________________
४।१० कर्मफलप्रकारः
२६७ 'पुण्यम्' इति । तथा च प्रयोगः तेषाम्-आगन्तुकविवादगोचरापन्नं सुखादिकं तत्संयुक्तविषादिकारणसमान कारणप्रभवम् आगन्तुके सति तत्परिणामत्वात् प्रसिद्धमिथ्याज्ञानवत् ।
इदमपि तु सुभाषितम्-'पुण्यपापबन्धो जीवानाम् इत्यत्र न कश्चिद् विप्रतिपत्तुमहति' इति । तथैव 'तेषां तद्वन्धः मनोवाकायकर्मभिः आस्रवैः शुभाशुभैः इत्यत्र न कश्चिद् विप्रतिपत्तमर्हति' इति । तथाहि-विषादौ स्वपरात्मनोः अहिते हितबुद्धिः मिथ्याज्ञानतः, तत- ५ स्तत्र अविरतिः अत (अविरत) लक्षणा, ततोऽपि प्रमाणे (मादो) हितेतरविषयं मनसोऽप्रणिधानम् , तस्माच्च लोभः तदादातुं मनोवाकायव्यापारः, ततस्तदानम् (तदादानम्) आत्मनस्तेने संयोगः, तेन पुनः अपरं मिथ्याज्ञानम्, एवं परत्रापि वक्तव्यम् । तथा तत्रैव मिथ्याज्ञानात् क्रोधादयः तद्वयापारः तदुपादानं मिथ्यात्म (थ्यामा) नादिकमिति व्याख्यातव्यम् । तद्वद् विशिष्टौषधादौ सम्यग्ज्ञानादेः तदुपादाने सुखादिकं व्याख्यातव्यम् । तदेवं सिद्धायां व्याप्तौ पुण्यपापबन्धोऽनु-१० मितोऽतो भवति इत्यनुमीयते, आज्ञादि (अज्ञानादि) मिथ्याज्ञानादिकं च [त]त्कारणमित्यपि । न च कारणात् कार्यानुमानमयुक्तम् , अन्यथा दृश्यानुपलब्धिः असद्व्यवहारसाधनम् अनिरूपितमेव स्यात् , तस्याः तत्कारणत्वोपगमात् । योग्यतानुमानेऽपि प्रतिबन्धवैकल्यसंभवाशङ्कया कथं निःशकं तदनुमानं तन्दुलादेः ओदनाद्यनुमानवत् । अत्र कारण[२१९ख] विशेषकल्पनायाम् अन्यत् समानम् । तदुक्तम् -
*"एषोऽहं मम कर्म शर्म हरते तद्वन्धनान्यास्रवैः, ते क्रोधादिवशाः प्रमादजनिताः क्रोधादयः सो(ते)व्रतात् । मिथ्याज्ञानकृतात्ततोऽस्मि सततं सम्यक् (क्त्ववान्) सव्रतो दक्षः क्षीणकषाययोगतपसां कर्तेति मुक्तो यतिः॥"
___ [यश० उ०पृ० २४६] इति । ० तनुक्तोवादिभ्य ( तत्र क्रोधादिभ्य ) एव हीनसंस्थानसंक्रान्तित्वं तेभ्योऽन्यददृष्टं तत्कारणं जायते अत (तथा) दर्शनात् इति । तदुक्तम्
*"दुःखे विपर्यासमतिः तृष्णा च बन्धकारणम् ।
शणिनो यस्य ते न स्तः न स जन्माधिगच्छति ॥" [प्र० वा० ११८३] इति । चैव (?) पुनर्बन्ध इत्यादि ।
[पुनः फलविकल्पः स्यात् सुखदुःखादिलक्षणः।
यथास्वं कालादिसामग्रीसन्निधौ बन्धसन्ततौ ॥१०॥ मूषिकालर्कविषविकारवत् ।] पुनः तेषां पुण्यपापबन्धात् पश्चात् कालान्तर इत्यर्थः । फलविकल्पः तद्वच्च कार्यभेदः
(१) अचेतनकर्मबन्धः । (२) कर्मणा । (३) अनुमीयते इति सम्बन्धः। (४) असद्व्यवहारकारण । (५) “अस्त्यात्मास्तमितादिबन्धनगतः तद्वन्धनान्यास्रवैः । ते क्रोधादिकृताः प्रमादजनिताः क्रोधादयस्तेऽव्रतात् ॥ मिथ्यात्वोपचितात् स एव समलः कालादिलब्धौ क्वचित् । सम्यक्त्वव्रतदक्षताकलुषतायोगैः क्रमान्मुच्यते ॥"-आत्मानु० श्लो० २४१ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org