________________
तत्त्वोपप्लव समीक्षा
२७७
४।१२ ]
किं क्रियमाणोऽपि ? प्रवेश्यमानोऽपि । किम् ? इत्याह- अनर्थगर्त्तं स्वयम् अनर्थत्वेन अभ्युपगमाद् अनर्थः परिणामादिः तेन उपलक्षितं तद्रूपस्वा (पत्वात् ) गर्त्तमिव गर्त्तम् तत्प्रविष्टो युगसहस्रैरपि ततो नात्मानमुद्धरति । किम् अनर्थगर्त्तम् ? इत्याह- आत्मानं जीवमिति । केन ? इत्याह- मिथ्याभिनिवेशेन मिथ्या असत्यः अभिनिवेशः नैरात्म्याद्याग्रहः तस्य (यस्य) यस्मिन् चित्रैकप्रतिभासे स तथोक्तः तेन, स्वयम् आत्मना ।
१०
यद्वा, आत्मा न स्वत्तचेत ( स्वतश्चेत्;) अनर्थगतं सकलशून्यतागर्त्तं प्रवेश्यमानोऽपि नात्मानं चेतयते । कुतः पुनः 'अयमपि नात्मानं ने चेतयते इति चेत् ? उच्यते - प्रमाणाभावे न तदभावे सति वा [तथा] प्रतिपत्तु वा अर्हति यतः । किम् ? इत्याह- प्रत्यक्षमेकम् 'प्रमाणम्' इति शेषः, नापरम् अनुमानादिकम् इत्येतत् । किमेतदेव तथा प्रतिपत्तुमर्हति नापमपि ? इत्याह- प्रमेयतत्त्वं वा । वेति पक्षान्तरसूचने । प्रत्यक्षपरिच्छेद्यमेकं नापरम् आत्मादितत्त्वं प्रमेयतत्त्वम् इति । एतच्च कुतः तदभावे न तत्प्रतिपत्तुमर्हति ? इत्याह- प्रमाणान्तर इत्यादि । प्रत्यक्षप्रमाणाद् अन्यद् अनुमानादि तदन्तरं तस्य प्रतिषेधे निरासे सति प्रत्यक्षलक्षणानुपपत्तेः । प्रत्यक्षस्य हि लक्षणं वैशद्यं 'साविप्लवम्, तच्च अशेषतद्वचक्तिनिष्ठ न प्रमाणान्तरमन्तरेण प्रतिपत्तु [२२७ ख] शक्यं प्रत्यक्षस्य नियतगोचरत्वात् । अकृतलक्षणत्वाच्च न ततः तत्प्रतिपत्तिः, ‘तदभावे न प्रतिपत्तुम् अर्हति' इति सम्बन्धः ।
इदमपरं व्याख्यानम् - प्रमाणान्तरनिषेधे कर्त्तव्ये प्रत्यक्षलक्षणग्रहणं तन्निषेधस्य तस्यानुपपत्तेः । नहि 'सर्वथा प्रमाणान्तरं नास्ति' इति प्रत्यक्षम् इयतो व्यापारान् कर्त्तुं समर्थम् नापरमिति तदभावे न प्रतिपत्तुमर्हति ।
"
अत्र तत्त्वोपप्लव दूं आह - चार्वाकैश्चारु चर्चितं - स्वयम् एवं लक्षणतः तदनुपपत्तिः' तेषां न दोषाय, प्रत्यक्षोपगमस्तु व्यवहारेण इति ; तत्राह किं केन ? इत्यादि । तदनुपपत्तेः २० कारणात् किं प्रत्यक्षादिलक्षणस्य परकीयस्य अतिव्याप्तयादिकम् केन ? न केनचित् विदध्यात् कुर्यात् चार्वाकः । न हि प्रमाणमन्तरेण तदपि कर्तुं शक्यं यतः " परपर्यनुयोगपराणि बृहस्पतेः सूत्राणि " 'इंति सूक्तं स्यात् । किं तत् अतिव्याप्त्यादिकं केन प्रतिषेधयेद्वा यतो यस्मात् कस्यचिद् विधानात् प्रतिषेधाच्च जगत् स्यात् । किं भूतम् ? इत्याह- चातुर्भौतिकमेव चतुर्भिः पृथिव्यादिभिः उपश्रुतत्वात् भूतैरिवेगृहाते द्वत ( भूतैरेवेति गृह्यते यतः) इति । यदि वा २५
(१) चार्वाकः । (२) 'न' इति निरर्थकं भाति । (३) अविप्लवेन सहितं वैशद्यम् । (४) प्रत्यक्षव्यक्ति । (५) अनुमान । ( ६ ) प्रत्यक्षात् । (७) प्रमाणान्तरनिषेधस्य । (८) तत्त्वोपप्लवग्रन्थस्य कर्ता जयराशिभट्टः । "नास्ति तत्फलं वा स्वर्गादि उक्तं च परमार्थविद्भिरपि - लौकिको मार्गोऽनुसर्तव्यः अ । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥" इत्यादि । ननु यद्युपप्लुतस्तस्वानां किमाया : अथातस्तत्त्वं व्याख्यास्यामः पृथिव्यतेजोवायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा इत्यादि ? न; अन्यार्थत्वात् । किमर्थम् ? प्रतिबिम्बनार्थम् । किं पुनरत्र प्रतिबिम्ब्यते? पृथिव्यादीनि तत्वानि लोके प्रसिद्धानि, तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते किं पुनरन्यानि । ( पृ० १ ) तदेवमुपप्लुतेष्वेव तत्वेषु अविचारितरमणीयाः सर्वे व्यवहारा न्त इति । ( पृ० १२५ ) - तत्त्वोप० । ( ९ ) प्रत्यक्षानुपपत्तिः । (१०) उद्धृतमिदम् - सन्मति० टी० पृ० ६९, ७४ ।
Jain Education International
For Personal & Private Use Only
१५
www.jainelibrary.org