________________
४।१२] प्रतिभासाद्वैतनिरासः
२७३ सत् *"प्रामाण्यं व्यवहारेण" [प्र० वा० १।६] इत्यभिधानात् । प्रशिथिला अविचारितरमणीया ज्ञप्तिः अस्य इति व्युत्पत्तेः इति । परमपि नास्तिक्यं दर्शयति अदृष्टम् अनुपलब्धं क्षणिकपरमाणुरूपवेदनं पुरुषवत् सकलशून्यत्वं वा परमार्थसत् इति । तत् अन्यदपि दर्शयन्नाहतथा इत्यादि । तथा तेन प्रकारेण दृष्टं दर्शनं प्रत्यक्षम् इति यावत् । दृष्टमेव इति अवधारणीयम् , तेन न अदृष्टं दर्शनादन्यत् अनुमानादिकमपि गृह्यते । तत् किम् ? इत्याह-तत्त्वम् ५ इति । तत्त्वविषयत्वात् तत्त्वं विषयिणि विषयोपचारात् यथा *"उपलम्भः सत्ता" [प्र०वार्तिकाल० ३।५४] इति । यदि वा, दृष्टमेव दर्शनविषयीकृतमिव (मेव) न अनुमानादिविषयीकृतम् आत्मादितत्त्वं परमार्थसत् इति ग्राह्यम् इति एवम् आत्मविद्विषां नैरात्म्यवादिनां सौगतलौकायतानाम् नास्तिक्यं द्वेधा इति सम्बन्धः
कारिकां विवृण्वन्नाह-कुम्भस्तम्भादि दृष्टम् इत्यादि । कुम्भस्तम्भौ आदी यस्य १० चेतनेतरवस्तुनः तत् तथोक्तम् , तच्च तत् दृष्टं च दर्शनविषयीकृतम् इत्यर्थः ।
ननु च 'कुम्भादि' इति वक्तव्ये किमर्थं स्तम्भवचनमिति वक्तुं भव [ति]? स्तम्भस्य तद्वद्वा कुम्भस्य उपलम्भप्रतिपादनार्थम् , एकस्यापि तदपलापे द्वयोरपि स भवेत् । यथैव हि कुम्भदर्शनेन स्तम्भो न दृश्यते तथा स्तम्भदर्शनेन कुम्भोऽपि । परस्परपरिहारस्थिततदुपलम्भप्रतिज्ञाने कुतः सन्तानान्तरनिषेधो यतोऽद्वैतम् । एकस्य तदात्मकत्वे तद्ग्रहणे वा क्रमेणापि तस्य तदविरोधि १५ (ध) इति कथं नैरात्म्यं क्षणिकत्वं वा इति तत्प्रतिपादने सिद्धं भवति । 'कुम्भादि' इति पुनरुच्यमाने मतान्तरदृष्टम् आदिशब्देन पुरुषादि [२२४क] गृह्यते इति आशङ्क्येत । तत् किम् ? इत्याह-प्रज्ञप्तिसत् इति । प्रगतज्ञप्ति सहि (सदि) त्यर्थः। तैमिरिकदृष्टकेशोण्डुकवत् व्यवहारेण वा सत् । अत्र 'यद् विशददर्शन' इत्यादि साधनं द्रष्टव्यम् । तत्रैव युक्त्यन्तरमाह-संस्थानादः इत्यादि । संस्थानम् दीर्घत्वादिकम् आदिः यस्य द्रव्यसामान्यादेः तस्य स्वलक्षणेषु बहिरन्तः- २० परमाणुलक्षणेषु अभावात् । कुतः ? इत्यत्राह-वृत्ति इत्यादि । गुणिनि गुणानाम् अवयवेषु अवयविनः विशेषेषु जातेः समवायेन वर्त्तनं वृत्तिः तस्याः विकल्पः 'किम् एकदेशेन उत सर्वात्मना, क्रमेण योगपद्यन वा' इति भेदवित्तन(चिन्तनं) तेन तस्मिन् वा अनवस्था । 'एकदेशेन वर्त्तने तत्रापि अपरभिन्नदेशकल्पनम् , तत्रापि अपरमिति देशाव्यवस्थितिः, सर्वात्मना गुणगुणिनोः अन्यतरदेव स्यात् , एवमन्यत्र गुणिनोः अन्यतरत् ६ एवमन्यत्रापि वक्तव्यम् । तथा २५ सति गुणादयः "तद्वन्तश्च इति या व्यवहि (यो वृत्तिविकल्प आ)लम्बनादेः स तथोक्तः स चासौ दोषश्च तस्य अनुवृत्तेः सकाशात कुम्भस्तम्भादि दृष्टं प्रज्ञप्तिसद् इति सम्बन्धः ।
___ ननु मा भूत् संस्थानादिः आधारव्यतिरिक्ता (क्तो) यथोक्तदोषात् , स्वयमेव तु स्वलक्षणं कुम्भादिस्थूलादिरूपं स्यादिति जैनः; तत्राह-स्थूलस्य अभावाद् इति । स्थूलस्य महत्त्वोपेतस्य, उपलक्षणमेतत् , तेन दीर्घादेरभावात् 'स्वलक्षणस्य' इति वचनविभक्तिपरिणामेन सम्बन्धः । ३०
(१) नास्तिक्यम् । (२) उपलम्भविलोपे। (३) कुम्भस्तम्भादिप्रतिपादने । (४) पुरुषाद्वैतवादिदृष्टम् । (५) द्रष्टव्यम्-पृ० २६४ ५० ७ । (६) द्रव्यगुणकर्मसु । (७) एकदेशेऽपि । (८) वर्तने । (९) $ एतदन्तर्गतः पाठो द्विलिखितः । (१०) गुणादिवन्तश्च ।
३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org