्वभावभेदग्रहणं [२३१ ख] सकलाद्वैतबाधार्थम् । किं भूतम् ? इत्याह-हर्ष इत्यादि । पुनरपि किंभूतम् ? इत्याह-अन्तः इत्यादि । अनेन शरीरात् गृहादिव दीपस्य दर्शयति । समक्षं स्वसंवेदनप्रत्यक्षविषयं प्रतिक्षिपति निराकरोति इति हेतोः
कथं प्रेक्षावान् ? अपि च इत्यादिना अत्रैव दूषणान्तरमाह-भूतप्रत्यक्षं पृथिव्यादिगोचरम् १० इन्द्रियज्ञानम् यदि तरं (तत्त्वान्तरं) पृथिव्यादिभ्योऽन्यत्वे सति यदि द्रव्यान्तरम् ; परिसंख्या चत्वार्येव तत्त्वानि इति परिगणनं विरुध्येत ।
इदमपरं व्याख्यानम्-तत्त्वं च पृथिव्यादिकार्यत्वेन अन्तरं च भिन्नम् इति चेत् ; अत्राह-संवित्तः स्वपरग्रहणलक्षणायाः भूतप्रत्यक्षरूपचेतनायाः तेषु भूतेषु तत्स्वभावतया अन्त
र्भावकल्पनायां क्रियमाणायां तत्त्वम् एकमेव स्यात् तच्चातुर्विध्यं हीयेत परस्पराऽन्तर्भावात् । १५ अथ पृथिव्यादीनां परस्परविविक्तानां प्रतिभासनात् नैवम् ; तर्हि संवित्तिविभक्तानां तथैव प्रति__ भासनात् , अन्यथा प्राणिमयं जगत् स्यादिति प्रकृतमपि मा भूदिति मन्यते।
यदि पुनः तत्स्वभावतया न "तत्रान्तर्भावः अपि तु तत्परिणामतया तत्राह-स्यात पर्याय इत्यादि।
[ स्यात्पर्यायः पृथिव्यादेः सलिलादिस्तथा न वै ।
चेतनोऽचेतनस्य वाऽचेतनश्चेतनस्य च ॥१४॥ पुद्गलद्रव्यं सूक्ष्म खरादिविवर्तमासाद्य पृथिव्यादिव्यपदेशभाक् पुनरन्यथा बहुलं परिणामि लक्ष्यते, यथा चन्द्रकान्तमणिः पृथिवीस्वभावो द्रवति चन्द्ररमः, शुक्रशोणितं भस्ममृत्तिकादिपर्यन्तं रूपादिपरिणामं याति, तथैव मुक्ताफलादि । काष्ठदिकमग्निसात्
भवति अरण्यादिसंयोगात् । न पुनः चेतनश्चैतन्यं विहाय विपरिवर्तते अचेतनश्चेतनो २५ भवन् सँल्लक्ष्यते । तदयमुभयं चेतनेतरतत्त्वमेकीकुर्वन् पुद्गलद्रव्यलक्षणं पृथिव्यादिभेदेन
चतुधो व्यवस्थापयन् कथं स्वस्थो विपर्यस्तबुद्धिर्देवानां प्रियः ? प्रत्यक्षस्यातीवलङ्घनात् । इहजन्मनि तावत् प्राणिनामाद्यन्तचित्तानि चित्तान्तरोपादानोपादेयभूतानि चित्तत्वात् यथा मध्यचित्तम् । अत्र पुनरन्यथानुपपत्तिरस्त्येव, जातस्य पूर्वाभ्यस्तस्मृत्य
नुबन्धात् भयादिप्रतिपत्तेः । अनेन पथिकाग्नेः ज्वालान्तरपूर्वकत्वं प्रत्यग्निवत् इति ३० व्यभिचारचोदनं प्रत्युक्तम् , तेज कारणपूर्वकत्वस्य तत्र विरोधात् । सतश्चेतनस्य चित्स्वभावेन परिणमतः कारणान्तरानपेक्षत्वात् स्वयमक्षेपेण विवर्तोपपत्ते अनैमित्तिकत्वा
(१) न पुनः पार्थिवात् काष्ठादेरग्निः जलाद्वा पार्थिवं मुक्ताफलादिकम् । (२) भिन्नत्वं दर्शयति । (३) न चातुर्विध्यहानिः । (४) परस्परविविक्ततया । (५) भूतेषु । (६) भूतपर्यायतया ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org