________________
४७ ]
न विनाशस्य निर्हेतुकत्वम्
२५३
तत् तच्छब्देन परामृश्यते, तच्च तद्विनाशकारणं च इति तस्य, अवश्यंभावनियमाभावात् कार - णात् न कश्चित् कृतकत्वादिः अनित्यत्वसाधनो हेतुः अव्यभिचारी स्यादित्यर्थः ।
यदुक्तम् - न प्रागसतो विनाशस्य सत्तासम्बन्धलक्षणा उत्पत्तिः केनचित् क्रियते अपि तु स्वरूपमेव; तत्राह सौगतः– विनाशहेतुः इत्यादि । विनाशस्य हेतुः कारणं पराभ्युपगतः प्रागसतः स्वोत्पत्तेः पूर्वमसतोऽविद्यमानस्य विनाशस्य स्वभावं स्वरूपं करोति न सत्तासम्बन्धम्' इत्येवं चेद्यदि । तत्र दूषणमाह- कः पुनः इत्यादि । कः न कश्चित् पुनः इति अक्षमायाम्, भावानां घटादीनां यः अन्योऽन्याभावः, अत्यन्ताभावस्य एतद्विशेषत्वात् पृथगनभिधानम्, यश्च प्रागभावः तस्य कर्त्ता, यतः कर्तुः तत्स्वभावस्थितिः ? यत इति वा आक्षेपे, नैव तत्स्थितिः । तथा च प्रयोगः - [य] अभाव: स स निर्हेतुकः यथा प्रागभावादिः, अभावश्च विनाश इति । ननु यदि नाम प्रागभावादेरहेतुत्वं नैतावता विनाशस्य तत्, अन्यथा गगनादेरहेतुत्वात् घटादीनामपि १० तद्भवेत् । प्रत्यक्षवाधनमुभयत्र समानमिति चेत्; अत्राह - अस्ति वा इत्यादि । अस्ति
कश्चिद् देशादिकृतो विशेषः भेदः प्रागभावादेर्विनाशस्य ? नास्ति इत्यर्थः । एतदुक्तं भवतियथा प्रागभावादयः कारणान्वयव्यतिरेकाननुविधायिनः अकृतकाः तथा विनाशोऽपि । नहि महति दण्डादिसन्निपाते महान् अन्यथाविधे अन्यथा विनाशः विनिवृत्तिमात्रस्य [२०७ख ] सर्वत्र अविशेषादिति । न च भावतः प्रागभावादयः सन्ति इत्याह- परस्पर इत्यादि । १५ परस्परम् अन्योन्यं स्वभावश्च देशश्च कालश्च तेषां परिहारः तेन परिणतिम् आत्मलाभम् अभाव विद्मः 'भावानाम्' इति सम्बन्धः ।
एवं सौगतेनापि नैयायिकं विमुखतां नीत्वा अधुना सौगतं स्वयं तां नयन्नाह - तथा च इत्यादि । तथा च तेन च तत्परणत्यभाववेदनप्रकारेण हेतुमत्त्वं सकारणत्वं विरुद्धप्रमाणबाधितम् । कस्य ? इत्याह- क्षणिकस्य 'भावस्य' इति वचनपरिणामेन सम्बन्धः । इदमत्र २० तात्पर्यम् - नैयायिकस्य हेतुमतोऽपि विनाशस्य विनाशमनभ्युपगच्छतः अनित्यत्वहेतवो व्यभिचारिणः, प्रागभावादिकमहेतुमभ्युपगच्छतो विनाशो विनिहेतुः (शोऽपि निर्हेतुः ) तदभावो वा । बौद्धस्य पुनः क्षणिकत्वमभ्युपच्छतः कृतकत्वादयः असिद्धा एव इति नासौ परमतिशेते इति । कुतस्तस्य न हेतुत्वम् ? इत्याह- न ह्यतीत इत्यादि । [हि] यस्माद् अतीतेन कार्योत्पत्तेः प्रागेव नष्टेन भावेन वर्त्तमानस्य तद्वत्ता हेतुमत्ता [न] अतिप्रसङ्गात् सर्वेण अतीतेन सर्वस्य तद्वत्ताप्रस - २५ ङ्गात् । निरूपितं चैतत्” *"कार्यकारणता नैव" [ सिद्धवि० ४।३] इत्यादि ।
वेवं नैयायिकस्येव सौगतस्यापि मताभावे सकलशून्यतैव स्यादिति चेत् ; अत्राहसमक्षम् इत्यादि ।
समक्षं गुणपर्यायस्वभावद्रव्यसाधनम् । विपक्षेऽर्थक्रियायोगाद् व्यावृत्तं विभ्रमात्मनः ||७||
Jain Education International
५
(१) कारणेन । (२) तुलना - " न हि विनाशहेतुर्भावस्य स्वभावमेव करोति तस्य स्वहेतुभ्यो निर्वृत्तेः।”-हेतुबि० पृ० ५६ । (३) अहेतुकत्वं स्यात् । (४) अल्पे । ( ५ ) परमार्थतः । (६)विमुखताम्युक्तिशून्यताम् । (७) बौद्धः । (८) नैयायिकम् । (९) हेतुमत्ता । (१०) पृ० २३९ ।
For Personal & Private Use Only
३०
www.jainelibrary.org