________________
४।१३] भूतचैतन्यनिरासः
२८१ पृथिव्यादिस्वभावभेदं प्रतिपद्य विज्ञप्तिस्वभावभेदम् , हर्ष [विषादाद्यनेकाकारम् ] अन्तःसमक्षं प्रतिक्षिपतीति कथं प्रेक्षावान् ? अपि च भूतप्रत्यक्षं यदि तत्त्वान्तरम् परिसंख्या विरुध्येत । संवित्तेः तेष्वन्तर्भावकल्पनायां तत्त्वमेकमेव स्यात् । ]
तथाहि- कुतश्चित् पृथिव्यादिविशेषात् बुभुक्षादिपीडापाये एकदा प्रतिपन्ने यद् एवंविधं तद् इयता कालादिना इत्थम्भूतप्राणिविशेषस्य तैदपायकारणम् इति सिद्धायां व्याप्तौ पुनः ५ तस्य तादृशस्य वा दर्शनात् सम्बन्धस्मृतौ प्रत्यभिज्ञाने चिन्तायां दृश्यमानस्य तत्कारणस्वभावप्रतिपत्तौ प्रवृत्तिरिति प्रायिकमेतत् । तदुक्तमत्रैव-*"अक्षज्ञानम् (नैः)" [सिद्धिवि० १।२७] इत्यादि । न चैतत् पृथिव्यादेर्युक्तम् , पूर्वज्ञानस्य उत्तरज्ञानाकारपरिणामदर्शनात् मृत्पिण्डस्य स्थासपरिणामवत् । तदास्तां तिष्ठतु न विचारणीयम् । कुतः ? इत्याह- प्रत्यक्षं यतः । न वै खलु पृथिव्याद्यसंभविगुणपर्यायोपचिततया प्रत्यक्षं तत्त्वं पृथिव्यादिभ्यो भिन्नम् अन्यद्वा इति १० विचारमर्हति, तेषामपि परस्परं तत्प्रसङ्गात् । किं तर्हि विचारणीयम् ? इत्याह-भूतगोचरम् इत्यादि । पृथिव्यादिविषयं ज्ञानं प्रत्यक्षम् इन्द्रियज्ञानम् इत्यर्थः ।।
ननु अस्य आध्यात्मिकज्ञानादा (ज्ञानपदोपादाना) त्तत्परिहारेणैव परिहृतं तत् किमर्थ पृथगेतदुच्यते ? सत्यम् ; तथापि पूर्व सामान्येन अयं विशेषेण उच्यते इति विभागः ।
अत्र परस्य अनेक दर्शनम्-भूतस्वभावः तद् इत्येकम् । तत्परिणाम इत्यपरम् । तेभ्यो १५ भिन्नमतत्त्वं मरीचिकाजलवत् इति अन्यत् तत्त्वम् इति परम् । तत्कार्यत्वात् तत्रैव अन्तर्भवति इति पृथक् । तत्र अनेकं वाक्यम्-भूतं पृथिव्यादि भूतरूपं चेत् यदि भूतगोचरं ज्ञानं प्रत्यक्षम् आस्तां पर्याप्तम् तेनेत्यः(त्यर्थः) । कुतः ? [२३१ क] इत्याह-अभूतं स्यात् यतः अभूतस्वभावं भवेत् । नहि सर्वभूतानि चेतनारूपाणि संविद्रते जगतः प्राणिमयत्वप्रसङ्गात् । क्वचित् तदाविर्भावतिरोभावकल्पनापि पापीयसी सांख्याविशेषात् , भूतव्यवस्था भूतरूपैव स्यादिति । २०
तथा अभूतम् ईषद्भूतरूपं परिणाममस्य कथञ्चित् परिणामिरूपत्वात् चेत् यदि तदपि आस्ताम् अभूतं स्यात् यतः कथञ्चिदपि भूतरूपं न भवेत् अचेतनस्य चेतनपरिणामविरोधात् । ___ तथा अभूतं भूताद् अन्यत् चेद् अस्वतं (आस्ताम् ) मरीचिकाजलवदसत् स्यात् । चेत् इत्येतद् अत्रापि सम्बन्धनीयम् । तदप्यास्ताम् । ततः कस्यचित् विधानप्रतिषेधाऽभावात् २५ इत्युक्तत्वात् ।
भूतं परमार्थ तच्चेद् अस्तु पञ्चमं 'तत्त्वम्' इति शेषः । ततोऽन्यस्य सतो गत्यन्तराभावात् इति मन्यते ।
तथा इदमपरम्-अभूतं भूतेभ्यो व्यक्तात् कारणात् कार्यस्य अन्यत्वात् पटतन्तुवत् चेत् ; तथापि भूतं चेद् भूतरूपं यदि, तत्कार्यत्वेन तत्रैव अन्तर्भावात् पृथिव्यां घटवदिति । ३०
(1) अनादिरूपात् । (२) बुभुक्षादिपीडानिवारकम् । (३) चार्वाकस्य । (४) इन्द्रियज्ञानम् । (५) भूते एव । (६) सांख्यकल्पित । (७) सत्यार्थम् । (८) असद्पात् । (९) व्याख्यानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org