________________
२८० सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः सन्मात्रग्रहणं तथा अत्रापि स्यादिति चेत् ; न; तत्परिणामस्य प्राकृतपुरुषावेद्यत्वात् । तद्विशेषाणाम् अतिदूरता (त्वा) दग्रहणं नैवं सुखादयोऽपि विपर्ययात्', तेषां स्वसंवेदनैकस्वभावत्वमिति चेत् ; कुत एतत् ? इन्द्रियेणाऽग्रहणाात् । एतदपि कुतः ? परत्र सुखादौ संशयात् । तत्
चैतन्येऽपि समानम् । दूरत्वाद् इन्द्रियेण परस्य सुखाद्यप्रत्यक्षत्वे प्रत्यो (द्वयो)रन्योऽन्यं संश्लेषे ५ सुखाद्यनुभवनं भवेत् । शरीरान्तःप्रवृत्तेः सुखादेरननुभवने चैतन्येऽपि प्रसङ्गः । तदन्तःप्रविशिना वा अनुभवनम् । तन्न प्रत्यक्षतः तत्प्रतिपत्तिः । 'जीवति अयम्' इत्ययं तु प्रत्ययः शरीराकारविशेषा (ष) दर्शनात् धूमवत्त्वदर्शनात् [कचित् ] प्रदेशे अग्निप्रत्ययवत् इति अनुमानत्वेन प्रमाणान्तरनिषेधस्य इत्यस्य प्रदर्शनार्थमिति ।
यदि पुनः तद्व्यवस्था न तद्भेदात् कथयितुमर्हति इति ; तत्राह-अन्यथा । अन्येन तद१० भावेऽपि तत्कथनप्रकारेण अनवस्थाप्रसङ्गात् भूतचतुष्टयावस्थितेरभावप्रसङ्गात् । लक्षणभे
दाऽभावे लक्ष्यभेदाऽनवधारणात् । तत्त्वात्त [द] न्येन [२३०क] तत्प्रसङ्गात् इति वा वाच्यम् । तद्भदादेव तर्हि कथयितुमर्हति इति चेत् ; अत्राह-न च इत्यादि । न च नैवं चतुर्भूतव्यवस्थाकथनाहत्वं (कथन) तथा लक्षणभेदप्रकारेण प्रत्यक्षेण करणभूतेन युक्तम् उपपन्नम् । कुतः ?
इत्याह-परोक्षाणामपि न केवलं प्रत्यक्षाणामेव भूम्यादीनाम् लक्षणात् धारणादिस्वभावानां १५ ज्ञानात् ।
यदि वा, प्रत्यक्षेण लक्षणभेदेन तद्व्यवस्थाकथनकाले परोक्षणात् (परोक्षाणामपि लक्षणात) पुनः तथा लक्षणयुक्तानां दर्शनात् । न च तत्तथा प्रत्यक्षेण युक्तमिति । नहि धूमो देशान्तरादौ धूमध्वजपूर्वकत्वेन उपलभ्यमानः पूर्वप्रत्यक्षेण तथा कृतव्यवस्थ इति भणितुं शक्यते
परोक्षाणामपि तद्रूपेणाङ्गनादिति । एतदपि कुतः ? इत्याह-साकल्येन सामस्त्येन तत्त्वानां २० पृथिव्यादीनां प्रतिपत्तेः निर्णयस्य अन्यथा परोक्षाणामपि लक्षणाभावप्रकारेण अनुपपन्नाः (पत्तेः) तेषामपि लक्षणात् इति सम्बन्धः।
यदि वा, परोक्षाणामपि तथादर्शनादिति । एतत् कुतः ? इत्याह-साकल्येन इत्यादि । साकल्येन तत्त्वस्य पृथिव्यादिस्वरूपस्य इदंतया नेदंतया वा प्रतिपत्तेः अन्यथा पुनः पुनः
तथैव तेषां दर्शनाभावप्रकारेण अनुपपत्तेः इति । तथा सति धर्माधर्मस्वभावाः परलोकानु२५ यायिचैतन्यस्वभावा विशिष्टसुखज्ञानादिस्वभावा वा न भूम्यादय इति दुराराध्या प्रतिपत्तिः ।
अथवा 'साकल्येन' इत्यादि वाक्यम् उत्तरकारिकया सम्बद्ध य व्याख्यातव्यम्-साकल्येन अनवयवेन तत्त्वस्य पृथिव्यादेः तृप्त्यादि (धृत्यादि) कार्यकारणस्वभावस्य या प्रतिपत्तिः तस्याः [२३०ख] अन्यथा अन्येन आध्यात्मिकज्ञानाभावप्रकारेण अनुपपत्तेः सकाशाद् आध्यात्मिकज्ञानं यद् अस्ति इति शेषः ।
[आध्यात्मिकं यतो ज्ञानं प्रत्यक्ष भृतगौरवम् ।
भूतमभूतं भूतञ्चेदास्तां भूतपञ्चमम् ॥१३॥ (१) पूर्वापरपर्यायरूपपरिणामस्य । (२) अतिनैकव्यात् । (३) परकायानुप्रवेशकारिणा पुरुषेण । (४) लक्षणभेदात् । (५) चतुर्भूतव्यवस्था । (६) स्वीकारात् । (७) परोक्षाणामपि ।
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org