________________
४१६
न विनाशस्य निर्हेतुकत्वम्
२५१ यति' इति सम्बन्धो भावः स्यादिति मन्यते । तथापि स कुतो भावः स्यादिति चेत् ? अत्राहतल्लक्षणत्वाद् वस्तुनः इति । परमतापेक्षया स सत्तासम्बन्धो लक्षणं यस्य तस्य भावात् तत्त्वाद् वस्तुनः सद्वर्गस्येति व्याख्येयम् । स्वमतापेक्षया तु सः प्रागसतो हेतोरात्मलाभो लक्षणं यस्य तस्य भावात् तत्त्वात् वस्तुनो भावस्य इति, स्वप्रागभावाद् अन्यथा प्रध्वंसो न विशिप्येत अवान्तरजातिसम्बन्धविरहात, इतरथी द्रव्यादिवत् सत्तासम्बन्धैः । यदि पुनः क्वचित्तद- ५ (द् )विरहेऽपि तत्सम्बन्धो नेष्यते ; तर्हि [कथं] तत्सम्बन्धविरहेऽपि द्रव्यादीनामेव अवान्तरजातियोगो न जात्यादीनामिति विभागः स्यात् । एतेन अन्यस्यापि विशेषकस्य धर्मस्य संभवो निरस्त इति मन्यते । व्याख्याता एकेन अर्थेन कारिका ।
साम्प्रतं प्रथमेन व्यतिरेकतां व्याकुर्वन्नाह-कादाचित्कम् इत्यादि । अत्रायमभिप्रायःअनन्तरन्यायेन प्रागसन पुनः कुतश्चित् जायमानो विनाशः कार्यम् , अत एव वस्तुव्यवस्था मितं १० तत् (स्था, अभिमतं च तत्)। इदानीं विनाशलक्षणं वस्तु कादाचित्कंदेशकालद्रव्यादिनियतं सदकार्यम् इति प्रक्रियाव्यावर्णनमात्रश्चाष्टषष्ठि (मात्रम् स्वेष्टि)घटितकृतान्त॑पदार्थप्रपञ्चकथनमात्रम्। मात्रशब्देन अव्यवस्थितं तत्त्वं दर्शयति । कुतः ? इत्याह-विरोधात् । पूर्वापराभ्युपगमयोः अन्योऽन्यबाधनात् । तथाहि-यदि विनाश (शो) वस्तु प्रागसत् (सन् ) कुतश्चित् जायते कथमकार्यम् घटादिवत् ? अथाऽकार्यम् ; गगनादिवत् कथं कादाचित्कं [२०५ख] [कादाचित्कञ्च १५ अका]र्यं चेति परस्परविरुद्धमेतत् । ततः 'कादाचित्कत्वात् कार्यम्' इति मन्यते ।
तथा कादाचित्कम् 'अनुत्पत्तिधर्मकम्' इति प्रक्रियाव्यावर्णनमात्रम् । कुतः ? इत्याह-विरोधात् इति । तद्यथा तत्कादाचित्कं प्रागसत् पुनर्लब्धात्मलाभकं कुड्यादिवत् कथमनुत्पत्तिधर्मकम् अविद्यमानोत्पत्तिधर्मकम् ? तँथात्मलामस्यैव उत्पत्तिरूपत्वस्यचिद् (त्वात् । कस्यचिद्) अर्थान्तरसत्तासम्बन्धनिषेधात् । अथाऽनुत्पत्तिधर्मकम् आकाशवद् बन्ध्यास्तन्धय- २० वत् ; कथं कादाचित्कम् इति विरोधः ? तस्मात् कादाचित्कत्वाद् उत्पत्तिधर्मकमिति भावः ।
___ तथा, कादाचित्कम् अनाधेयाअहेयातिशयात्मकम् अजन्याविनाशसामर्थ्यस्वभावम् इति प्रक्रियाव्यावर्णनमात्रम् । कुतः ? विरोधात् । तथा च कुतश्चिद् आत्मानं तल्लभते चेत्यदिवत् (चेत् पटादिवत्) दुरुपपादमनाधेयाऽप्रहेयातिशयात्मकत्वम् , अन्यत आत्मलाभस्यैव आधेयप्रहयातिशयात्मकत्वात् । यदि पुनः गगनादिवत् अनाधेयाऽप्रहेयात्मकम् ; कथं कादा- २५ चित्कम् ? अथ जातस्य पुनः अतिशय आवानुपानेतुं वामशक्यत (आधातुमपनेतुं वा न शक्यते) । इति तत्तदात्मकमुच्यते ; तदसत्य (तदसत् ;) कादाचित्कत्वे अर्थक्रियाकारित्वे वा तत्र आधेयप्रहेयातिशयात्मकत्वं घटादिवत् पुनरनुमितेः प्रतिपद्यमानः केन वार्यते ?
तथैव कादाचित्कमविनश्वरम् इति प्रक्रियाव्यावर्णनमानं विरोधात् , सर्वस्य कादा
(१) प्रागभावत्वप्रध्वंसत्वादि । (२) जातिसम्बन्धस्वीकारे । (३) स्यात् इति शेषः । (४) सामान्यादौ अवान्तरजातिविरहेऽपि । (५) सत्तासम्बन्ध । (६) सिद्धान्त । (७) असतः आत्मलाभ एवोत्पत्तिरिति भावः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org