________________
४।१२] प्रतिभासाद्वैतनिरासः
२७५ इति । यदि पुनः तदात्मनोऽपि तद्वत् परमार्थसत्त्वं परो मन्यते को दोषः स्यात् ? न कश्चित् , ते गुण एव तु स्यात् । नानैकत्वस्य विपक्षसंक्रमनिवारणात् असौगतं जगत् स्यादिति चेत् ; न जाने अहमपि ईदृशम् ।
ननु भवतु भ्रान्तस्य नानैकत्वसंभवः नाऽभ्रान्तस्य तन्मात्रस्येति चेत् ; अत्राह-[२२५ख] ग्राह्य [ग्राहकसंवित्ति] इत्यादि । ग्राह्यादिशब्दानां कृतद्वन्द्वानां भेदशब्देन षष्ठीसमासः ५ तेन अवभासनात् 'तन्मात्रस्य' इति विभक्तिपरिणामेन सम्बन्धः । द्वितीयपक्षे-संभावितैकरूपस्य-संभावितम् अस्तीति मनसा अवतारि पुनं (अवभासितं) न पुनः प्रत्यक्षादिना प्रमाणेन निश्चितम् एकत्र (म)सहायम् , अथवा सन्तानान्तरनिषेधेन एकसंख्यायुक्तं रूपं स्वभावो यस्य तस्य स्वतः स्वसंवेदनाध्य[१]तो असिद्धेः अप्रतिपत्तेः। नहि असूक्षिकया (अतिसूक्ष्मेक्षिकया) कालभेदमिव देशभेदमपि चिन्तयतो नीलादिस्वभावम् अन्यथाभूतं वा परमाणुरूपं वेदनमाभाति । १० यदि वा स्वतोऽसिद्धेः अनिष्पत्तेः अनुत्पत्तेः इत्यर्थः। नहि कस्यचित् स्वत उत्पत्तिः, अहेतुकत्वेन सर्वत्र सर्वदा भावप्रसङ्गात् , नीलादि पीतादिना भवेत् । तथापि तेन्नियमे अर्थाकार्यत्वेऽपि ज्ञानस्य संन्नियमः स्यादित्यलं तदुत्पत्तिसारूप्यकल्पनेन । तन्नियमवत् स्वरूपनियमोऽपि कल्पनातो नान्यतः सिध्यति । एतेन नित्यस्यैकरूपस्य सहकार्यपेक्षस्य तत्कृतोपकारानपेक्षस्य क्रमतोऽपि कार्यकरणे स्वभावनियमो व्याख्यातः । ततः स्थितम्-स्वतोऽसिद्धेः इति । १५
तस्य परतोऽप्यसिद्धेः इति दर्शयन्नाह-परतश्च अन्यतोऽप्यसिद्धः अप्रतिपत्तेः। तथाहिसंभावितैकरूपस्य चक्षुषि गन्धस्य, एवं परत्रापि, न प्रतिभानमस्ति नीलादिसुखादिव्यतिरिक्तव (रिक्तस्य विवादास्पदत्वात् । तत्र तत्प्रतिभासनभावेऽपि परमार्थतो ग्राह्यप्राहकभावाऽभावेन *"नान्योऽनुभाव्यो बुद्ध्यास्ति" [प्र० २।३२७] ईत्यादि, *"निरालम्बनाः [२२६क] प्रत्ययाः" [प्र. वार्तिकाल पृ० ३८७] इत्यादि *"यदवभासते तज्ज्ञानम्" इत्यादि च २० विरुध्यते, ज्ञानस्येव जडस्यापि परतः प्रतिभासाऽविरोधात् ।
किञ्च परस्यापि तद्र पस्य परतः सिद्धिः, तस्यापि परतः इत्यनवस्था । अतद्र पत्वे किं तस्य निर्भागंध (गत्व) कल्पनया इति मन्यते ।
ननु तस्य स्वप्रतिभासरहितस्य परतः सिद्धौ विज्ञप्तिरूपतैव हीयते स्वप्रतिभासलक्षणत्वात्तस्याः, तत्कथं परानभ्युपगमो दूष्यत इति चेत् ? सत्यम् ; तथापि यो (ये) अनिश्चित- २५ स्वसंवेदनरूपां ग्राह्यादिभ्रान्त्यन्थानुपपत्त्या तां व्यवस्थापयन्ति तान् प्रति इदमुच्यते, *"अद्वयंयानमुत्तमम्" इत्यागभाद्वा"।
इदमपरं व्याख्यानम्-परतश्च स्वतः अन्यतः कारणादपि असिद्ध: अनुत्पत्तेः । तद्यथा
(७),परिणाम्यात्मनोऽपि । (२) विज्ञप्तिमात्रस्य । (३) सत् भवेत् । (५) अहेतुकत्वेऽपि । (५) उत्पत्तिनियमे । (६) अर्थप्रतिनियमः। (७) अर्थप्रतिनियमवत् । (6) 'तस्या नानुभवोऽपरः। तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥' इति शेषः । (९) विज्ञप्तेः। (१०) विज्ञप्तिमात्रा व्यवस्थापयन्ति तान प्रति । "तथा चोक्तम्-अद्वयं..."-प्र०वार्तिकाल०२१७।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org