________________
२६४
सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः *"सर्वमालम्बने, न स्वरूपे भ्रान्तम्" [प्र. वार्तिकाल० पृ० २८०] इति किमेवम[न]र्थकं न स्यात् ? अपि च, स्वप्नेतरयोः ततः परमार्थसिद्धौ मम प्रमाणतदाभासप्रणयनं वैकत्रस्य (न विफलं), सौगतस्य पुनः सकलं दर्शनं विज्ञप्तिमात्राऽसिद्ध इत्यहो तस्य परदूषणकौशलम् !
___ अपरेषां दर्शनम्-स्वप्नवद् अन्यदापि सत्येतरप्रविभागवियोग इति ; तेषामपि न विज्ञप्ति५ मात्रं प्रसिध्यति, ज्ञप्तरिव सकलविकल्पातीतस्यापि सिद्ध दर्शनान्तरानुषङ्गात् । किं तेन तादृशा सिद्धनेति चेत् ? किं ज्ञप्त्या ? न च अस्मिन्नेकान्ते न कस्यचित् सकलविकल्पातीतता क्षणिकैकान्तो वा सिध्यतीत्युक्तप्रायम् । भेदवद् अभेदस्यापि बहिरन्तश्च प्रतीतेः कुण्डलादिषु सर्पवत् । न चेयं प्रतीतिः कल्पितरूपा ; 'सः' इति प्रती (अती) तोल्लेखः 'अयम्' इति वर्तमान इति
विकल्पयतोऽपि अनिवृत्तः, अ[श्वं] विकल्पयतोऽपि गोबुद्धिवत् । तथा विकल्पयतः सकल. १० शून्यतापि उक्ता । [न त ]देकान्ते परेण बाध इष्यते यतो निर्विषयत्वं स्यात् स्वप्नज्ञानेऽपि तथानुषङ्गेन तदेकान्तहानेः । कुत इयं प्रतीतिरिति चेत् ? भेदप्रतीतिवत् चक्षुरादेः इति । क्रमः
अपरापरतद्वयापाराद् अपरविशेषश्च उपवर्णितः । केवलं पूर्वोत्तरपर्याय[२१६ख]स्मरणदर्शनाभ्यां ‘स एवायम्' इति प्रत्यवमर्शोऽन्यो जन्यते, यतः अपरपरिणामेषु तिष्ठतः पूर्वपर्याय
स्थिता व्यवसीयते । न च इन्द्रियज्ञानमेव सविषयम् ; सर्वस्य स्वप्रतिभासिना विषयेण सविष१५ यत्वात् । तदेकान्ते पुनः विशेषतः । एतेन कार्यकारणभावप्रतीतिरपि निरूपिता; 'इदमस्मा
जातम्' इति अविगानेन प्रतीतेः । तन्न सर्वज्ञानानाम् विशेषकल्पना परस्य श्रेयसी । ____ यत्पुनरेतत्-'यद् विशददर्शनमार्गावतारि न तत् परमार्थसत् यथा स्वप्नोपलब्धं मतङ्गजादिकम् , विशददर्शनमार्गावतारि च जाग्रद्दशादर्शनदृष्टस्तम्भादिकम्' इति ; तत्रापि दृष्टान्ते
कुतः परमार्थसत्त्वाभावः प्राप्तः यतस्तेन विशददर्शनमार्गावतारित्वस्य अन्यस्य वा हेतोः व्याप्तिः २०. सिध्येत् ? अप्रतिपन्नेन सात्मकत्वेनेव प्राणादेः आत्मना इव संहृतत्वादेः (संहतत्वादेः) कस्य
चिद् व्याप्त थसिद्धः । प्रतिपन्ने इति चेत् ; यदि विशददर्शनात् परमार्थसत् ; कथं हेतुः अव्यभिचारी, अनेन व्यभिचारात् १ अपरमार्थसन् (त) चेत् ; बहिरर्थवत् न तत्सिद्धिरिति स एव दोषःन तेन कस्यचिद् व्याप्तिः इति । एतेन अनुमानादपि तत्प्रतिपन्नता प्रत्युक्ता ; तत्रापि अपरनिदर्श
नान्वेषणे अनवस्था । जाग्रदृष्टस्तम्भादि निदर्शनमिति चेत् ; अन्योऽन्यसंश्रयः-सिद्ध हि स्वप्न२५ दृष्टमतङ्गजादेः परमार्थसत्त्वाभावे ततो जाग्रद्दशोपलब्धस्तम्भादेश्च तत्सिद्धिः, अतश्च तत्सिद्धिः
इति । यदि पुनः प्रतिपाद्यन स्वप्नदृष्टस्य घटादेः परमार्थसत्त्वाभावेऽपि उपगमात् [२१७क] तेन हेतोः व्याप्तिसिद्ध, न हेतोः निरन्वयदोषः, दृष्टान्तस्य वा साध्यविकलता सन्दिग्धधर्मता वा ; तथा सति सांख्योऽपि 'अचेतनाः सुखादयः अनित्योत्पत्तिमत्त्वात् घटादिवत्' इति वदन किमिति धर्म की र्ति ना स्व (स्वयं) ग्रहणं व्याचक्षाणेन अकारणमेव निरस्तः ? प्रतिपाद्यन सौगतेन ३० लोकेन वा तत्र [अ]नित्योत्पत्तिमत्त्वादेः अङ्गीकरणात् । प्रतिपाद्यवशेन च दृष्टान्ते साध्यसिद्धिः
(१) द्रष्टव्यम्-पृ० ६४ टि० ५ । (२) सांशम् न निरंशम् । (३) अभेदप्रतीतिः । (४) चक्षुरादिव्यापारात् । (५) परार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवत् इत्यादेः। (६) दृष्टान्तं प्रतिपन्नम् । (७)सिध्येत् । (७) पक्षलक्षणे उपात्तं स्वयं शब्दं । (८) द्रष्टव्यम्-प्र. वा० ४।३०। (९) घटादौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org