________________
४९]
आत्मनः कर्मबन्धः
२५५
[मूर्त्ताs] मूर्त्तयोस्तयोः संयोगविशेषलक्षणः कथं बन्धो येनैवं स्यादिति चेत् ? अत्राह-न च इत्यादि । न च नैव मूर्ता मूर्तयोः कर्मात्मनोः विरुद्धः संयोगः । कुतः ? इत्यत्राह - पञ्चस्कन्ध इत्यादि ।
ननु 'विषादिवत्' इत्यनेन परिहृतं यत इत्यदोषः । पञ्चस्कन्धा रूपादयः तेषां कदम्बकस्य समूहस्य अभावप्रसङ्गात् कारणात् न च मूर्त्ता मूर्त्तयोर्विरुद्धः संयोगः इति पद्घटना । ५ तथाहि - कचित् शरीरे रूपस्कन्धो मूर्त्तः, अमूर्त्ता वेदनादयः, तत्समूहरूपपरापररूपतया उपायमानस्य संसारव्यपदेशात् । मूर्त्तेत्तरयोश्च संयोगविरोधः (धे ) अन्यत्र रूपम् अन्यत्र वेदनादयः सविन्ध्यवदिति न शरीरे [सु] खाद्यनुभवनमिति प्राप्तम् ।
ननु तँत्कदम्बकं यदि संयोगः; तर्हि तदभावो न सौगतस्य दोषाय अभ्युपगमादिति [२९९क] चेत्; नैरन्तर्यस्यै तेनाप्युपगमात् । न च नैरन्तर्यादन्यः संयोगो जैनस्यापि । ततो १० यथा पञ्चस्कन्धानां मूर्त्तेतररूपाणामपि नैरन्तर्यलक्षणः संयोगः तथा जीवकर्मणोरिति । आत्मनः (आत्ममनः) सन्निकर्ष आत्ममनसोः संयोगः, * “आत्मा मनसा युज्यते " [न्याम० पृ०७४] इति वचनात् आदिः यस्य स तथोक्तः तस्य च अभावप्रसङ्गात् न च तयोः संयोगो विरुद्धः । आदिशब्देन मनोगगनसन्निकर्षः प्रकृति पुरुषसन्निकर्षश्च
।
[अस्तु] यथार्थग्रहणस्वभावस्य आत्मनो मिथ्याज्ञानादनुमितो बन्धः, स तु केन हेतुना ? १५ इत्यत्राह - शुभाशुभैः इत्यादि ।
[ शुभाशुभैश्चेतनो जीवो बध्यतेऽचेतनैः स्वयम् । aartaaraवैश्च स्वैः मनोवाक्कायकर्मभिः ॥९॥
मनोव कायकर्मभिः शुभैरशुभैश्वास्रवैः यथास्वं पुण्यपापबन्धो जीवानामित्यत्र न कश्चिद् विप्रतिपत्तुमर्हति किन्तु सर्वेषामविगीतोऽयमिति ।]
२०
जीवः आत्मा । किंभूतः ? चेतनः स्वपरग्रहणस्वभावः न वैशेषिक कल्पितः तस्य बन्धफलाभावात् । तस्य हि फलं सुखदुःखादिकं मिथ्याज्ञानमन्यद्वा । न च सर्वदा ( था ) अचेतनस्य " तद् युक्तं विरोधात् । भिन्नस्य उत्पत्तावपि न तस्य किञ्चिद् अतिप्रसङ्गात्, समवायनिषेधात् । स किम् ? इत्याह-बध्यते संयुज्यते । कैः ? इत्याह- अचेतनैः कर्मपुद्गलैः न सौगतकल्पितैः चेतनरूपैः कर्मभिः * " चेतना कर्म " [ अभिध० को ०४।१] २५ "इति तथागतवचनात् । कुतः स्याः (कुतोऽस्याः ३) कर्मत्व ( त्वम् ?) विरोधात् आत्मस्वभा
Jain Education International
..."
(१) जीवकर्मणोः । (२) पृ० २३१ । ( ३ ) रूप वेदना विज्ञानसंज्ञासंस्काराः । (४) पञ्चस्कन्धसमूहः । (५) संयोगाभावः । ( ६ ) अन्तरालाभावरूपस्य सम्बन्धस्य । " प्राप्तावस्थाविशेषे हि नैरन्तर्येण जातितः । ये इत्याहरत्येष वस्तुनी ते तथाविधे ॥ ६६६ ॥ ये निरन्तरोत्पन्ने वस्तुनी ते एव संयुक्तशब्दवाच्ये.. - तत्त्वसं० प० पृ० २२१ । ( ७ ) “संयोगोऽपि नैरन्तर्यावस्थितार्थं व्यतिरेकेण अपरो न प्रतीयते । " –न्यायकुमु० पृ० २७७ | सन्मति० टी० पृ० ६७७ । (८) मूर्तमूर्तयोः । ( ९ ) सांख्याभिमतः । (१०) सर्वथा नित्यस्य निष्क्रिस्य स्वयमचेतनस्य च । ( ११ ) सुखदुःखादिकम् । ( १२ ) " चेतना मानसं कर्म" - अभिध० को० । (१३) चेतनायाः ।
"
For Personal & Private Use Only
www.jainelibrary.org