________________
सिद्धिविनिश्चयटीकायाम
[४ जीवसिद्धिः ततो यत्किञ्चिदेतत् ।
कथंभूतैः तैः ? इत्याह-शुभाऽशुभैः इति । पुण्यहेतुभिः शुभैः अपुण्यहेतुभिः अशुभैः मनोवाकायकर्मभिः आस्रवैः इति । तद्धेतुत्वम् एतेषां [२११क] वृत्तौ' निवेदयिष्यति।
ननु च य एव पुण्यहेतवः त एव पापहेतवः शुभाचरणवतोऽपि अपायदर्शनात् , तथा य ५ एव पापहेतवः त एव पुण्यहेतवोऽपि हिंसाद्यनुष्ठानरतस्यापि अभ्युदयदर्शनात् । एवं च हेतुसङ्करे कथं प्रेक्षाकारिणा धर्माद्युपायाचरणमिति चेत् ; अत्राह-यथास्वम् इति । यानि स्वानि ये वा यथास्वम् इति । एतदुक्तं भवति-यस्य शुभस्य अशुभस्य वा चेतनस्य यानि मनोवाकायकर्माणि स्वानि कारणत्वेन प्रत्यासन्नानि ये वा आस्रवाः तेषामनतिक्रमेण चेतनाऽचैतनैर्बध्यते
इति । न खलु शुभस्य अचेतनस्य कारणानि अशुभस्य सुता (स्रुती) भवितुमर्हन्ति, अन्यथा १० शाल्यकुरकारणानि यवाकुरस्म स्युः। यस्तु शुभाचारवतोऽपि अपायो दृश्यते नासौ तेदाचारात्
तज्जन्यानाद्वा (जन्याद्वा) कर्मणः, अपि तु पूर्वकृतदुष्कर्मणः, इतरथा तदाचारफलस्य तदैव निष्पन्न[त्वान्न] कश्चिद् भाविना मन्त्रदेवताविशेषाराधनादिफलेन तद्वान् स्यात् । यदि च कदाचित् शुभाद्वाऽनन्तरमपायदर्शनात् स एव तस्य तत्कारणस्य वा कारणम् ; हन्त सविषं दिव्यमाहारं भुञ्जानस्य मृत्युः तदाहारकृतः ! यदि पुनः प्रायशः तदाहारा सँ न दृष्टः, किन्तु विषाद् दृष्टः १५ इति तदेवं तत्कारणं कल्प्यते नाहारः; एवं प्रकृतेति (तेऽपि) कल्पनायाम किं विरुध्येत यतः
सान क्रियेत ? अपायस्य वजलं (बन्धन) विरुद्धाधरणादेव दर्शनात् । ननु स्यादेतदेवं यदि शुभावणेत् (भाचरणात्) पुण्यं कुतश्चित् सिद्धं स्यादिति चेत् ; आस्तां तावदेतत् वृत्तौ वक्ष्यति ।
। एतेन 'हिंसाद्यनुष्ठानात् कदाचिद् [२११ख] 'हिरण्यादिलाभोपलम्भात् तदनुष्ठानं धर्मसाधनम्' इति निरस्तम् ; तल्लाभस्य पूर्वकृतसुकृतादेव भावात् । तदनुष्ठानेऽपि तत्त्वाभा २० (तल्लाभा)दर्शनात् । इदं तु स्यात्-इत्थं तेन कर्म कृतं यत्तदनुष्ठानसहितं फलं ददाति । "तत एव च 'तद्भावे गुरुभार्याभिगमनादेः ["तत् स्यात् ] ।
एतेन" इदमपि प्रयुक्तम्-*"परस्य अनुकूलेषु अनुकूलाभिमानजनितोभिलापः अभिलपितुः अर्थाभिमुखक्रियाकारणं जनयति तत्तदात्मनोऽनुकूलेषु तज्जनिताभिलाषवत् ।"
इति; कथम् ? गुरुभार्यानुकूलेषु परपुरुषादिगमनादिषु पुत्रादेः तदनुकूलाभिलाषस्यापि धर्महेतुत्व२५ प्रसङ्गात् । गुरोः प्रतिकूलत्वान्नेति चेत् ; मृते वा गुरौ स्यात् । यदि" प्रतिकूले च तपसि भतुर (कर्तुर)नुकूलाभिलाषोऽपि पुण्यहेतुन स्यात् ।
मीमांसकस्त्वाह- केव (नैव) हिंसाद्यनुष्ठानं मन्त्रसहितम्", यथा विषं केवलं मृत्यवे न
(१) टीकायाम् । (२) आस्रवकारकाः । (३) शुभाचारात् । (४) शुभ एव । (५) अपायस्य । (६) दिव्याहारात् । (७) मृत्युः । (८) विषमेव । (९) यज्ञादिदक्षिणायाम्। (१०) हिंसाद्यनुष्ठानादेव । (११) हिरण्यादिसुखसाधनलाभस्वीकारे (१२) सुखसाधनलाभः । (१३) तुलना-"परस्यानुकूलेष्वनुकूलाभिमानजनितोऽभिलाषः अभिलषितुराभिमुखक्रियाकारणमात्मविशेषगुणमाराधनोति अनुकूलेष्वनुकूलाभिमानजनिताभिलाषत्वात् आत्मनोऽनुकूलेष्वनुकूलाभिमानजनिताभिलाषवत्' इत्यस्य'.."-प्रमेयक पृ० ५५५ । (१४) 'यदि' इति निरर्थकम् । (१५) पापहेतुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org