________________
२६६
सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः साधनात साध्यसिद्धिरसन्दिग्धा उपजायते अतिप्रसङ्गात् । सन्दिग्धेऽर्थे सति को दोषः ? किं तेन व्यवहारानुपयोगिना समाश्रितेन इति ? किं पुनस्तत्त्वम् , यत् तत्परिहारेण समाश्रयणीयं स्यात् ? स्वसंवेदनमात्रमिति चेत् ; ननु च प्रतिभासादिना तदपि सिध्यति, स च अभ्युपगमेन व्यभिचारीकृत इति न किञ्चिदेतत् । अथात्र विशेषोऽभ्युपगम्यते परेण ; अन्यत्रापि सोऽभ्युप५ गम्यते इति । न च अन्यस्य व्यभिचारे अन्यस्य व्यभिचारः अतिप्रसङ्गात् । तदुक्तम्
*"इन्द्रजालादिषु भ्रान्तिमीरयन्ति न चापरम् । .. अपि चाण्डालगोपालबाललोलविलोचनाः ॥" [न्यायवि ० इलो० ५१] इति ।
नन्वेवं बहिरर्थसाधनं प्रकृति (तं) चेत् ; उच्यते-यथा बहिरर्थग्रहणानुबन्धमजहत एव ज्ञानस्य स्वग्रहणव्यापारः, स्वग्रहणानुबन्धं चाऽजहतो देशभिन्नार्थग्रहणव्यापारः, तथा कारण१० ग्रहणानुबन्धमजहत एव कालभिन्नकार्यग्रहणसिद्धेः कार्यकारणभावः पारमार्थिकः सिध्यति, 'तत्सिद्धेश्च यथा कचिद् धूमदर्शनादग्नेः सिद्धिः तथा क्वचिद् वागुपलम्भात् चैतन्यसिद्धिः इति [२१८ ख] यदुक्तम्-*"वाग्बुद्ध्योः प्रमाणाभावेन कार्यकारणभावाऽसिद्धेन वाचो बुद्ध्यनुमानम्" इति ; तन्निरस्तम्।
तत्त्वे (नन्वे)कदा बुद्धर्वाचो दर्शनेऽपि न सर्वत्र सर्वदा तत एव, सालूकात् सालूकस्य १५ दर्शनेऽपि पुनः गोमयादपि तद्दर्शनेन व्यभिचाराशङ्काऽनिवृत्तेः तत्रापि, तं (तत्) कथं वाचो
बुद्ध्यनुमानम् इत्येके ; ते चार्वाकादपि पापीयांसः ; स्वयमेव 'यादृशाद् यादृशमुपलब्धम् , अन्यदापि तादृशादेव तादृशभावम्' अभ्युपगम्य पुनः अन्य[थाभिधानात् । कथं चैवं वादिनां सर्व ज्ञानं स्वाग्राहिमा (स्वग्रा हि न) पुनः परग्राह्यता इति सिध्यति यतो मीमांसकादिनिवृत्तिः स्यात् । नहि प्रत्यक्षमियतो व्यापारान् कर्तुं समर्थम् , अविषये स्वयमवृत्तेः, एक २० वाक्य (एकं च तद) द्वैतनिषेधात् । अथ यत् स्वग्राहि न भवति तज् ज्ञानमेव न भवति । कुत
एतत् ? स्वग्रहणात् तल्लक्षणान्तराभावात् इति । तदपि कुतः ? तथादर्शनात् । नन्वेकत्र तथादर्शने सर्वत्र तथाभावः कथंभूतस्य वृक्षस्य (कथमभूत् ? प्रत्यक्षस्य) स्वभावस्य एकदा दर्शनेऽपि स्वभावातिक्रमाऽनिवृत्त । एवं सत्यपि ज्ञानं स्वस्वभावं कदाचनापि न जहाति, कार्यं तु कारणं
जहाति इति प्रचण्डनृपतिचेष्टितम् ! ततः साधूक्तम्-'जीवानाम् इत्यत्र न कश्चिद् विप्रत्ति२५ पत्तुमर्हति' इति ।
_ 'पुण्यपापबन्ध' इत्यत्रापि न कश्चिद् विप्रतिपत्तुमर्हति । तद्यथा, तेषां यथावस्थितस्वपरप्रकाशनस्वभावत्वेना प्रकृत्याशुभामुरीणम् आमंतुके (त्वेन प्रकृत्या भास्वराणाम् आगन्तुक) मिथ्याज्ञानं विषादिभ्यः समुपलभ्य आगन्तुकं सुखादिकमपि तथाविधकारणप्रभवम् इत्यनु
[मातुमर्हन्तु परीक्षकाः [२१९क] इतरथा धूमादेः अग्न्यादि कथमनुमीयते ? एतावांस्तु विशेषः३० यतो मिथ्याज्ञानादिकं विवादास्पदीभूतं भवति तत् 'पापम्' इत्याख्यायते, यतः सुखादिकं तत्
(6) कार्यकारणभावसिद्धश्च । (२) बुद्धि । (३) व्यभिचारशङ्काप्रदर्शनात् । (४) ज्ञानं परेण ग्राह्यमिति । (५) कथं चैवं वादिनां सर्व ज्ञानम् एकं च सिध्यति तदद्वैतनिषेधात् इति सम्बन्धः । (६) स्वभावातिक्रमस्य आशङ्का स्यादिति भावः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org