________________
४।९ ]
आत्मनः कर्मबन्धः
२५७
तत्र च लौकिकन्यायापेक्षया मनः कर्मभिः इत्यनेन मानसा व्यापारा रागादयोऽपि गृह्यन्ते, ततः सिद्धी नयन्ते निरास्रय (व) त्वात्तेषामिति मन्यते । अनेन सर्वेण एतत् कथयति - 'विवादगोचरापन्नं कार्यं बुद्धिमत्कारणं तत्त्वात् घटादिवत्' इत्यत्र यदि चेतनेन आत्मना सास्रवेण आत्मनोऽचैतनैर्बन्धः स्वयं क्रियते, इति से एव क्रियते इति स एव धीमान् तत्कारणं साध्यते; तर्हि सिद्धसाधनम् । परश्चेत्; दृष्टान्तेऽपि म (न) तत्सिद्धिरिति ।
a atarvisine आस्रवैः कृत्त्वा अचेतनैः स्वयम्, तथापि आत्मीयैरिव परकीयैरपि बध्यते इति मीमांसकः । स हि पुत्रादिसम्बन्धिभिः तैः चिरमृतानामपि पित्रादीनाम् ब[द्ध] त्वमभ्युपगच्छति, सौगतो वा अन्यकर्मभिः अन्यस्य; तं प्रति आह - स्वैः इति । स्वैः आत्मीयैः आस्रवैः न परकीयैः, अव्यवस्थापत्तेः । न खलु पुत्रस्य सुरादर्शनाभिलाषादयः पितरम् अत्यन्त - श्रोत्रियं सुरया योजयन्ति जीवन्तपि किमङ्ग पुनः मृतान् ? 'अन्यथा कृतानेकयोगोऽपि पिता १० पुत्रदोषात् नरकं व्रजेदिति न कश्चित् प्रेक्षाकारी नियमेन सुकृतकारी स्यात् । कदाचित् पुत्रं दोषकारिणमाशङ्कमानः पुत्रो [२१०ख ] वा न जननीर्यः । नहि वैरिणः " स्ववधमाशङ्कमान एव तम् आत्मनः सन्निहितमुपनयति । यदि पुनः कस्यचित् कश्चित् पुत्रः "श्रुतकारी दृष्ट इति स्वयं पुत्रजनने प्रवृत्तिः - अन्योऽपि तादृशो भविष्यति, कदाचिदर्थसन्देहो हि कृषीवलादिवत् प्रवृत्तेः अङ्गमिति; तदसाम्प्रतम् ; यतः कस्यचिदपकार्यपि तादृक्षो भविष्यति इत्यनर्थसंज्ञा - १५ (शङ्काऽ) निवृत्तेः । ततः सूक्तम् -२ - स्वैः इति । यद्वा, स्वैः अचेतनैर्बध्यते; अन्यथा ठकपापैः सर्वोऽपि बध्येत । यदि असौ” अन्यस्मै ददाति, तदा सोऽपि बध्यते । तथाहि -सौगतः 'जन्म( यन्म) योपार्जितं पुण्यं तेन त्वाः सर्वे सर्वे सत्त्वाः सुखिनो भवन्तु' इति सर्वोऽपि वदतीति चेत्; वतिनैता ( नैतावता ) तस्य पुण्पेन अन्ये सुखिनो नाम, " इतरथामतिर्यदैव पापो भति ‘मदीयेन अतिपापेन सर्वे योगिनो दुःखिता भवन्तु' तदाऽसौ " सकलसंसारदुःखरहितो योगिनस्तु २० तत्सहिताः स्युः इति । यस्मै तद्दीयते स यदि (दी) च्छति, ततर्हि सर्वमेव तत्त (नहि सर्व एव तत्र ) योगिनः तदिच्छन्ति इति चेत्; न युक्तमेतत् यतो यदैव म्रियमाणाय चिरंजीविनम् " इच्छति, वर्षशतायुः स्वायुः ददाति तद्दातुः तदैव मरणम् अन्यस्य चिरजीविनस्तम् (वित्वं) भवेत् । न चैवम् । किन
1
इष्टाय भाग्यहीनाय वक्रवन्ती (चक्रवर्ती) सपुण्यकम् । ददानः पुण्यहीनः स्यात् इष्टश्च क्रिपदं व्रजेत् ॥
(१) मुक्तपुरुषाः । (२) रागादिरहितत्वात् । (३) कार्यत्वात् । ( ४ ) " महाभूतचतुष्टयमुपलब्धिमपूर्वकं कार्यत्वात्" - प्रश० कन्द० पृ० ५५ । न्यायकुसु० ५ । १ । (५) स्वयं स्वः क्रियते । ( ६ ) आत्मा । (७) आस्रवैः । (८) क्षणिकत्वात् अन्येन क्रियते अन्यश्च बध्यते इति भावः । (९) इति मन्येत । (१०) सकाशात् । ( ११ ) वेदानुसारी । ( १२ ) ठकः चौरवृत्त्या गृहीतं द्रव्यम् । (१३) ठकद्रव्यग्राही पुरुषोsपि । (१४) 'स्वाः सर्वे' इति व्यर्थमत्र द्विर्लिखितं भाति । ( १५ ) “यत्प्राप्तमर्थं कुशलं मयाऽमलं । तेन सर्वजगदर्थसाधिनी सिद्धिरस्तु जगतोऽस्य सर्वदा ॥" - प्र० वार्तिकाल० पृ० ६४८ | तत्त्वसं० प० पृ० ९३६ । बोधिच० पं० पृ० ६०५ । (१६) कश्चित् पापबुद्धिः । ( १७ ) पापी । (१८) कश्चिदिष्टजनः,
अथ च ।
३३
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org