________________
२६०
सिद्धिविनिश्चयटीकायाम्
[ ४ जीवसिद्धिः
न प्रवर्त्तेरन् । यदेव च विप्रतिपत्तिकारणं तत एव तन्निवृत्तिरिति न हेतुफलव्यवस्था | आगमविशेषोऽपि अतीन्द्रिये दुरखगमः, विशिष्टपुरुषप्रणीतत्वादेर्निश्चेतुमशक्यत्वात् । अथ 'तत्कर्मास्रवेभ्यः पुण्यबन्धो जीवानाम्' इत्यादि वाक्यं प्रमाणम्, अर्हद्वाक्यत्वात्, परिणामिघटादिप्रतिपादकतद्वाक्यवत्' इति; तदपि न सुन्दरम् ; अत्र तंद्वाक्यत्वाऽसिद्ध ेः । यदि पुन: 'तदपि तद्वाक्यम् ५ अनेकान्तात्मकतत्त्वविषयत्वात् प्रसिद्धान्यतद्विषयवाक्यवत्' इति तदपि तादृगेव; तद्विषयत्वे परापप्रतीतत्वाविरोधात् । नहि एतन्नामकमतीन्द्रियं सप्तमद्रव्यं प्रतिक्षणं [२१३क] परिणामीति विकलविदो वदतो वक्त्रं वक्रीभवति । तन्न आगमेनापि विषयीकृतः ।
अपरे मन्यन्ते-न प्रयाससाध्योऽयमर्थः किन्तु सर्वेषामविगीतोऽयम्, सर्वेषां वादिनां विगानरहितोऽयमिति न कश्चित् सचेतनो विप्रतिपत्तिमपि (मर्हति ) प्रमाणाङ्कुशरहिताः स्वमत१० समर्थनमदवहलावलेपापन्ना गजा इव प्रवर्त्तमाना विप्रतिपत्तारः केन वार्यन्ते । दृश्यन्ते हि चार्वा - कादयः अत्रैव विवदमानाः, न च ते तत्त्वप्रतिपत्तिं प्रति उपेक्षणीयाः समदर्शिभिः परहितावधानदीक्षावद्भिः अ क ल क्ङ्कैः । नापि तेषां विप्रतिपत्तय एवमेव निवर्त्तन्ते अपि तु प्रमाणात्, अतस्तदेवै तान् प्रति वक्तव्यं किमनेन 'अत्र न कश्चित्' इत्यादिना ।
मीमांसकोऽपि *"श्वेतं छगमालभेत स्वर्गकामः” इति वचनात् द्रव्यादीनामेव पुण्यत्व - १५ मिच्छति, *"ब्राह्मणो न हन्तव्यः" इत्यादि वचनाच्च ब्रह्मवधादीनामेव पापत्वम्, न ताभ्यां परं पुण्यपापबन्ध इति । प्र भा कर स्वाह
*“न मांसभक्षणे दोषः न मद्ये न च मैथुने ।
प्रवृत्तिरेव हि भूतानां निवृत्तिस्तु फलमिति ( महाफला ) ।।"
२०
२५
[मनु० ५/५६ ] इति । सौगताः पुनः दानहिंसादिचित्तादिकमेव पुण्यादिकं पठन्ति । “दानहिंसाविरतिचेतसां स्वर्गप्रापणसामर्थ्यात् तेषां प्रत्यक्षत्वेऽपि न प्रत्यक्षत्वम्” इति सूरेर्वचनाद् इदमेवम् इत्यवसीयते । परमार्थतः कार्यकारणविरहान्न कस्यचित् 'तैस्तद्वन्धं इत्यन्यः ।
,
सांख्यस्य तु मतम् - तैः प्रकृतिपरिणामविशेषो जायते, ततः तस्या" एव तद्बन्धो न पुरुषाणां शुद्धात्मनामिति । तत्रैव
*" गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ॥”
(१) अर्हद्वाक्यत्वासिद्धेः । ( २ ) परस्य प्रतिवादिनो या अपप्रतीतिः तस्याप्यविरोधात् । (३) प्रमाणमेव । ( ४ ) " श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः । चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मता ॥" - मी० श्लो० सू० २ । ( ५ ) " न जातु ब्राह्मणं हन्यात् । " मनु० ८|३८० । उदटतमिदम्सन्मति० टी० पृ० ७३१ । (६) " प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ।" - मनु० । ( ७ ) प्रतिभासाद्वैतवादी । (८) अचेतनैः कर्मभिः । ( ९ ) " न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः । संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥" - माध्य० का० १६।५ । (१०) मनोवाक्कायकर्मभिः । ( ११ ) प्रकृतेरेव । ( १२ ) द्रष्टव्यम् - पृ० ८९ टि० ५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org