________________
२६८ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः स्याद भवेत् । किं लक्षणः ? इत्याह-सुख इत्यादि । तत्र आदिशब्देन इष्टानिष्टशरीरादिपरिग्रहः । कस्मिन् सति स्यात् ? इत्याह- बन्धसहितौ (सन्ततौ) इति । जीवकर्मणोः संयोगविशेषः न समवायः चेतने समवायविरोधात् बन्धः तस्य सन्ततिः आफलावाप्तः
सन्तानेन समवस्थानम् । एतदुक्तं भवति-यदि क्रोधादिभ्यः आत्मसम्बन्धसन्तत्या प्राप्तफलकालं ५ किञ्चिन्न स्यात् कुतो जन्मान्तरे फलविकल्पः ? क्रोधादेश्व जन्मकाल एव विलयात् । न ततः क्षणिकैकान्ते सन्ताननिषेधात् से युक्तः ।
एतेन *"श्वेतं छागमालभेत स्वर्गकामः" इति वचनात् [न] मनोवाकायकर्मभ्यः फलविकल्पः इति निरस्तम् ; ;व्यादीनाम् इँटिकालादावेव विनाशात् । तत्प्रवाह (ह)स्थितौ
वरं तेभ्यः समुत्पन्नकर्मणां तत्स्थितिरस्तु विरोधाऽभावात् , न द्रव्यादीनां विपर्ययात् , ऐहिकफल१० कालेऽपि [२२०क] तत्सन्ततेरप्रतिपत्तेरिति । तस्यां सत्याम् कथं कुतः स स्यात् ? इत्यत्राह
यथास्वम् इत्यादि । यस्य कर्मणो स (य) उदयः फलोपजन[न] सामर्थ्यपरिपाकः यथाकालम् , उदीरणम् अपक्कपरिपाचनं तस्य अनतिक्रमेण यथास्वम् इति । तयोर्ध्वसा सामर्थात् स्वस्यात् (तपसः सामर्थ्यात् तत्स्यात् ।) अत्रायमभिप्राय:-यदि स्वेन स्वभावेन प्रथममुत्पन्नं शुभमशुभं
वा कर्म तेनैव कालान्तरे स्थितमपि फलं जनयेत् , तदुत्पत्तिसमय एव तत्स्यात् । नहि कारणावैकल्ये १५ फलवैकल्यम् , अतत्कार्यत्वप्रसङ्गात् ।
स्यान्मतम्-इत्थंभूत एव असौ स्वभावः यत् कालान्तरे कार्यम् । दृश्यते हि मन्त्रसन्त्रादीनां स्वदेशे समर्थानां देशान्तरे कार्यकरणमिति; तन्न युक्तम् ; तत्कार्याणां कालान्तरेऽपि सहभावप्रसङ्गात् । तथा च अस्य उत्पद्यते इदं कर्म इति योगिनोऽपि न बुद्धिः । न चपरस्य अकारणं विषयः *"अर्थवत् अर्थसहकारि प्रमाणम्" इति वचनात् । 'योगिनः अकारणमपि विषयः' २० इत्यपि वार्तम् ; अन्यस्यापि तथासंभावनाप्रसङ्गात् *"यस्य यावती मात्रा" [प्र. वार्तिकाल. पृ० २२३] इतु (इति) न्यायात् ।।
ननु ईश्वरज्ञानं नित्यमपि अर्थग्राहकम् , तथा नित्यमस्तु, अन्यथा अनीश्वरयोगिनो ज्ञानं क[थ]मर्थग्राहकम् ? तत्कार्यत्वात् ; कथमेकस्माद् एकस्वभावात् कर्मणः अन्यतो वा क्रमभावि
कार्यद्वयम् ? तथा स्वभावादिति चेत् ; स स्वभावः कारणस्य, कार्यस्य वा भवेत् ? न तावत् २५ कारणस्य; एकस्वभावत्वात् । नहि य एव पूर्वकार्ये स एव अन्यत्र तद्वयापारो युक्तः, कार्य
कालभेदाऽभावप्रसङ्गात् । नापि कार्यस्य; उत्पन्न-अनुत्पन्नविकल्पद्वये तदयोगात् । नाऽनुत्पन्नस्य; खरविषाणवत् । नाप्युत्पन्नस्य; अन्योऽन्यसंश्रयात्- उत्पन्नस्य [२२०ख तत्स्वभावता, तस्यां च तथोत्पत्तिः इति ।
ननु यथा एकस्माद् एकस्वभावाच्च युगपद् देशभिन्न कार्य तथा क्रमेण कालभिन्नमिति ३० चेत् ; भवतु सौगतस्य न जैनस्य, तस्य सर्वदा कारणस्वभावभेदादेव कार्यभेदभावात् ।
(१) एकक्षेत्रावगाहे सत्यन्योऽन्यानुप्रवेशलक्षणः । (२) फलविकल्पः । (३) द्रव्यगुणक्रियादीनाम् । (४) यज्ञकाल एव । (५) द्रव्यादिभ्यः । (६) प्रवाहस्थितिः। (७) फलम् । (८) नैयायिकादेः । (९) "न ह्यकारणं प्रतीतिविषयः"-हेतुबि०टी० पृ. ८०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org