________________
४।२] आत्मनः कर्मवन्धः
१५९ मन्त्रादिसहित म्, ततोऽभ्युदयस्य व्याधिशमनस्य भावादिति; तदयुक्तम् ; स्वेच्छामात्राद् अर्थाsसिद्धः, अतिप्रसङ्गाच्च । वेदस्य प्रमाणत्वस्य निषेत्स्यमानत्वात् न ततोऽस्य विभागस्य प्रतिपत्तिः', खार्पटिकागमादपि तत्प्रतीतिप्रसङ्गाच्च । ततो यत्किञ्चिदेतत् ।
यदि वा, 'शुभाशुभैः पुण्यापुण्यैरचेतनैः बध्यते' इति सम्बन्धनीयम् । तर्हि अविशेषेण [२१२क] चेतनं (नः) तैः बध्यत इति चेत् ; अत्राह-यथास्वस् इति । यस्य ५ चेतनस्य यः स्वः मन्दतीवादिरूपः क्रोधादिस्वभावस्तस्य अनतिक्रमेण इति ।
कारिकां व्याख्यातुमाह-मनोवाकाय इत्यादि । मनोवाक्कायकर्मभिः आस्रवैः । अथवा आस्रवैः इत्यत्र च शब्दो द्रष्टव्यः । किंभूतैः ? इत्याह-शुभैरशुभैश्च ।
ननु कारिकायां शुभाशुभैः इति समस्तो निर्देशः कृतः, अत्र किमर्थं व्यस्तः क्रियते इति चेत् ? सङ्करादिपरिहारार्थः । ये शुभाः ते शुभा एव, ये च स्वस्य ते स्वस्यैव नान्यस्य' इति १० प्रतिपादनार्थः तथानिर्देशः । कथम् ? इत्याह-यथास्वम् इति । किम् ? इत्याह-पुण्यपापबन्धः। केपाम् ? इत्याह-जीवानाम् । न प्रकृतेर्नापि ज्ञानक्ष[णस्य ।ता [कारिकायां सामान्यतो] जीव इत्युक्तम् , अत्र व्यक्त्यपेक्षं 'जीवानाम्' इति वचनं जीवबहुत्वप्रतिपादनार्थम् , इतरथा अत्रापि जीवस्य' इत्येकवचनप्रयोगे मन्दमतेः आशङ्का स्यात्-'आचार्यमते [एक एव जीवः' इति । जब तद्वन्धः तस्य॑ तत्कारणाभावात् सत्तामात्रा (त्रे) प्रमाणभाच्च (णाभावाच्च) । शरीर- १५ परिमाणस्य चेतनापरिणामस्य अनाद्यनिधनस्य कर्तुर्भोक्तुः आत्मनः प्रतिपादनार्थं जीवग्रहणम् । अस्यैव ग्रहणम् अस्यैव तद्वाच्यत्वेन प्रसिद्ध, आत्मादिशब्दानांतु परापेक्षया अन्यत्रापि प्रवृत्तेः।
नन्वत्र परविप्रतिपत्तिनिरासार्थ प्रमाणं वक्तव्यमिति चेत् । अत्राह-अत्र इत्यादि । अत्र अर्थे न कश्चिद् विप्रतिपत्तुमर्हति ।
___स्यान्मतम्-प्रमाणेन विषयीकृते प्रमेये न कश्चिद् विप्रतिपत्तुमर्हति । न चायं तेन विषयी- २० कृतः । तथाहि- न तावत् प्रत्यक्षेण; तत्र २१२ख] तदप्रतिभासनात् । न चै खलु "आतसादितैलादिसंपर्के घटादेः पांशुराशिसम्बन्ध इव मनोवाकायकर्मभिरास्रवैः शुभैरशुभैश्च पुण्यपापबन्धो जीवानां प्रत्यक्षतः प्रतीयते; विप्रतिपत्तेरभावप्रसङ्गात् । नापि अनुमानेन; लिङ्गाभावात् । न च तत्कर्मास्रवाः लिङ्गम् ; 'कारणात् कार्यानुमानम्' इति प्राप्तः । न चैवम् , व्यभिचारात् , *""नावश्यं कारणानि कार्यवन्ति भवन्ति" [प्र. वा० स्व० १।६६] । न च ते अन्यत्र २५ अन्यदा तत्कारणत्वेन आतसतैलादिवत् प्रतीतं यतस्तेभ्यो बन्धोऽनुमीयेत "मालवकातसतैलसंपर्कादिव उदरमलबन्धः । लिङ्गान्तरमत्र साध्यसमम् । आगमेन विषयीकृत इति चेत् ; कथन्न तत्र कश्चिद् विप्रतिपत्तुमर्हति ? तद्विषयीकरणादेव विप्रतिपत्तीनामतीन्द्रियार्थे 'प्रकृतिः कारणं पुरुषः कारणम्' इत्यादौ दर्शनात् , अन्यथा आगमेनापि तदविषयीकरणे निरालम्बा विप्रतिपत्तयो
(१) वेदात् । (२) इयं हिंसा पुण्यहेतुरियं च पापहेतुरिति । (३) पृथनिर्देशः । (१) सांख्याभिमतायाः । (५) बौद्धाभिमतस्य । (६) नित्यैकजीवस्य । (७) 'अस्यैव ग्रहणम्' इति पुनरुक्तम् । (6) वैशेषिकाद्यपेक्षया । (९) नित्ये व्यापिनि निष्क्रिये च । (१०) अतीसीतैलादि । (18) द्रष्टव्यम्-हेतुबि. टी० पृ० २१०। न्यायबिटी० २१४९। (१२) मालवकतैलात् अतीसीतेलाद्वा । (१३) सांख्यस्य । (१४) वेदान्तिनः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org