________________
४१२ ]
कर्मफल प्रकारः
२७१
अकासविद् द्विष्टकानां ( कासादि विषकल्पानां) कुतश्चित् क्षयोपशमे कासाञ्चिच्च उदयोair प्राथमिकप्रबोधे स विभ्रभ इति मन्यते ।
'जीवादि' इत्यादिना कारिकां विवृण्वन् प्रथमं निर्दिष्टां मिध्यादृष्टिं विवृणोति - मिथ्यादर्शनम् । किम् ? इत्याह- जीवादि इत्यादि । आदिशब्देन अजीवादिपरिग्रहः, स एव तत्वार्थः प्रमाणोपपन्नत्वात् तत्र अश्रद्धानम् अरुचिः । तदेव दर्शयन्नाह - जीव इत्यादि । तावत् ५ शब्दः क्रमवाची जीवे आत्मनि नास्तिक्यं नास्तिकस्य भावो 'मिथ्यादर्शनम्' इति सम्बन्धः । तत्रैव अपरं दर्शयति अन्यत्र चेतनापरिणामशून्ये स्वयं कल्पिते धर्मिणि सर्वगतत्वादिधर्मोपरक्त जीवाभिमानश्च 'मिथ्यादर्शनम्' इत्यनुवर्तते, अतस्मिन् तदभिमानस्य तद्रूपत्वात् । किं पुनः द्विविधमेव तत् प्रदर्श्यते ? इत्याह- मिथ्यादृष्टेः इत्यादि । मिथ्या दृष्टिः रुचिर्यस्य तस्य द्वध्या (द्वैविध्या) नतिक्रमात् । कुतः ? इत्याह - [ २२२ख] विप्रतिपत्तिः इत्यादि । तस्य जीवे विरुद्धा १० विपरीता वा प्रतिपत्तिः विप्रतिपत्तिः अप्रतिपत्तिः प्रतिपत्त्यभावो यतः वा शब्दो विकल्पार्थः इति शब्दः मिथ्यारुचिसमाप्तयर्थः ।
3
ननु 'किं जीवोsस्तु (स्ति) न [वा ] ' इति, तथा 'चेतनपरिणामस्वभावः अन्यो वा' इति संशयपक्षोऽपि तृतीयोऽस्ति कस्मान्नेहोच्यते इति चेत् ? न तस्यै अप्रतिपत्तिशब्देन उक्तत्वात्, तथा वा (च) प्रतिपत्त्यभावरूपत्वात् संशयस्य इति । कथंभूतस्य मिथ्यादृष्टस्तद्भवः ? इत्याह- १५ क्षायोपशमिकभावस्यापि कर्मणां यः क्षयश्च उपशमश्च क्षयोपशमः तत्र भवो भावो यस्य तस्यापि मिथ्यादृष्टेः। तदपि शब्दः तस्यैव इत्यवधारणे, वच्छता (मिथ्यात्व) रहितस्य तदभावात् । संभावनायां वा । कुतस्तत्तस्येति चेत् ? अत्राह - तद्धाति इत्यादि । तच्छब्देन जीवः परामृश्यते, तस्य जीवस्य घातिकर्माणि यानि तत् कर्मसामान्यवचनेऽपि दर्शनोपघातद्वारेण तदुपघातकानि प्रक्रमाद् गृह्यन्ते, तेषाम् उदयोदीरणवशात् इति । न केवलं मिथ्यादर्शनमेव तस्य २० अतो भवति अपि तु मिथ्याज्ञानमपि इति दर्शयन्नाह - मत्य इत्यादि । मत्यज्ञानम् मिथ्याऽवग्रहादिज्ञानम् आदिर्यस्य श्रुताऽज्ञानादेः स तथोक्तः स एव परिणतिः । च शब्देत्व ( शब्दोऽत्र ) द्रष्टव्यः । ततोऽयमर्थः- तत्परिणतिश्च क्षायोपशमिकभावस्यापि तद्घातिकर्मोदयोदीरणवशादिति । ननु च जीववदन्यत्रापि नास्तिक्यसंभवे 'जीवे तावत्' इति क्रमवाची शब्दः प्रयुज्यते । न चान्यत्र तँदिति चेत्; अत्राह - तत्र इत्यादि ।
[ तत्रेति द्वेधा नास्तिक्यं प्रज्ञासत् प्रज्ञप्तिसत् । तथादृष्टमदृष्टं वा तत्त्वमित्यात्मविद्विषाम् ॥ १२ ॥
Jain Education International
कुम्भस्तम्भादि दृष्टं प्रज्ञप्तिसत् संस्थानादेः स्वलक्षणेष्वभावात् । वृत्तिविकल्पानवस्थादोषानुवृत्तेः । स्थूलस्याभावात्, परिमण्डलादेरप्रतिभासनात्, तद्व्यतिरेकिणोऽसम्भवात् । विज्ञप्तिमात्र' परमार्थसत् ; यथादर्शनं प्रज्ञप्तिसत्त्वात् भ्रान्तस्यापि नानैकत्व - ३० (१) नैयायिकादिना । (२) मिथ्यात्वात् । (३) मिथ्यात्वम् । ( ४ ) संशयः । ( ५ ) संशयस्य । (६) नास्तिक्यम् ।
२५
For Personal & Private Use Only
www.jainelibrary.org