________________
४६ ]
विनाशस्य निर्हेतुकता
२४९
न्तिक (का) इत्पूर्वमनं (इत्यूर्ध्वमनन्तरं) द्रष्टव्यः । ततोऽयमर्थः - हेतुमतो नाशस्य परेण ये हेतवः यानि कारणानि प्रतिपादितानि ते न ऐकान्तिका नावश्यकाभ्युपगमनार्हाः [२०३ख ] तत्कृतनाशे सत्यपि तथैव घटादेः उपलम्भादिति मन्यते ।
अथवा अनैकान्तिकाः अवश्यं तज्जनका नां (नाम) । यद्येवम् अनेन पर्याप्तमिति पूर्वदूषणमनर्थकमिति चेत् ; न ; हेतोः विनाशं तेन च भावस्य तिरोधानमभ्युपगच्छन्ति [ये ] ५ तेषां 'विनाशो यदि' इत्यादिकस्य ' कादाचित्कमकार्यम्' इत्यस्य च वृत्तिग्रन्थस्य भेदो न स्यात् ।
ર
अन्येन अर्थेन कारिकां विवृण्वन्नाह - विनाशो यदि इत्यादि । विनाशः प्रध्वंसो यदि भावः स्व(भावस्वभावो न भवेत् उत्तरपरिणामात्मको न स्याद् अपि तु भावाद् भिन्नः स्यादित्यर्थः । तस्य विनाशस्य किं कुर्वाणो हेतुः न किञ्चित्कुर्वाणः कारणं स्यात् मुद्गरादिः । १० अथवा, तस्य भावस्य किं कुर्वाणो विनाशः स्यात्, विनाशस्य च किं कुर्वाणो हेतुः स्यादिति योज्यम् । तथाहि--यदा भावाद् भिन्न एव विनाशः तदा नासौ " तस्य किञ्चित्करोति' इति व्यपदिश्यते उपकारापेक्षत्वात् अर्थान्तरयोः वास्तवसम्बन्धस्य, अन्यथा अतिप्रसङ्गात् । योग्यतासम्बन्धेऽपि अविनाभाव एव रूपरसादिवत् न पुनर्भावनिवृत्तिः । सैव तस्य न क्रियते इि चेत् ; यदि स्वभावभूर्ती ; प्रथमोऽपि विनाशः तथैवास्तु इत्यलं भेदैकान्तकल्पनया । अर्थान्तरं १५ चेत् ; तदवस्थो दोषोऽनवस्था च । विनाशेन च विनाशकरणात् तस्यैव सोऽस्तु पावकस्येव धूमः । तथा वधिना त एव (च विनाश एव ) " तत्सम्बन्धान्नष्ट इति स्यान्न भावः । भावसम्बन्धिनः " करणाददोषश्चेत् ; उक्तमत्र, तेन तस्य उपकाराऽकरणात् 'तत्सम्बन्धिनः' इति घटनायोगात् । [२०४ क] भावेनाप्यसौ” क्रियते ततस्तत्सम्बन्धीति चेत्; उभयोः स्यात्, तव ( न च ) भावः स्वविनाशहेतुः, सर्वदा प्रसङ्गात्, नित्यस्य अपेक्षायोगात् । विशेषणी भाव सम्बन्धस्य तत्रैव भावात् २० तत्सम्बन्धी इत्यपि वार्त्तम् ; भेदैकान्ते तत्सम्बन्धस्याविनमयि (स्यापि नियमयि ) तुमशक्तेः । तन्निवृत्तिकरणाद् भावस्य विनाशः उपलम्भप्रतिबन्धकरणात् स्यादिति चेत् ; उक्तमत्र तदवस्थस्य * तदयोगादिति । किञ्च,
तिरोहिता भावास्ते योगिभिः स्वयं नेष्यन्ते । (नेष्यन्ते योगिभिः स्वयं । ) योगिनो [न च] युक्ताः [स्युः] कथं सर्वार्थवेदनैः ॥ सर्वज्ञत्वं तथा [चैवं] वर्ण्यते यैः स्वभक्तितः । तेषामसर्वविद्वान्तर्गता (द्वार्ता गता ) केत्यपि चिन्त्यताम् ॥
यदा
तैः समीक्ष्यन्ते तदा क्षीणा प्रतिक्षीणां (क्षणं) । योगिनः प्रति वार्त्तेयं नष्टानुत्पन्नगोचरा ॥
सांख्यस्य योगिनः सर्वे चिरं जीवं (जीवन्तु) साम्प्रतम् ।
(१) भावस्य । (२) भिन्नयोः । ( ३ ) सर्वस्य सर्वव्यपदेशप्रसङ्गात् । ( ४ ) स्यात् । (५) भावनिवृत्तिरेव । (६) भावस्य । ( ७ ) नाशेन । (८) अभिन्ना । ( ९ ) अभिन्नोऽस्तु । (१०) विनाशसम्बन्धात् । (११) विनाशस्य । ( १२ ) विनाशः । (१३) विशेषणी भावस्यापि । (१४) उपलम्भप्रतिबन्धायोगात् ।
३२
Jain Education International
For Personal & Private Use Only
२५
३०
www.jainelibrary.org