________________
४९] प्रतिभासाद्वैतनिरासः
२६५ न पुनः साध्यधर्मिणि हेतोः इति कोऽयं नियोगः ? यदि वा प्रतिपाद्येच्छामात्रसिद्ध साध्यमादाय दृष्टान्ते तेन हेतोः व्याप्तिरिष्यते ; तर्हि 'अस्वेच्छा (अन्येच्छा) मात्रसिद्धमादाय सा किन्नेष्यते ? अप्रमाणभूतयोः स्वपरेच्छयोरविशेषात् । तथाभ्युपगमे को दोष इति चेत् ; न कश्चित् ; केवलं साध्यवत् साधनस्यापि स्वेच्छाकल्पितस्य अभिमतसाध्येन व्याप्तिभावात् *"स्वदृष्टार्थप्रकाशकं परार्थमनुमानम्" इत्यत्र अर्थग्रहणमनर्थकम् । तन्न स्वपरेच्छामात्रसिद्धेन साध्येन ५ हेतोर्व्याप्तिसिद्धिरिति कथन्न निरन्वयादिदोष इति चेत् ? अत एव, पक्षीकृतेऽपि तदभावसिद्धेः हेतोः आनर्थक्यम् । न च प्रतीतस्य अनर्थकविकल्पितनिरासः अतिप्रसङ्गात् । विकल्पस्यास्य तदतद्विषयत्वे तदयोगात् सकलशुन्यतानुकूलत्वाच्च । [२१७ ख] अथ जाग्रत्प्रत्ययो बाधक इष्यते, यतस्तस्मिन् सति परमार्थसन्न भवति स्वप्नघटादिकम् , अपि तु तथा असदपि सत्त्वेन मिथ्या वितर्कितमिति व्यवहारप्रवृत्तेरिति चेत् ; न ; परेण तस्य तद्वाधकत्वाऽनभ्युपगमात् । १० अभ्युपगमेऽपि जाग्रत्स्तम्भादौ तदभावान्न परमार्थसत्त्वाभावः स्यात् । भवतु वा कथञ्चित् तरे (तत्र) तदभावो नैतावता सर्वत्र तत्सिद्धिः, विपक्षे सद्भावबाधकप्रमाणाभावे सन्दिग्धविपक्षव्यावृत्तिकत्वेन अनैकान्तिकत्वात् । नहि परमार्थसद्दर्शनमार्गावतारित्वं केन विज्ञानं तश्चिद् (केनचिज्ज्ञातं कुतश्चिद्) बाध्यमानं दृष्टं सर्वज्ञे वक्तृत्वादिवत् ; तथा सतः कस्यचित्तिद]दर्शनात् । तथापि तत्र तदभावसाधने न वक्तृत्वादीनां (नाम)गमकत्वमिति मीमांसकं प्रति १५ विद्वषो निर्निबन्धनः । दर्शने वा हेतोर्व्यभिचारः कथं परिहतः स्यात् ? सुतपव न (नच) विरोधोऽपि साक्षात् तत्र तद्भावं बाधते, अदृष्टेन हेतोः विरोधद्वयासिद्धः।
ननु परमार्थसत्त्वविरोधी तदभावः, तेन व्याप्तो हेतुः, अतः परम्परापाया (परम्परया) विरोध इति चेत् ; यदि कचित् तयोः सहभावदर्शनात् तेन तद्व्याप्तिः, कार्यत्वस्य बुद्धिमत्कारणत्वेन व्याप्तिः, क्वचित् सहभावदर्शनस्य अत्रापि भावात् । “विपक्षे बाधकम् अन्यत्रापि २० दुर्लभम् । भवतु वा विपक्षात् कथञ्चिदस्य व्यावृत्तिः, तथापि विशददर्शनगम्यत्वेऽपि परमार्थसत्त्वे हेतोः व्यभिचारापरिहारः । ततो यत्किञ्चिदेतत् ।। ____ ननु न बौद्धन क्वचित् किश्चित् साध्यते निषिध्यते वा तत्कुतः", केवलं यो व्यवहारी प्रतिभासादिना जाग्रत्स्तम्भादीनां [२१८क] परमार्थत्वं] साधयति शतेन (स तेन) स्वप्नादौ तव्यभिचारेण तदभ्युपगतेन निरान्त (राक्रि) यते, तेन तत्र परमार्थसत्त्वाभावाभ्युपगमात् इत्येके। २५ तत्र किं पुरुषाभ्युपगमादप्रमाणकात् साधनं व्यभिचारि भवति ? तथा चेत् ; सत्त्वादि सर्वमनैकान्तिकं तद्वत् स्यात् , प्रतिपाद्येन अनित्यघटादिवत् नित्ये गगनादौ तदङ्गीकरणात् । यदि च प्रतिभासादिः अनैकान्तिकः ततः किं बहिरर्थपरमार्थसिद्धिः ? [न हिं] सन्दिग्धव्यभिचारिणः
(१) न स्वेच्छा अस्वेच्छा, अन्येच्छा इत्यर्थः । (२) विशेषाभावात् । (३) “तत्र परार्थानुमान स्वदृष्टार्थप्रकाशनमित्याचा यलक्षणम् ।"-प्र. वा० मनो० ४।। "तत्र परार्थानुमानं तु स्वदृष्टार्थप्रकाशनम्"-प्र. वार्तिकाल. पृ० ४६७ । (४) प्रतिभासाद्वैतवादिना । (५) जाग्रत्प्रत्ययस्य । (६) बाधकाभावात्। (७) अदर्शनमात्रेण । (८) स्यात् । (९) घटादौ । (१०) यथा कार्यत्वहेतोः विपक्षे बाधकं दुर्लभम् तथा अन्यत्रापि विशददर्शनगम्यत्वेऽपि हेतौ दुर्लभम् । (११) एते दोषाः । (१२) सत्त्वस्वीकारात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org