________________
२७४ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः तदभावः पुनः कारणाऽभावात् । तस्य हि कारणं बह्ववयवसंयोगः, से च सर्वात्मना एकदेशेन वा अवयवानां दुरुपपादः । अपेक्षाकृतत्वाद्वा, स्थूलादिकमपेक्ष्य [सूक्ष्मादिकम्, सूक्ष्मादिकं चापेक्ष्य] स्थूलादिकमात्मानं [२२४ख] लभते । न च अपेक्ष (क्षा)भाविनो धर्माः पारमार्थिकाः । अनेन अभेदवादो दर्शितः इति विभागः, तदभावात् कुम्भादिकं प्रज्ञप्तिसद् इति घटना ।
परमाणवस्तर्हि परमार्थसन्तो भवन्तु इति चेत् ; अत्राह-परिमण्डल इत्यादि । [परिमण्डलं] सूक्ष्मनिरंशत्वम् आदिः यस्य क्षणभङ्गादेः तस्य अप्रतिभासनात् स्वलक्षणेषु इति तत् तत्सत् इति । यथोक्तविशेषशून्यं नीलादिमात्रं परमार्थसत् इति चेत् ; अत्राह-तव्यतिरेकिण [इत्यादि।] तस्मात् स्थूलकुम्भादेदृष्टाद् व्यतिरिक्तस्य नीलादेः असंभवात् 'अप्रतिभासनात्' इति अनन्त
रोक्तो हेतुः अत्र द्रष्टव्यः । ततोऽयमर्थः-यथा अप्रतिभासनात् परिमण्डलादेरभावः तथा तद्१० व्यतिरेकिणो नीलादेरपि इति न युक्तमेतत्-*"यद् यथावभासते तत् तथैव परमार्थसद् यथा
नीलं नीलतयाऽवभासमानम्।" इत्यादि; नीलदृष्टान्ताभावात् । तथापि तत्कल्पनायां परिमण्डलादेरपि सौ केन वार्यत इति तनिषेधवचनं पूर्वापरबाधितं 'तद्व्यतिरेकिणः' इत्यनेन एतद् दर्शयति । यदि स्थूलादिस्वभावाव्यतिरेकिणो नीलादेः तथावभासनेन परमार्थसत्त्वमिष्यते,
सर्वस्य क्षणिकत्वस्य साधने तथावभासनहेतुना; नहि स्थूलादिप्रतिभासनवद् अक्षणिकत्व [प्रति]१५ भासस्यापि कारणाऽभावादसिद्धो हेतुरिति । यदि पुनः नीलादेः तँदव्यतिरेकिणोऽपि परमार्थसत्त्वं
न तस्य इत्युच्यते; व्यभिचारी हेतुः स्यादिति । ततो नीलादेः तद्व्यतिरेकिणोऽसंभवात् कुम्भादिकं तथासद् इति । ___संप्रति प्रज्ञप्तिशब्दस्य अपरमप्यर्थं दर्शयन्नाह-विज्ञप्ति [२२७क] मात्रम् इत्यादि । विशिष्टा
ज्ञप्तिरेव तन्मात्रम् 'कुम्भस्तम्भादि दृष्टम्' इति सम्बन्धः *"यदवभासते तज्ज्ञानम्" इत्याद्य२० भिधानात् । तच्च किं भूतम् ? इत्याह-परमार्थसद्, विज्ञप्तिमात्रस्य परमार्थसत्त्वेन उपगमात् । प्रज्ञा क रे णा प्युक्तम्-*"अज्ञातार्थप्रकाशो वा इत्येतत् पारमार्थिकं प्रमाणलक्षणम्" [प्र० वार्तिकाल० २।५] इति । एतत् माध्यमिकेन कदर्थयन्नाह-यथादर्शनम् इत्यादि । अत्रायमभिप्रायः-यथादर्शनं वा विज्ञप्तिमात्रं कल्पेत (प्येत), अन्यथा वा ? प्रथमपक्षे यथादर्शनं दर्शनाs
नतिक्रमेण प्रज्ञप्तिसत्त्वात् बहिरर्थवद् अविचारितसद् विज्ञप्तिमात्रं न परमार्थसद् इति मन्यते। २५ कुत एतत् ? इत्यत्राह-भ्रान्तस्यापि इत्यादि। अत्रायमभिप्रायः-परेण *"चित्रप्रतिभासापि
एकैव बुद्धिः" [प्र. वार्तिकाल० ३।२२०] इत्यादि वदता नानैकत्वेऽपि तस्याः परमार्थसत्त्वमङ्गीकृतं सर्वथा नैरात्म्यं निरूपयतो नानैकात्मनः तद्वत् संविदितात्मनः परिणामिनोऽपि आत्मनः परमार्थसत्त्वम् । तदेवं भ्रान्तस्यापि परिणामिन आत्मनः, न केवलम् अभ्रान्तस्य विज्ञप्ति
मात्रस्य इति अपिशब्दार्थः । तस्य किम् ? इत्याह-नानैकत्वसंभवात् । एवं मन्यते-यस्य ३० नानैकत्वसंभवो न तस्याभ्रान्तत्वं यथा परिणामिन आत्मनः, नानैकत्वसंभवश्च विज्ञप्तिमात्रस्य
(१) स्थूलस्थ । (२) संयोगः । (३) प्रज्ञप्तिसत् । (४) स्थूलस्य । (५) कल्पना । (६) स्थूलादिस्वभावाव्यतिरेकिणः । (७) प्रज्ञप्तिसत् । (८) प्रज्ञाकरेण । (९) बुद्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org