________________
४।१२]
तत्वोपप्लषसमीक्षा कथमिव सतुप्य (सन्नप्य)वगम्यते ? नापि अनुमानतोऽनभ्युपगमात् इति मन्यते । अन्यथा स्वसंवेदनाध्यक्षप्रतिज्ञाव्याघातः ।
इदमपरं व्याख्यानम्-न तावत् स्वसंवेदनात् तद्वयवच्छेदः ; 'तेन तस्य विरोधाऽभावात् , अन्यथा अन्येन अनुमानेन तद्वयवच्छेदप्रकारेण विप्रतिषेधात् तस्य तदुपलब्धेः इति । तद्यथायदि अनुमानेन तद्वयवच्छेदः ; कथं स्वसंवेदनप्रत्यक्षमेव प्रमाणम् ? तच्च (तच्चेत् ;) कथं ५ तेन तद्वयवच्छेदः ? व्यवहारेण अनुमानोपगमाददोष इति चेत् ;[२२९ क] अथ कोऽयं व्यवहारो नाम ? असत्यपि अनुमाने प्रमाणे जनस्य तदस्तित्वविकल्पः स इति चेत् ; न; अत्र प्रमाणाभावात् । न स्वसंवेदनप्रत्यक्षम् ; तत्र मिथ्यैकान्त[म]नभ्युपेत्य अपलापोपलब्धेः, न च स्वयमनवस्थितम् अन्यव्यवस्थानिबन्धनम् अतिप्रसङ्गात् । नाप्यनुमानम् ; तदेव नास्ति तत एव तद्वयवस्थानमित्यतिसाहसम् । संवृतिसिद्धेन तेन तद्वयवस्थापि तागेव ; *"यादृशो यक्षः १० तादृशो बलिः" इति न्यायात् ।
अन्यस्त्वाह- स्वसंवेदने विभ्रमैकान्ताभ्युपगमः प्रमाणान्न युक्तः; विभ्रमात् तदसिद्धः। तन्न युक्तम्-स्वसंविदित इत्यादि इति चेत् ; न; अत्र बहिरर्थसिद्धरनिवारणा [त] दोषो मा भूत् परमतगमनमिति । तर्हि बहिरपि पृथिव्यादिमात्रे प्रत्यक्षं प्रमाणमिष्यते; तत्राह-चतुर्भूत इत्यादि । चतुर्णां पृथिव्यादीनां [भूतानां] व्यवस्था सङ्करव्यतिकरव्यतिरेकेण स्थितिः, ता एव तामपि १५ लक्षणभेदात् धारणेरणद्रवनानात्वात कथयितुमर्हति इति । तथा 'परो मिथ्याभिनिवेशेन स्वयम् अनर्थगतम् आत्मानं जानंध जीवं (जात्यन्ध इव) प्रवेश्यमानोऽपि [न] चेतयते' इति सन्बन्धः। तथाहि-यथा धारणादिस्वभावभेदात् कालत्रयेऽपि परस्परं भिन्ना भूम्यादयः [तथा] तेभ्यः चेतनामूर्त्तत्वरूपभेदात् सहदर्शननियमेऽपि भिन्नश्च आत्मा इति ।
___ ननु यथा पूर्वमुक्तम् 'प्रतिपत्तुमर्हति' इति, एवमत्रापि वक्तव्यम्, किमर्थमुक्तम्-२० 'कथयितुमर्हति' इति चेत् ? उच्यते-कथयति परं प्रतिपादयति, सं च प्रतिपन्न [चैतन्यः] प्रतिपादनीयः, अन्यथा पाषाणादयः प्रतिपादनीयाः स्युः। अचेतनत्वान्नेति चेत् ; प्रतिपाद्याभिमतेऽपि चैतन्यं कुतः प्रतिपन्नम् ? अध्यक्षत इति चेत् ; न; तस्य "तत्र [२२९ख] अप्रवृत्तः । नहि परः परसुखदुःखादिकं प्रत्यक्षयितुमर्हति, अन्यथा सर्वज्ञनिषेधः"। चैतन्यमानं प्रत्यक्षयति, कथमन्यथा शरीरदर्शनात् 'जीवति' इति प्रतीतिः स्यात् , नहि विशेषणाऽग्रहणे तद्विशिष्टविशेष्य- २५ प्रतीतिः 'देण्डा[ग्रहणे दण्ड्य] ग्रहणवद् इति चेत् ; न; चैतन्यस्य सुखाद्यव्यतिरेकात् । न च सुखाद्यग्रहेऽपि तदव्यतिरिक्तचैतन्यग्रहो युक्तः, अन्यथा "पिण्डाद्यग्रहणेऽपि मृद्र्व्यग्रहः स्यात् ।
ननु यथा"भवदीयमते प्रतिक्षणपरिणामाऽग्रहेऽपि द्रव्यग्रहणम्, दूरे वा विशेषाग्रहणेऽपि
(१) स्वसंवेदनेन । (२) व्यवहारः । (३) अनुमानमेव । (४) "यथा बलिस्तथा यक्षः।"-प्र. वार्तिकाल: पृ० २९३ । (५) विभ्रमैकान्ताऽसिद्धेः। (६) 'ता एव' इति निरर्थकमत्र । (७) धारणं पृथिव्याः ईरणं वायोः द्रवत्वं जलस्य उष्णता च अग्नेः लक्षणम्। (८) भूतेभ्यः । (९) परः। (१०) चैतन्ये । (11) 'विरुध्यते' इति शेषः। (१२) दण्डाग्रहणे दण्ड्यग्रहणवत् । (१३) पिण्डस्थासादिपर्यायाग्रहणेऽपि । (१४) जैनमते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org