________________
२७०
सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः तद्विशेषो कदाचित् कचिदेव भवनात्मनः कारणनियमं सूचयति । आकस्मिकत्वे मिथ्याज्ञानादिभेदोऽपि मिथ्याज्ञानादिनिमित्तास्रवपूर्वको न स्यात् । ततः स्थितं पूर्वबन्ध (पुनर्बन्ध)
इत्यादि।
दृष्टान्तमाह-[२२१ख] मूषिक इत्यादि । मूषिकाऽलकशब्दयोः कृतद्वन्द्वयोः विष५ शब्देन षष्ठीसमासः तस्य पुनः विकारशब्देन । यदि वा, मूषिकालर्कविषाणां कृतद्वन्द्वानां विकारशब्देन तत्समासोऽभिधेयः, तद्विकारेण तुल्यं वर्तते इनि तद्वत् इति ।
'सुखदुःखादिलक्षणः' इत्यत्र आदिशब्देन विवक्षितं मिथ्यादर्शनज्ञानफलं निरूपि(पयि)तुं कारिकामुपन्यस्यति उदयोदीरण इत्यादिना ।
[उदयोदीरणसद्भावे दृष्टिप्रतिबन्धकर्मणाम् । १० मिथ्यादृष्टिधियो कर्मप्रकृतीनां क्षयोपशमात् ॥११॥
जीवादितत्त्वार्थाश्रद्धानं मिथ्यादर्शनम् । जीवे तावन्नास्तिक्यम् अन्यत्र जीवाभिमानश्च, मिथ्यादृष्टः द्वैविध्यानतिक्रमात् विप्रतिपत्तिरप्रतिपत्तिर्वेति । मिथ्यादृष्टेः क्षायोपशमिकभावस्यापि तद्वातिकर्मणामुदयोदीरणवशात् मत्यज्ञानादिपरिणतिः।]
ननु च आदिशब्देन उपदर्शितोपदर्शनार्थं पुनः कारिका उच्यमाना पुनरुक्ततामावहेत् , १५ अतिप्रसङ्गश्च इष्टानिष्टशरीरादिफलोपदर्शनार्थयोरपि तथावचनप्राप्तः इति चेत् ; न; अन्यथा तदुपन्यासात् । तथाहि-'मिथ्याज्ञानादेः अविरतिः, ततः प्रमादः, अस्मात् क्रोधादयः, तेभ्यः आस्रवः, [ततः] कर्मबन्धः, पुनः बन्धसन्ततौ फलविकल्पः स्यात्' इति सूरेः अभिप्रायः, *"एषोऽहं मम कर्म शर्म हरते" [यश० उ० पृ० २४६] इत्यादि वचनात् । तत्र प्रथम मिथ्यात्वादिकं यदि अकारणमन्यकारणं वा सर्वं तथैव स्यादिति; अत्राह-उदयोदीरण इत्यादि। २० अत्रायमभिप्रायः-तदपि मिथ्यात्वा]दिकम् अन्यस्मात् कर्मोदयोदीरणवशाद् अनादित्वात्
तत्प्रबन्धस्य बीजाकुरप्रबन्धवत् इति । यद्वा, तत्र आदिशब्देन इष्टस्थानसंक्रमणादिपरिग्रहः, न मिथ्यादर्शनादेः तत्र विवादस्य *"मिथ्याज्ञानं विसंवादादप्रमाणम्" [सिद्धिवि० ४।२] इत्यादिना निराकृतत्वात् । तदेव अत्र पुनरपि दृष्टान्तार्थमुपदर्शयितुम् 'उदयोदीरण' इत्यादि
कां कारिकामाह । इदमत्र तात्पर्यम्-यथा मूषिकालर्कविषादि स्वकालादिसामग्री सत्तवा [सत्त्वे २५ फलवत् तथा] उदयोदीरणवशात् [२२२क] मिथ्यात्वं किञ्चिद् उपलभ्य आगन्तुकम् अक्षणिक
त्वादिमिथ्यात्वं तादृशादेव कारणादिष्यते तथा आगन्तुकसुखादिविकल्पोऽपि इति । उदये उदीरणे च सति । केषाम् ? इत्याह-दृष्टि इत्यादि । तद्वरुवि (तत्त्वरुचि) ज्ञानप्रतिबन्धकर्मणाम् । किं स्यात् ? इत्याह-मिथ्यादृष्टिधियो मिथ्यारुचि-मिथ्याज्ञाने 'स्याताम्' इति
शेषः। [किं] सर्वदा इति चेत् ; अत्राह-कर्म इत्यादि । यदा काश्चित् कर्मप्रकृतयः क्षयोपश३० मवत्यो भवन्ति तदा आत्मनो विषयग्रहणाभिमुख्यम् , अन्यथा मत्तमूछितवत् तैदयोगात् , तदापि कासाश्चिद् उदयादिभावे मिथ्यारुच्यादिकमिति, यथा विषाद्युपयोगे मूच्छितस्य ।
(१) षष्ठीसमासः । (२) कर्मोदय-मिथ्यात्वादिसन्तानस्य । (३) ज्ञानोद्भवायोगात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org