________________
२६२ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः येनैव स्वभावेन कुतश्चित् जायते मध्यक्षणः तेनैव चेदपरस्य कारणम् ; पूर्वापरयोरैक्यम् । तदन्तरकल्पनायाम् आकल्पमनवस्थालता सौगतभूरुहमावेष्ट्य वर्तते । [२१४ ख] पूर्वोत्तरक्षणानभ्युपगमे च यथा अक्षणिकस्य अक्रमेण स्वकार्यकारिणो युगपत् सकलं स्वविषयं विज्ञान
मुत्पाद्य उपरतस्य द्वितीयादिक्षणा (ण) दर्शनाभावात् शून्यता तथा क्षणमात्रावलम्बिनो विज्ञानस्य ५ भवेत् न वेति सुधियः चिन्तयन्तु ? तदा च शून्यतायामपि यदि न परस्य अनिष्टं किञ्चिदापद्यते सर्वदा 'सैवास्तु । प्रत्यक्षादिविरोधः अन्यत्रापि समानः ।
किञ्च, *"स्वयं सैव प्रकाशते" [प्र० वा० २।३२५] इत्येतदपि एवं सति अयुक्त स्यात् , स्वग्रहणयोग्यतामन्तरेण जडार्थवत तदयोगात् । सापि स्वग्राह्यता योग्यतामपेक्षते, तत्र
च प्रकृतविकल्पद्वयवृत्तिः अवश्यंभाविनी यथोक्तदोषात् । तन्न प्रत्यक्षसिद्धं स्वपरावभासकत्वं १० चेतसां निर्विकल्पात् निराकर्तुं युक्तम् अतिप्रसङ्गात् ।
___ ननु न समकालस्य परस्य प्रकाशिका बुद्धिः अप्रतिबन्धात् , स्वतन्त्रयोः उभयोः प्रतिभासनात् , पर एव वा नीलादिः तत्प्रकाशकः स्यात् । अथ नीलादौ कर्मता प्रतीयते ततः स एतयां' प्रकाश्यते न तेन बुद्धिविपर्ययादिति ; तत्र (तन्न ;) यतो नीलाव्य (न नीलाद् व्य) तिरेकेण कर्मतादर्शनम् । तत्स्वरूपमेव कर्मतेति चेत् ; न ; बुद्धावपि तस्य भावात् । यदि पुनः १५ गृहीतिकरणाद् बुद्धिरेव तस्य ग्राहिका; तर्हि सी यदि ततो भिन्ना क्रियते 'गृहीतिः बुद्धिः नीलम्'
इति त्रितयं स्वतन्त्रमाभाति न किञ्चित् कस्यचिद् ग्राहकम् । गृहीत्यापि भिन्नस्य तदन्तरस्य करणे स एव दोषोऽनवस्था च, तेनापि तदन्तरस्य करणात् । न गृहीतिरपि बहिरर्थवत्ता (वद). गृहीताऽस्ति । तद्गृहीतौ च "अनुबद्धप्रसङ्गः, अनवस्था च तत्रापि अपरा परगृहीत्यपेक्षणात्।
अभिन्ना [२१५ क] चेत् ; नीलादिरेव "तया क्रियते इति प्राप्तम् ; तच्च न युक्तम् ; अन्यत २० एव"तस्य भावात् , कृतस्य करणायोगात् । "तया च क्रियमाणो नीलादिः उत्तरज्ञानवशतामेव
(वंशतामेव) स्यात् न अर्थः। अर्थोपादानत्वान्नेति चेत् ; न ; अर्थाग्रहणात् तदुपादानत्वासिद्धिः । ग्रहणे वा कथं न प्रकृतो दोषः अनवस्था चक्रकं भवेत् । अभिन्नायाः तत्रापि गृहीतेः करणे पुनः पुनस्तस्यैव प्रवृत्तेः । तन्न समसमयस्य समुष्या (शेमुष्या) परस्य ग्रहणम् ।
____एतेन भिन्नकालस्यापि "तया ग्रहणं स्वा (निवा)रितम् ; अविशेषात , सर्वातीतानागत२५ ग्रहणप्रसङ्गाच्च । तन्न भिन्नस्य केनचित् कस्यचिद् ग्रहणमिति न जीववत् कुड्यमिति चेत् ;
न; उक्तमत्र, अविकल्पेन प्रत्यक्ष (क्षेण) प्रतीयमानस्य बुद्धिनीलाद्योर्वेद्यवेदकभावस्य निराकर्तुमशक्तरिति । [न] च बुद्धिवत् नीलादेः प्रतिभासनम् अपराधीनं परं प्रति प्रसिद्धम् , अन्यथा
(१) शून्यतैवास्तु । (२) "नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुत्.ि.."-इति पूर्वाशः । (३) स्वप्रकाशायोगात् । (४) बुद्धिप्रकाशकः। (५) बुद्ध्या। (६) स्वस्वरू. पस्य । (७) नीलादेः। (८) गृहीतिः। (९) गृहीत्यन्तरस्य । (१०) अस्ति' इति वक्तुं शक्यते । (११) यः दोषप्रसङ्गः अर्थपक्षे अस्ति तस्य अनुबद्धत्वमन्त्रापि स्यात् । (१२) गृहीत्या । (१३) पूर्वनीलादेः । (१४) गृहीत्या । (१५) बुध्या। (१६) न चेतनस्य जीवस्य सिद्धिर्नापि कुड्यस्य अचेतनस्येति भावः । (१७) स्वाधीनम्, न पराधीनम् अपराधीनम्' इति व्युत्पत्तेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org