________________
४९ ]
प्रतिभासाद्वैतनिरासः
२६३
'महं वे' इति स्वप्नेऽपि न स्याद् अविषये तदवृत्तेः । नहि नीलदर्शी 'पीतमहं वेद्मि' इति
कदाचिद् व्यवहरति ।
यत्पुनरुक्तम्- 'नीलमेव शब्दः (बुद्ध) कुतो न ग्राहकम्' इति ; तदपि तथा सुप्रतीत्या परिहृतम् । 'परस्यापि नीलाकारं ज्ञानम् 'आत्मवत् पीताकारज्ञानस्य ग्राहकं तद्वद् आत्मनो वा अग्राहकं न स्यात् । आत्मनो ग्राहकत्वेन अन्यस्य अंग्राहकत्वेन प्रतीतेरिति चेत्; अहमह - ५ मिकया बुद्धेः प्रतीयमानायाः स्वपरग्राहकत्वेन नीलादेश्च तद्ग्राह्यत्वेन प्रतीतिरिति समः समाधिः ।
यत्पुनरेतत्-न नीलादिस्वरूपव्यतिरेकेण ग्राह्यता प्रतिभाति, स्वरूपं च यथा बुद्ध्यपेक्षया [२१५ ख] नीलस्य तथा तदपेक्षया बुद्धेरपि इति ; तदपि न सारम् ; यतः सर्वभावानामन्योऽन्यं स्वरूपभेदात् । नहि एकस्य स्वरूपं [ अन्यस्य ] ; सर्वस्य एक [त्व ] प्रसङ्गात् । तथा १० चबुद्धे ग्राहकं च स्वरूपम् नीलादेः, ग्राह्यमेव, तथाप्रतीतेरिति । इतरथा यया योग्यतया नीलकारम् आत्मसात्करोति नीलज्ञानं तया पीतज्ञानं तमात्मसात्कुर्यात् । अत एव न धिया “तस्य गृहीतिः काचित् क्रियते, अपि तु स्वरूपमेव गृह्यते, यथा कारणेन कार्यस्य स्वरूपं जन्यते । कथञ्चैवंवादिनाम् आत्मनोऽपि बुद्धिग्रहिका ? गृहीतिकरणात् ; प्रसङ्गः पूर्ववत् । अथ तस्य सा ग्राहिका किन्तु स्वयं प्रकाशते ; न; 'स्वयम् आत्मानं गृह्णाति' इति नाममात्रभेदात्, नीलं १५ वा न गृह्णाति किन्तु 'प्रकाशयति' इत्यपि स्यात् ।
यच्चाप्युक्तम्-न समसमयस्य इतरस्य वा ग्राहिका इति ; तत् सर्वगम् ; तथाहि - ज्ञानम् आत्मनि नीलाद्याकारं वित्समकालम् इतरं वा विभर्त्ति इति सर्वं वाच्यम् । 'यथादर्शनमपि ' ; अन्यत्राप्युक्तम् ।
'नंनु च नीलमहं वेद्मि' इति प्रतीति: स्वप्नेऽपि ; ततः किम् ? तत्रेव जाग्रदशायामपि २० नीलादिप्रतिभासः असदर्थः सिध्यति इति चेत्; न ; एकत्र तथाभावेन सर्वत्र तथाभावनियमासिद्ध ेः, इतरथा स्ववेदनेऽपि तथाभावसिद्ध : बहिरर्थवत् तदपि त्यागाङ्गं ततो बहिरर्थादिव साधनादिप्रयोजनासिद्धेः, इतरथा असत्प्रतिभासत्वाविशेषेऽपि तदङ्गीकरणात्" "अर्धवैसस (वैशस) न्यायोऽनुष्ठितः स्यात् । ततो यथा प्रतिभासाविशेषेऽपि बहिरर्थप्रतिभा [ सोऽ] सदर्थ [२१६ क] इयते सौगतेन, न स्ववेदनप्रतिभासः, तथा परेण स्वप्नार्थप्रतिभासोऽसदर्थ इष्यते न जाग्र- २५ प्रतिभा [सः । ननु यथा जाग्रत्प्रतिभा ] सादेः स्तम्भादेः परमार्थसत्त्वं ततः स्वप्नेऽपि तत्तस्य भवेदिति भावे को दोषो बहिरर्थवादिनः ? प्रमाणतदाभासप्रणयनमनर्थकमिति चेत् ; सौगतस्यापि
93
(1) प्रतिभासाद्वैतवादिनः । (२) स्वरूपवत् । (३) पीताकारज्ञानवद्वा । ( ४ ) पीताकारज्ञानस्य । (५) नील पेक्षया । (६) नीलादेः । (७) आत्मन: । ( ८ ) स्वप्नदशायामिव । ( ९ ) स्ववेदनात् । (१०) स्ववेदनस्वीकारात् । (११) “ अर्धवेशन्यायः ॥ २५६ ॥ यथा कश्चिद्यवनः कुक्कुटीमांस भोजनकामः तत्सन्ततिकामश्च तद्ग्रीवादिकं छित्त्वा भुङ्क्ते उदरं च सन्तानार्थं स्थापयतीति यथा न संभवति तथा प्रकृतेऽपि । " - भु० लौकिकन्याय० पृ० १०४ । “न चार्धवैशसं युक्तं तत्त्वज्ञाने विवक्षिते । ... कुक्कुटादेरेको देशः प्रसवाय कल्पते पच्यते देशान्तरमित्यर्ध वैशसम्" - बृहदा० वा० टी० १|४|१२७६ । लौकिकन्या० द्वि० । (१२) जैनादिना । (१३) स्तम्भादेः सत्त्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org