________________
२७२ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः संभवात् ग्राह्य [ग्राहकसंवित्ति] भेदावभासनात् संभावितकरूपस्य स्वतोऽसिद्धः परतश्च स्वभावनैरात्म्यं सर्वभावानां प्रमाणाभावे न प्रतिपत्तुमर्हति शून्यवादी, भावे च । तदयमास्मानं मिथ्याभिनिवेशेन अनर्थगर्ने प्रवेश्यमानोऽपि न चेतयते । प्रमाणाभावेन प्रत्यक्षमेकं नापरं प्रमेयतत्त्वं वेति न तथा प्रतिपत्तुमर्हति । प्रमाणान्तरप्रतिषेधे प्रत्यक्षलक्षणानुपपत्तेः ५ कि केन विदध्यात् प्रतिषेधयेद्वा यतः चातुीतिकमेव जगत् स्यात् । यदि नाम स्वसंवेदनापेक्षया बहिरन्तश्चोपप्लुतमिति सूक्तमेवैतत् , निराकृतपरदर्शनगमनात् । विभ्रमकान्तमुपेत्य स्वसंवेदनेपि अपलापोपलब्धेः अन्यथा विप्रतिषेधात् चतुर्भूतव्यवस्थामपि लक्षणभेदात कथयितुमर्हति । न च चतुर्भूतव्यवस्थाकथनं युक्तम् परोक्षाणामपि लक्षणात् साकल्येन
तत्वाप्रतिपत्तेरन्यथानुपपत्तेः।] १० तत्र 'क्षायोपशमिकभावस्यापि तद्घाति [२२३क] कर्मोदयोदीरणवशात् मिथ्या
दर्शनम्' इत्येवं व्यवस्थिते सति मते वा नास्तिक्यं नास्तिकस्य भावः कर्म वा द्वेधा द्विप्रकार बाह्याध्यात्मिकविषयभेदेन, यदि वा, जीवाऽजीवगोचरना[ना]त्वेन विज्ञप्तिमात्रस्य (स्याs) भावात् , अथवा जाग्रत्स्वप्नविषयभेदेन वा भेदगोचरत्वेन च, यदि वा अनुमानादिप्रमाणतत्प्रमेय
विषयभेदेन तद्विविते (तद् द्वेधेति) । यदि वा, जीवे यन्नास्तिक्यं तस्य भेदं दर्शयन्नाह-तत्र १५ इत्यादि । तत्र जीवे नास्तिक्यं द्विधा (द्वेधा) सौगतचार्वाकचर्वणभेदेन । अथवा, तत्र तयोः
नास्तिक्य-अन्यत्रजीवाभिमानयोर्मध्ये नास्तिक्यं तद्वेधा इति व्याख्येयम् । तत् किम् ? इत्याहप्रज्ञासत् संवृतिसत् इत्यर्थः ।
ननु प्रज्ञाप्ति (प्रक्षेति) शब्दो न कचित् संवृतिपर्यायतया रूढः तत एवं वक्तव्यं दृष्टं (स्पष्टं) संवृतिसत् इति, एवं हि स्पष्टो निर्देशो भवति *"तत्त्वसंवरणात् संवृतिः मिथ्या२० विकल्पबुद्धिः” इति सर्वत्र प्रसिद्धः तया सत् इति । नापि एवंवचने कारिका मद (भ्रंश)
इति चेत् ; तन्न ; परमतभेदप्रदर्शनार्थत्वात् तथावचनस्य । तथाहि-दृष्टं सर्वं चेतनभ्वा (चेतनमचेतनं वा) मिथ्येति मतम् *"मायामरीचिप्रभृति प्रतिभासवदसत्त्वेऽपि अदोषः" [प्र०वार्तिकाल० ३।२११] इति वचनात् । कुतः ? इत्याह-प्रज्ञप्तिसत् इति हेतोः, प्रगता ज्ञप्तिः यस्य तत् तथोक्तं प्रज्ञप्तिसत् सत्त्वं यस्य सर्वस्य तदपि तथोक्तम् । नहि कस्यचित् परमार्थसत्त्वग्राहक २५ मानमस्ति, उपलम्भादेः स्वप्नेऽपि भावादिति । तथादृष्टम् उपलम्भगोचरचारि प्रकृष्टाऽद्वयज्ञप्ति
रूपेण सद् विद्यमानं सर्वं सुखादिनीलादि न जीवाऽजीवरूपेण । *"यद् उपलभ्यते (१) चनीलादि कम्" इति वचनात् । अपरं दर्शनम् तथा च [२२३ख] अन्यादृष्टं सर्वं प्रज्ञप्तिसत् व्यवहारेण
(१) "समन्ताद्वरणं संवृतिः । अज्ञानं हि समन्तात् सर्वपदार्थतत्त्वाच्छादनात् संवृतिरित्युच्यते । परस्परसंभवनं वा संवृतिः अन्योऽन्यसमाश्रयेणेत्यर्थः। अथवा संवृतिः संकेतो लोकव्यवहार इत्यर्थः। स च अभिधानाभिधेयज्ञानज्ञेयादिलक्षणः ।"-माध्य. वृ० पृ. २४० । “प्रमाणमन्तरेण प्रतीत्यभिमानमात्र संवृतिः।" "संवृति म विकल्पविज्ञानमधिमुक्तिमाह अनादिवासनातः ।।"-प्र. चार्तिका. पृ. ३।४ । "संवियत आवियते यथाभूतपरिज्ञानं स्वभावावरणादावृतप्रकाशनाच्चानयेति संवृतिः। अविद्या मोहो विपर्यास इति पर्यायः।"-बोधिच. प. पृ० ३५२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org