________________
२६१
४९]
आत्मनः कर्मबन्धः इत्यभिधानात् न बन्धफलभावः [२१३ख] पारमार्थिक इत्येकः । एवमन्येऽपि कुनया वक्तव्याः । तदेव (वं) विप्रतिपत्तिदर्शनात् कथमुच्यते-'किन्तु सर्वेषामविगीतोऽयम्' इति?
अत्र प्रतिविधीयते-'पुण्यपापबन्धो जीवानाम् इत्यत्र न कश्चिद् विप्रतिपत्तुमर्हति' इति वदतोऽयमभिप्रायः-सर्वाद्वैतनिषेधात् जीवबहुत्वसिद्धेः 'जीवानाम्' इत्यत्र न कश्चिद् विप्रतिपत्तु. मर्हति । कथं तत्प्रतिषेध इति चेत् ? उक्तमत्र, तथापि उच्यते किञ्चित्-विज्ञानलक्षणस्य अन्यस्य ५ वा अद्वैतस्य अदृष्टस्य कल्पने तथाविधानां परिणामिनामन्यथाभूतानां वा सन्तानान्तराणां' तथाकल्पनायां तस्याः पुरुषाधीनतया अनिवार्यत्वात् कथमद्वैतम् ? दृष्टस्य कल्पने; अन्यतो दर्शने अस्य सिद्धः परमार्थतो ग्राह्याभाव इति कथमद्वैतम् ? इतरथा ग्राह्यभेदवत् न ततस्तत्सिद्धिः ।
एतेन आगमात् तत्सिद्धिः प्रत्युक्ता । स्वतो दर्शनं वे (चेत् ;) ज्ञाने एतत् प्रतीयताम् । नहि अप्रमाणकं स्वदर्शनमन्यद्वा क्यध्यव (स्वव्यव )स्थाम् अर्हति, अतिप्रसङ्गात् । १० .. अथ मतम्-नीलाद्यात्मकमेव तदद्वैतम् , अन्यस्याप्रतिभासेनासत्त्वात् , नीलादेश्च स्वप्रतिभासात्मकत्वं सुखादिवत् प्रतिभासमानस्य सतोऽन्यग्राहकादर्शनादिति; तन्न युक्तम् ; यतः प्रतिभासवशेन तत्त्वव्यवस्थायां 'नीलमहं वेद्मि, पीतमहं वेद्मि' इति अहमहमिकया ज्ञानस्वरूपवत ततो भिन्नं नीलादिकं प्रतियत् प्रती[यते इति तथैव स्यात् , अन्यथा न कस्यचिद्वेदकमिति स्वग्रहणमिति दूरोत्सारितम् । प्रत्यक्षबाधनमुभयत्र । न चेदमत्र चोद्यम्-'एकस्वभावेन स्वपरयोः १५ ऐक्यम् । अनेकस्वभावेन; अनवस्था, तस्यापि पुनः अन्यस्वभावान्तरेण ग्रहणात् । [२१४क] न च ग्रहणस्वभावस्य ज्ञानस्य अगृहीतः स्वभावः; विरोधात्' इति । कथम् ? यस्माद् एकमेव (मेक) स्वभावमपि स्वपरो (रौ) प्रतियत् प्रतीयते तस्मात् तौ"प्रत्येति । नापि तयोरैक्यं तदप्रतीतेः, इतरथा नीलज्ञानं येन स्वभावेन पीताद्" व्यावर्तते तेनैव रक्ताद् व्यावृत्तौ "तयोरैक्यमिति महती चित्रांद्वैतता ! स्वभावान्तरकल्पने तदवस्था अनवस्था । शेषमत्र चिन्तितम् । भवेत् (भवतु) २० वा तदनेकस्वभावं तद्ग्राहकम्तथापि नानवस्था, तद्वतो ग्रहणेऽपि स्वभावभूताया अपि योग्यतायाः ग्रहणनियमाऽयोगात् । केवलं कार्यदर्शनात् तदात्मिका" अनुमीय[ते] व्यवहारो नेदानीं (वेदानी) प्रवर्त्यते । तद्वतो ग्रहणे तद्ग्रहणेऽपि नानवस्था ; तत्स्वभावात्मकस्य तथैव प्रतिभासनात् । मध्यादिता (भा)गात्मकनीलमन्या (नीलाद्या) कारज्ञानवत् । अस्यानभ्युपगमे कुतस्तदद्वैतमिति कथं जीवनानात्वनिराकरणमप्रमाणकं युक्तम् ? भावे वा तस्य प्रागभावप्रध्वंसाभावाऽनभ्युपगमे न २५ "पुरुषाद्वैताद् भेद इति सुस्थिता चित्राद्वैतता ! "तदभ्युपगमे वा कथं प्रकृतविकल्पद्वयनिवृत्तिः ? तथाहि-येन स्वभावेन प्राक् पश्चाञ्च तदसत् तेनैव स्वकाले सत् , स्वभावान्तरेण वा ? प्रथमपक्षे पूर्वं पश्चाच्च भावः स्वकालेऽपि भावात् , कार्यकारणभावप्रतिषेधो वा पूर्वोत्तरक्षणविशेषयोरेव तद्भावव्यपदेशात् । तदभावस्य विज्ञप्तिमात्रेऽपि उपगमाददोष इति चेत् ; कथमदोषः, यावता
(१) आत्मान्तराणाम् । (२) अदृष्ट । (३) कल्पनायाः । (४) अद्वैतस्य । (५) अद्वैतसिद्धिः । (६) स्वदर्शनम् । (७) नीलादेः प्रतिभासास्वीकारे। (८) वेदने । (९) स्वपरयोः। (१०) स्वपरौ । (११) पीतज्ञानात् । (१२) पीतज्ञान-रक्तज्ञानयोः। (१३) योग्यता। (१४) नित्यत्वापत्तिरिति भावः । (१५) प्रागभावप्रध्वंसाभावस्वीकारे । (१६) सद्भावः । (१७) कार्यकारणभाव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org