________________
२५६ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः वत्वाच्चेतनायाः। विपरीता चेतना कर्मेति चेत् ; तस्याः कुतो भावः ? वासनातश्चेत् ; न; तन्निषेधात् अनन्तरमेव, तस्याश्च तत्त्व-तद्वेदनकाल एव नरकादिप्रापणसामर्थ्यवेदनात् , सर्वस्यापि हिंसादिचेतनादिभ्यः अपरोपदेशात् निवृत्तिः स्यात् तत्त्ववेदिता (नां) योगिनामिव । न खलु
कश्चित् सचेतनो दुस्तटीपातमतितया न कं (नरक) जानन्नेव आचरते दुःखभीरुः । न च ५ निष्कलदर्शने [२०९ख] चेतनानिश्चयेऽपि तत्सामर्थ्यानिश्चयकल्पनमिति सुविचारितमेतत् । तत्सामर्थ्याग्रहणे च तद्वतोऽप्यग्रहणमिति न अचेतनकर्मपक्षाद् विशेषः ।
ननु बध्यन्ते (ध्यतेऽ) सौ तैः, स तु नश्वरम् (न स्वयम् ) अपि तु महेश्वरप्रेरितैः । तयाहि-यः चेतनेन बध्यते स धीमता प्रेरितेन बध्यते, यथा चौरो निगडादिना, बध्यते च
आत्मा तथाविधस्तेनेति, योऽसौ तत्प्रेरकः स महेश्वर इति चेत् ; अत्राह-स्वयम् इति । १० स्वयम् आत्मना न ईश्वरादिना । यो हि चेतनः तैः बध्यते स एव आत्मबन्धनाय तेषां प्रेरकः
किं तत्र ईश्वरेण अन्येन मन्यत वा (वेति मन्यते) । न चेदमत्र चोद्यम्-अर्वाग्दर्शी तानि अपश्यन् कथं तेषां प्रेरक इति; स्वप्नादौ अदृष्टात्ताना (टाना) मपि स्वकरचरणादीनां प्रेरकत्वदर्शनान् । यस्य च 'ईश्वरज्ञानमेकं नित्यमनात्मवेदकम् , तस्य ईश्वरः "तानि पश्यति' इत्यतिश्रद्धेयम् ।
अनित्यं चेत् ; "तत्तर्हि तस्य' अदृष्टपूर्वकम् , अन्यथा *"यतोऽभ्युदयनिःश्रेयससिद्धिःस १५ धर्मः" [वैशे० सू० १।१।२] इति व्याहन्यते, अनेन व्यभिचारात् । तस्य च अदृष्टसम्बन्धो
यदि अन्येन धीमता कृतः; अनवस्था । स्वयं चेत् ; अन्यस्यापि तथा अस्तु । इति साधूक्तम्स्वयम् इति । ___अथ मतम्-यदि चेतनः तैः स्वयं मन्यते (बध्यते) मुक्तात्मानोऽपि बध्येरन् विशेषा
भावादिति चेत् ; अत्राह-आस्रवैः इति । आस्रवन्ति समागच्छन्ति संसारिणां जीवानां २० कर्माणि यैः येभ्यो वा ते आस्रवा रागादयः तैः करणभूतैः कृत्वा । न केवलम् एतैरेव अपि
तु मनोवाकायकर्मभिश्च मनोवचनशरीरव्यापारैश्च । यद्येव (यद्यास्रव) शब्दः रागादिवद् एतेष्वपि प्रवर्तते निमित्तसाम्यात् [२१०क] तत्किमर्थं "तच्छब्देन रागादय उच्यन्ते इति चेत् ? सत्यम्, मनःप्रभृतीनां स्वशब्देनावि (भि) धानात् , "तच्छब्देन तेषामेवे' अभिधानम्
यथा *"दोषावरणयोर्हानिः"[आप्तमी० श्लो०४] इत्यत्र दोषशब्देन आवरणयोरप्यभिधानेऽपि २५ आवरणयोः पृथगभिधानात् दोषा रागादय उच्यन्ते ।
यदि वा, आस्रवैः मनोवाक्कायकर्मभिः इति समानाधिकरण्येन सम्बन्धः करणीयः ।
(१) विपरीतायाः । (२) वासनायाश्च । (३) निर्विकल्पदर्शने । (४) निश्चयानिश्चयलक्षणविरुद्धधर्माध्यासप्रसङ्गात् । (५) कर्मभिः। (६) "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् श्वनं वा स्वर्गमेव वा ॥"-महाभा. वनप० ३०१२८ । (७) कर्मणाम् । (6) कर्माणि । (९) वैशेषिकस्य । (१०) कर्माणि । (११) ईश्वरज्ञानम् । (१२) ईश्वरस्य । (१३) स्वयं सम्बन्धोऽस्तु । (१४) "कामवाङ्मनःकर्म योगः। स आस्रवः।"-त. सू०६।१,२। (१५) आस्रवशब्देन । (१६) आस्रवशब्देन । (१७) रागादीनामेव । (१८) "वचनसामादज्ञानादिर्दोषः स्वपरपरिणामहेतुः । .."आवरणात् पौलिकज्ञानावरणादिकर्मणो भिन्नस्वभाव एवाज्ञानादिर्दोषोऽभ्यूह्यते ।"-अष्टस. पृ. ५१।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org