________________
२५२
सिद्धिवनिश्चियटीकायाम्
[ ४ जीवसिद्धिः
चित्कस्य विनश्वरत्वेन प्रतीतिः (ते) घटादिवत् इति । तथा कादाचित्कं स्वविनाशहेतु ( हेत्व) - भावात् स्वशब्देन विनाश (शि) वस्तु परामृश्यते तस्य विनाशः स्वो विनाशस्य आत्मीयो वा विनाशः तस्य हेतोः कारणस्य अभावात् न विनश्यति इति प्रक्रियाव्यावर्णनमात्रं विरोधात् इति स्वमतव्याघातात् । 'यो हि कादाचित्कत्वे जगतोऽपि विनाशकारणमभ्युपगच्छति ५ तस्य प्रकृते काऽक्षमा ? तथा 'विनाशे वा प्रध्वंसे वा 'विनाशवस्तुनः' इति सम्बन्धः । शब्दः अभ्युपगमसूचकः पक्षान्तरसूचको वा, विनष्टस्य प्रध्वंसविशेषणवतः सत्तासम्बन्धिनो घटादेः ।
यदि वा, सतो विनाशाद् भिन्नस्य स्वतो विद्यमानस्य अनुत्पत्तिः पुनरप्रादुर्भावः । कुतः ? इत्याह-उत्पत्तिहेत्वभावात् इति । भावस्य उत्पत्तौ त्रिविधो हेतुः - समवायि - असम१० वायि - निमित्तभेदेन । न च विनाशः तेषामन्यतमः | आदित्यालोकाभावलक्षणे तमसि पुनः प्रदीपादिभावेन प्रहतेऽपि पुनः तदालोकोन्मज्जनम् । नाप्यन्यस्य तत्कारणस्य भावनियम इति प्रक्रियावर्णनमात्रम् । कुतः ? विरोधात् । यदि विनाशविनाशेऽपि प्रादुर्भावः ; न तर्हि विनाशविनाशः तद्भावः, तल्लक्षणत्वादस्य, कथमन्यथा नैरात्म्यनिषेधे सात्मकत्वसिद्धिः । ततो यदि [विनाश] विनाशः ; कथन्न भावप्रादुर्भावः ? न चेत् ; कथं तन्नाशः ?
यत्पुनरुक्तम्—उत्पत्तिहेतुभावादिति ; तदसारम्; यतो घटोत्पत्तौ अवयवसंयोगः कारणम्, तस्यापि क्रिया [ अ ]तः क्रियाविनाशविनाशे तत्प्रादुर्भावः, ततः संयोगः ततोऽपि घटः । यदि वा, विभागेन संयोगविनाशः कृत इति सहेतुकः 'तस्यापि कुतश्चिन्नाशे संयोगोन्मज्जनम् । अथवा, घटाद् भिन्नस्य नाशस्य [२०६ख ] भावे न तस्य किञ्चिदिति नाशनाशे निष्प्रतिद्वन्द्विनः केवलमुपलम्भो भवति तमोनाश इव इति किं हेतुना ?
यत्पुनरुक्तम्- आलोकाभावे तमसि नाशितेऽपि न दिनकरालोकप्रादुर्भाव इति; तदपि न सुपरीक्षिताभिधानम् ; तत्रापि चोद्यस्य समत्वात् । न आलोकाभावमात्रं तमः, सालोकापवर के बहला लोकप्रदेशात् प्रविष्टस्य तमः प्रतिभासात् । विज्ञानाभावे चात्र तमसि सर्वत्र तदभाव एतदस्तु नादित्यालोकाभावः ।
१५
२०
ज्ञान (ना) भावः तमः; अभावे न ज्ञानप्रादुर्भावः । न खलु चि (कचित) तदभाव एव २५ मतः (तमः); इतरथा आलोकोऽपि तमोऽभावो भवेत् । भावप्रत्ययवेद्यत्वाच्च नाऽभावमात्रं तमो घटादिवत् । ततः सूक्तम्- कादाचित्कम् इत्यादि ।
तत्रैव दूषणान्तरमाह - पटादेरपि इत्यादि । न केवलं विनाशस्य किन्तु घटादेरपि हेतुमर्थे (हेतुमत्त्वे) कादाचित्कत्वे च सति एवं विनाशवत् प्रसङ्गात् कारणात् 'प्रक्रियावर्णनमात्रम्' इति सम्बन्धः । पुनरपि दोषान्तरमाह - स्वसामग्रीजन्मन इत्यादि । स्वसामग्र्या जन्म यस्य भावस्य ३० [२०७] अभावस्य [वा ] तस्य । तद्विनाशकारणस्य यत् तद्विनाशकारणं परेण अभ्युपगतं
(१) बौद्धः । (२) विनाश हेतुस्वीकारे । (३) क्रियाप्रादुर्भावः । ( ४ ) संयोगविनाशस्यापि । ( ५ ) घटस्य । (६) विज्ञानाभाव एव तमोऽस्तु । ( ७ ) तमः । (८) ज्ञानाभाव । ( ९ ) तमोऽस्ति इत्यादि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org