________________
४।१०] कर्मफलप्रकारः
२६९ अत्रापरः प्राह-यथा एकस्वभावेन कारणम् आत्मनि नानासामर्थ्य बिभर्ति, तथा तेनैव नानाकार्यं कुर्यादिति, इतरथा अनवस्था इति; तन्न; जैनस्य समयाऽपरिज्ञानात् । न खलु जैनस्य 'किञ्चित् केनचित् स्वभावेन तत्सामर्थ्य बिभर्ति' इति मतम् , अपि तु स्वकारणात् तदात्मकत्पद्यते संशयेतरस्वभावज्ञानवदिति ।
तदेतेन यदुक्तं केनचित्-*"रूपादिवद् धर्माऽधर्मसंस्काराणाम् आधारव्यापकत्वम्" ५ इति; तन्निरस्तम् ; सर्वत्र सर्वदा तत्कार्योदयप्रसङ्गात् , मोक्षाभावप्रसङ्गात् धर्माद्यभावरूपत्वात्तस्यै । तत्र तदभावे नाधारव्यापकत्वं तेषाम्'; मोक्षे तद्रहितस्य आत्मनो भावात् । कथं वा तत्र तँदभावोऽवसीयते ? तत्कार्यशरीराद्यभावात् ; किं पुनः 'कार्याऽभावात् कारणाभावगतिः' इत्येकान्तः ? तथा चेत् ; कथं सर्वत्र धर्मादिगतिः यतः सर्वगतात्मव्यापकत्वं सर्वत्र तत्कार्याभावात् । अदर्शनात् सत्कार्याभावात् तत्र तत्कार्याभावो न धर्माद्यभावात् इति नोत्तरम् ; १० मोक्षेऽपि तथा प्रसङ्गात् ।
किं च, आत्ममनःसंयोगः स्वाधाराव्यापकोऽपि चेत् सर्वत्र सर्वदा आत्मनि धर्मादिकं जनयति; धर्मादिः तथा स्वाधाराऽव्यापकोऽपि सर्वत्र कार्य करोति इति किं तद्वथापकत्वकल्पनया ? इति यत्किञ्चिदेतत् ।
ननु न सर्वत्र सर्वं तत्कार्यं कालादिसामग्रीवैकल्यात् [२२१क तद्भावे तु भवत्येवेति १५ चेत् ; अत्राह-कालादि इत्यादि । काल आदिर्येषां ते देशद्रव्यविशेषादीनां ते तथोक्ताः तेषां । सामग्री तः [ते"] एव विशिष्टपरिणामोपेता" न पुनः तेभ्योऽन्यैवे, तस्या एव कार्योदयः (य) प्रसङ्गात्। भिन्नायाश्च तत्सम्बन्धाऽयोगात् समवायनिषेधात्। उपकार्योपकारकभावकल्पने सामग्रीवत् त एव कार्यमुपकुर्वन्तु। पुनरपि तदन्तरकल्पने अनवस्था स्यात् । तस्याःसन्निधौ सन्निधाने अङ्गीक्रियमाणे उदय-उदीरणवशात् फलविकल्पः स्यात् । कर्मणां तत्कृतोपकाराभावे २० तत्सन्निधानवैयर्थ्यमिति मन्यते । यदि वा, तत्सन्निधौ फलविकल्पः स्यात् , तस्मिन् सत्येव भावात् , कर्मसु तेषु सत्स्वपि पूर्वमभावात् इति व्याख्येयम् । 'पुनः बन्धसन्ततौ फलविकल्पः स्यात्' इत्यनेन दृश्यादेव सेवादेः तद्विकल्पन (ल्प) निराकरोति 'समानसेवादीनामपि” कस्यचिद् अचिराद् अपरस्य चिरात् फलम् अन्यस्य चिरादपि फलं न' इति फलविकल्पस्य दर्शनात् । न च समाने कारणे फलवैचित्र्यम् ; अतत्फलत्वप्रसङ्गात् । नहि शुक्लपद्मबीजेभ्यः २५ शुक्लाऽशुक्लपद्मसंभवः।
एतेन दृश्यभूतविशेषात् तत्संभवोऽपास्तः; परिस्राव्यस्फटिकभाजने व्यवस्थापितादपि जलात् नानाजन्तुजन्मोपलम्भात् । तत्र सूक्ष्मादृश्यभूतविशेषकल्पनं कर्मवादान्न विशेष्येत ।
(१) शास्त्र । (२) यथा संशयज्ञानं स्थाण्यादावर्थे संशयरूपमपि स्वरूप असंशयात्मकं भवति तथा । (३) मोक्षस्य । (४) धर्मादीनाम् । (५) धर्मादिशून्यस्य आत्मनः सद्भावात् । (६) मोक्षे। (७) धर्मादीनामभावः । (6) कार्याणि सन्त्यपि न दृश्यन्ते । (९) आत्मव्यापकत्व । (१०) कालादयः । (११) सामग्री । (१२) भिन्नैव । (१३) सामग्र्याः । (१४) कालादिकारण । (१५) सामग्री-कारणयोः। (१६) कालादयः । (१७) पुरुषाणाम् । (१८) फलविकल्पः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org