________________
२५४ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः इति स्थितमेतत् सर्वम् 'गुण']
समक्षं प्रत्यक्षं गुणश्च पर्यायाश्च स्वभावा आत्मानो यस्य द्रव्यस्य तस्य साधनम् बहिरन्तश्च गुणपर्यायात्मकद्रव्यप्रत्यक्षत्वात् इत्यर्थः । [२०८क] अनेन सकलशून्यतां कल्पयतः प्रत्यक्षवाधां दर्शयति । स्यान्मतम्-अस्ति प्रत्यक्षबुद्धौ यस्य प्रतिभासः, स तु भ्रान्तः बाध्यमान५ त्वाद् द्विचन्द्रादिप्रतिभासवदिति चेत् ; अत्राह-विपक्ष इत्यादि । विपक्षे भावाद्यकान्ते अर्थक्रियायाः दर्शनादिलक्षणाया अयोगात् व्यावृत्तम् अपमृतम् । कुतः ? विभ्रमात्मनः भ्रान्तस्वभावात् 'समक्षम्' इति सम्बन्धः । एतदुक्तं भवति-यथा एकचन्द्रदर्शनभावाद् द्विचन्द्रदर्शनं भ्रान्तं तथा एकान्तदर्शनादिभावे अनन्तरसमक्षं भ्रान्तं स्यात् । न चैवमिति । __ कारिकार्थस्य नैकधा राजपथीकृतत्वात् प्रकृतमुपसंह [रन्नाह-इति] स्थितमेतत् इत्यादि । स्थितं १० निश्चितमेतत् । किं तत् ? इत्याह-सर्वम् इत्यादि । तथा परं स्थितम् इत्याह-गुण इत्यादि । तु सद्भावोऽत्र द्रष्टव्यः द्रव्यलक्षणान्तरनिषेधार्थत्वात् ।
ननु चेतनाऽचेतनयोः अमूर्तमूर्तयोः जीवकर्मणोः सम्बन्धाभावेन एकस्य गमने स्थाने वा नान्यस्य नियमेन गमनं स्थानं वा गवाश्ववत् । सम्बन्धेऽपि तदुत्पत्तिलक्षणे स एव दोषः
घटकुलालवत् । तादात्म्यलक्षणे तु नायं दोषः कृतकत्व-शब्दवत् , अत्रापि अन्यतरदेव स्यात् १५ कल्पितो वा भेद इति चेत् ; अत्राह-चेतना इत्यादि ।
[चेतनाचेतनावेतौ बन्धं प्रत्यपेक्षताम् ।
भिन्नौ लक्षणतोऽत्यन्तं हेमादिश्यामिकादिवत् ॥८॥ परस्परविलक्षणावपि चेतनाचेतनौ बन्धं प्रत्येकत्वं प्रतिपद्यते हेमश्यामिकादिवत् । न च मूर्तामूर्तयोः संयोगो विरुद्धः पञ्चस्कन्धकदम्बकाभावप्रसङ्गात् आत्ममनःसन्नि२० कांदेश्च ।]
चेतन आत्मा अचेतनः कर्मपदार्थः तौ चेतनाचेतनौ, उपलक्षणमेतत् तेन अमूर्तमूर्ती एतौ प्रत्यक्षानुमानप्रतीयमानौ बन्धं संयोगविशेषम् प्रति अपेक्षक(क्ष्य)ताम् सहचरादिकार्यसमानतादात्म्यं भिन्नद्रव्ययोः तद्विरोधात् । कुतस्तादात्म्यं न गतौ ? इत्याह-भिन्नौ
परद्रव्यान्तरभूतौ यतः । [२०८ख] केन ? इत्याह-लक्षणतः स्वलक्षणेन आद्यादिपाठान्तः, २५ तल्लक्षणमेव आश्रित्य । तथाहि-ज्ञानदर्शनोपयोगो जीवस्यैव लक्षणम्', अचेतने रूपाद्यात्मकत्वं "पुद्गलस्यैव इति । कथं भिन्नौ ? इत्याह-अत्यन्तं कालत्रयेऽपि परस्परं लक्षणसंक्रान्त्यभावमनेन दर्शयति । दृष्टान्तमुभयत्र दर्शयति हेमादिश्यामिकादिवत् । एकेन आदिशब्देन माणिक्यादेः अपरेण किट्टादेः परिग्रहः ताविव तद्वदिति ।
कारिकां विवृण्वन्नाह-परस्पर इत्यादि । परस्परम् अन्योन्यं विलक्षणावपि विसदृश३० लक्षणावपि चेतनाऽचेतनौ जीवकर्मपुद्गलौ बन्धं प्रति एकत्वं प्रतिपद्यते हेमश्यामिकादिवद् - आदिशब्दः प्रत्येकमभिसम्बध्यते ।।
(१) द्रव्यस्य । (२) तादात्म्यसम्बन्धे। (३) जीव एव स्यात् कर्म एव वा। (४) "उपयोगो . लक्षणम्"-त० सू० २।८ । (५)"स्पर्शरसगन्धस्वर्णवन्तः पुद्गलाः।"-त. सू० ५।२३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org