________________
२७६
सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः समकालात् परतस्तदुत्पत्तौ; तदपि परस्य कारणम् अविशेषात् , तथा च सति अन्योऽन्यसंश्रयः । अथापि किञ्चिदेव कारणं कार्यं वा; तथा 'किञ्चिदेव कस्यचिदेव ग्राहकं ग्राह्यम्' इति [तथा] च निराकृतमेतत् -*"नीलादिरपि ज्ञानस्य ग्राहकः स्यात्" इति । यथा च तस्य परेण जन्यते स्वरूपं नापरोत्पत्तिः क्रियते, तथा जंत (ज्ञानेन) तस्य नीलादेः स्वरूपं गृह्यते न गृहीतिः क्रियते । ५ तस्मादेतदपि निरस्तम्-*"ज्ञानेन अर्थस्य तद्रूपाया गृहीतेः करणे एकत्र अर्थस्य करणम्
अन्यत्र अनवस्था" इति । एतेन भिन्नकालादपि तदुत्पत्तिः उक्ता । अपि च जन्यविज्ञानकालेऽसतः परस्मादुत्पत्तौ बन्ध्यासुतादपि उत्पत्तिः स्यात् “भेदाभावात् । अथ तस्य "तत्कालेऽसत्त्वेऽपि स्वकाले सत्त्वं न बन्ध्यासुतस्य ततोऽयमदोषः; ननु तस्य कार्यकालेऽसत्त्ववत् स्वकाले
सत्त्वं यदि न कुतश्चित् प्रतीयते; तर्हि वचनमात्रमेतन्न [२२६ख] समाधानमर्हति । प्रतीयते १० चेत् ; कथं ग्राह्यग्राहकभावनिवृत्तिः ? तन्न किञ्चिदेतत् । अथ परेण यतः कस्यचिदुत्पत्त्यनभ्युपग
मात् किमर्थमेतदुच्यते इति मतिः; तस्य अनिष्टसिद्धिप्रतिपादनार्थम् । यदा हि तद्पस्य सतः स्वतः परतो वा नोत्पत्तिः अत एव [न] विनाशः, ततो नित्यत्वम् इति सर्वस्य क्षणिकत्वप्रतिज्ञाव्याघातः । ज्ञानवादिनां पुनः कालाऽभावाद् 'एकस्य कालत्रयानुयायित्वम् , एकक्षणानुवृत्तिः
क्षणिकत्वम्' इति अपसिद्धान्तः । १५ ततः तदसिद्धिरस्तु । ततः किम् ? इत्याह-स्वभावेन स्वरूपेण नैरात्म्यं स्वरूपतुच्छता
सर्वभावानां तदसिद्धेः' इति पदघटना । एवं शून्यवादिना विज्ञप्तिवादिनं घातयित्वा अधुना शून्यवादिनं स्वयमेव निहन्ति प्रमाण इत्यादिना । प्रमाणस्य प्रत्यक्षादेः अभावेन करणभूतेन[न] प्रतिपत्तुमर्हति शून्यवादी 'स्वभावनैरात्म्यम्' इति सम्बन्धः। यस्य हि सर्वं शून्यं तस्य प्रमाणाभावोऽपि । तेन तत्प्रतिपत्तौ तस्यापि अनेन (अन्येन) तदभावेन प्रतिपत्तिः तस्याप्यन्येनेत्यनवस्थेति मन्यते । यदि वा, तदभावेन तत्प्रतिपत्तौ किमन्यत्रापि प्रमाणान्वेषणेन इति ? अथ चेक (अथवा, एकत्र) नीलादिसुखादिप्रतिभासेन सकलशून्यताव्यवस्थाकारिणः प्रमाणस्य बाधनात्" तदभावे न प्रतिपत्तुमर्हति-प्रमाणाभावे सति न प्रतिपत्तुमर्हति 'स्वभावनैरात्म्यम्' इति वा व्याख्यानम् ।
__ अत्राह प्रज्ञा क र गु तः-*"प्रतिभास एव कार्यकारणभावादिविकल्पशून्यत्वात् २५ पर्युदासापेक्षया शून्यता यथा केवलं भूतलंघटशून्यता। तत्र च स्वसंवेदनाध्यक्ष-[२२७क]
प्रमाणभावात् कथमुच्यते तदभावे न तत् प्रतिपत्तुमर्हति ।" इति ; तं प्रत्याह-भावे च इति । भावेऽपि प्रमाणस्य प्रतिभासमात्रलक्षणस्वभावनैरात्म्यस्य वा अङ्गीक्रियमाणे । किम् ? इत्याह-तदयम् इत्यादि । तत् तस्माद् भावाद् अयं प्रज्ञा क रा दिः न चेतयते ।
(१) उत्पद्यमानमपि । (२) समकालत्वात् । (३) परात् प्रकृतस्योत्पत्तिः, प्रकृताच परस्येति । (४) यदुच्यते प्रतिभासाद्वैतवादिना यदि समकालं ज्ञानं नीलादेहिकम्, तदा नीलादिरपि कुतो न ज्ञानस्य ग्राहक इति? (५) अर्थादभिन्नायाः। (६) अभेदपक्षे। (७) भेदपक्षे सम्बन्धार्थम् उपकारान्तरस्वीकारे अनवस्था । (८) विशेषाभावात् । (९) कारणस्य । (१०) कार्यकाले । (११) शून्य एव । (१२) प्रमाणाभावेन । (१३) प्रमाणाभावेन । (१४) प्रमाणाभावे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org