________________
२५०
१०
सिद्धिविनिश्चयटीकायाम्
सर्वदा [सर्वथा] भावा येभ्यः सोस्थोन (यैः कौटस्थ्येन ) संस्थिताः || योगिनः एवं चकारः ( योगिनः वंचकाः) काकवद्भुवि वा नुः (?) । कैरिक तैस्ता संतीनाः कं यान्तु संश्रयम् ( ? ) |
सदोपलभ्यमाना हि काटा : (भावा:) किन्नाम नाशिनः ।
अन्यथा नाशिनः सर्वे भवेयुः गगनादयः ॥ इति कपिलमुनीशैः संस्तुते संस्त (सांख्य) मार्गे, अचलनिखिलभावानाश्रिते किन्तु नश्येत् ।
बत वदत विनाशे नैव चान्येन योगः ।
सत इह सततं तत् तन्निरोधो न वार्त्ता ॥ इति ।
तत् स्थितम्–'विनाशो यदि भावस्वभावो न भवेत् तस्य किं कुर्वाणस्य स्याद् विनाश:' इति ।
ननु यदुक्तम्–'तस्य विनाशस्य हेतुः किं कुर्वाणः स्यात्' इति ; तत्र उत्पत्तेः कुर्वाणः स्यादिति चेत्; अत्राह - पूर्व इत्यादि । न तावद् उत्पादयति । तावच्छब्दो वितर्के [२०१ ०४ख ] न क्रमार्थी (र्थे) अन्यस्य प्रयोजनस्यावचनात् नोत्पादयति न जनयति हेतु: मुद्गरादिः १५ ' विनाशम्' इति विभक्तिपरिणामेन सम्बन्धः । कुतः ? इत्याह- पूर्वावधिः प्रागभावः तेन परिच्छिन्नं विशिष्टं यद्वस्तु घटादिः तस्य सत्तया सम्बन्धः समवायः स एव लक्षणं स् तस्य भावात् तत्त्वात् । कस्य ( कस्याः १) इत्याह-उत्पत्तेः इति । न च प्रागस्ततो विनाशस्य सत्तया सम्बन्धः ; अनभ्युपगमात् परस्य * “त्रिपदार्थसत्कारी सत्ता" इति वचनात् । नापि प्रध्वंसस्य परेण द्रव्यादिष्वन्त त त वि (ध्वन्तर्भाव) इष्यत इति मन्यते ।
नन्वेवम् अत्यल्पमिदमुच्यते - 'स हेतु: विनाशं न तावद् उत्पादयति' इति यावता घटादेर्हेतुः तमवि (पि) नोत्पादयति । तथाहि - न तावद् घटादेः प्रागसतः तद्धेतुः आत्मलाभलक्षणामुत्पत्तिमुपजनयति; तदन्योत्पत्तिकल्पनानर्थक्यप्रसङ्गात् । नापि प्रागसतः सत्तासम्बन्धलक्षणा (णाम् ); सत्तासमवायस्य नित्यत्वात् । न च कुतश्चिदज्ञा (दजा ) तस्य बन्ध्यासुतस्येव सत्तया अन्येन वा सम्बन्धः, यतः किञ्चित् केनचिदुत्पादितं भवेत् । जातस्येति चेत् ; यद (यदि ) २५ लब्धात्मलाभस्य; त [हि] उक्तो दोषः - किमन्यया उत्पत्त्या ? कथमन्यथा शशशृङ्गादेर्भेद इति चेत् ; अयमपरः परस्यै दोषोऽस्तु । न खलु अत्स (अंश) दोषाः सन्तोऽपि अंकलङ्कमुपलीयन्ते । ननु न विनाशस्याद्य (न्य ) स्यं वा प्रागसतः सत्तासम्बन्धलक्षणा उत्पत्तिः हेतुना क्रियते यत्रायं स्यात्, अपि तु स्वरूपमेव क्रियतामिति चेत्; अत्राह - तस्य इत्यादि । तस्य विनाशस्य कथञ्चित् केनापि सत्तासम्बन्धकरणलक्षणेन [२०५६ ] स्वरूपलक्षणेन वा प्रकारेण कार्यत्वे ३० हेतुभाजतृत्वे (हेतुना जन्यत्वे ) भावस्वभावानतिक्रान्तेर्भावरूपानतिक्रमात् 'न तावदुत्पाद
(१) वैशेषिकस्य । “सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" - वैशे ० सू० १|२|७| (२) वैशेषिकेण । (३) घटमपि । ( ४ ) घटहेतुः । (५) उत्पत्तिमुपजनयतीति सम्बन्धः । ( ६ ) समवायेन वा । (७) वैशेषिकस्य । ( ८ ) कलङ्करहितम् अकलङ्कन्यायम् । (९) घटादेः ।
२०
Jain Education International
[ ४ जीवसिद्धिः
For Personal & Private Use Only
www.jainelibrary.org