________________
२७८
सिद्धिविनिश्चयटीकायाम्
[ ४ जीवसिद्धिः
किं पृथिव्यादिकं जीवादिकं च केन विदध्यात् प्रतिषेधयेद्वा प्रमाणाभावे उभयोः' अभ्युपगमः प्रतिषेधो वा स्यात् इति मन्यते । एतदेवाह - यतो यस्माद् विधानात् प्रतिषेधाच्च चातुर्भीतिकमेव जगत् स्यात् चतुर्भूतनिर्मितमेव स्यात् । एतदुक्तं भवति - प्रमाणाभावेन आत्मादिवद् भूतपरित्यागे सकलशून्यतापत्तेः, भूतवद् आत्मादिपरिग्रहे [२२८ क] व्यवहाराविशेषात् कुतः ५ चातुर्भौतिकमेव विपर्ययभावात् ? तन्नायं सौगतम् अतिशेते इति 'तदयम्' इत्यादिकम् आदर्शयति- तत्र हि प्रत्यक्षमन्यद्वा प्रमाणं प्रतिषिध्यते - तदुपलम्भादेर्बाधकाभावस्य अन्यस्य वा तल्लक्षणस्य स्वप्नेऽपि भावात् । अदुष्टकारणारब्धत्वस्य ज्ञातुमशक्तेः अतीन्द्रियस्येन्द्रियस्य दुष्टत्वस्य " इतरस्य वा प्रत्यक्षतोऽज्ञाना [त् ज्ञा] नेऽपि पूर्वचोद्याऽनिवृत्तिः, पुनस्तत्रापि अदुष्टकारणाcareerपने 'तदेव चोद्यम् तदेव उत्तरम्' इत्यनवस्था | ज्ञानप्रामाण्यात् " तदवगमे अन्योऽन्य१० संश्रयः - तथाहि सिद्ध " तत्प्रामाण्ये ततोऽदुष्टकारणारब्धत्वसिद्धिः, तस्याः तत्प्रामाण्यसिद्धिः इति । तन्न बहिः कश्चित् प्रमाणम्, कस्यचिद् विधानं प्रतिषेधनं तु स्वसंवेदन प्रत्यक्षबलात् इति कस्यचित् एभैतोऽपि ( एतत् शोभेत ) ।
[अपि च ] तत्वो पल व करणात् ज य राशिः सौगतमतमवलम्ब्य ब्रूयात् ; तत्राहस्वसंवेदन इत्यादि । स्वेन स्वस्य वा वेदनं ग्रहणं तस्य उपेक्षया (अपेक्षया) अभ्युपगमेन १५ यदि नाम इत्यरुचौ । तथा सति बहिः उपप्लुतम्, अन्तश्च अन्यथा, [इति] सौगतमतमेव निरस्तप्रसरंत (न) चार्वाकम् इति 'प्रत्यक्षं प्रमाणम्' इत्येवमुक्तम् । यदि नाम इति सम्बन्धः । तत्र उपहासपरं वचनमाह—सूक्तमेवैतत् असूक्तेऽपि 'सूक्तम्' इत्यभिधानात् निराकृत परदर्शनगमनात् सकलस्वदर्शनत्यागात् सूक्तलेशोऽपि नास्ति इति एवकारेण दर्शयति । कस्मात् असूक्तम् यस्माद् उपहास्यमेतदिति कदाचित् सौगतः तत्पक्षपातमुद्वहन् ब्रूयाद् इत्याह- स्वसंवेदन इत्यादि । २० अत्र अपिशब्दो द्रष्टव्यः । ततोऽयमर्थः - [ २२८ ख] न केवलं बहिः अपितु स्वसंवेदनेऽपि अप्रस्तापो ( अपलापो ) पलब्धेः प्रलापस्य ( अपलापस्य ) निह्नवस्य उपलब्धेः दर्शनात् 'सूक्त - मेवैतत्' इति सम्बन्धः । किं कृत्त्वा ? इत्याह - विभ्रमैकान्तमुपेत्य इति । बहिरिव तत्रापि विभ्रमस्य निरूपितत्वादिति नेदं पुनर्निरूप्यते । ननु सत्यं तत्रापि अपलापोपलब्धिरस्ति बहुजन्मजात्मनि जगति तत्रापि विवादवृत्तेरनिवारणात् स तु उपलभ्यमानोऽपि अपलापो युक्तया व्यव२५ छस् (द्यते इति तस्य अपलापस्य व्यवच्छेदस्यापि तदुपलब्धिः इति सम्बन्धः । न च अविरुद्धविधिः तद्वयवच्छेदक : ; अतिप्रसङ्गात् । तदभावः कुत इति चेत् ? अत्राह - अन्यथा इत्यादि । अन्यथा अन्येन विरोधाऽभावप्रकारेण विप्रतिषेधाद् अन्योऽन्यविरोधात् तस्य तदुपलब्धेः इत्यपेक्षम् । तथाहि - यदि प्रत्यक्ष-अपलापयोः विरोधः तर्हि स्वसंवेदन (ना) भावे तद्भावे वा स्वसंवेदनस्य वार्त्तापि दुर्लभा । न चैवम् । अथ सहभावः; न विरोधगतिरिति । प्रत्यक्षं च ३० समानकालमन्यद्वा न तद्विरोधि ; अर्थग्रहणवत् दोषात् । विरोधोऽपि मिथ्यैकान्ते अनिदंते (निरंशे)
;
(1) पृथिव्यादि - जीवयोः । (२) चार्वाकः । (३) प्रमाणलक्षणस्य । (४) अदुष्टत्वस्य वा । (५) अदुष्टकारणारब्धत्वपरिज्ञाने । (६) ज्ञानप्रामाण्ये । (७) सत्यम् । (८) स्वसंवेदनेऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org